परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 258, कुल 373 में से
संदर्भ में पढ़ें२२८ परिभाषेन्दुशेखरः [ २ प्रकरणे-
भाविनिमित्तविनाशे पूर्वमनुत्पत्तौ तु न कश्चिन्न्यायो नापि सम्प्रति- पन्नो दृष्टान्तः । समर्थनामित्यस्यापि लोकसिद्धार्थज्ञापनेन चारितार्थ्य- सम्भवे लोकसिद्धापूर्वतादृशार्थज्ञापकत्वे मानाभाव इति तदाशय इति बोध्यम् । परे तु 'सेदुष' इत्यादौ पदावधिकेऽन्वाख्याने 'सेद्स् + अस्' इति स्थिते इट्-सम्प्रसारणयोः प्राप्तौ प्रतिपदविधित्वात्पूर्वं सम्प्रसारणे वलादित्वा- भावादिटः प्राप्तिरेव नेति तत्सिद्धिरिति स्पष्टं 'समर्थानाम्' इति सूत्रे कैयटे, 'असिद्धवत्' सूत्रे कैयटे च स्पष्टमेतत् । यद्यपि प्रतिपदविधित्वमनवकाशत्वे सत्येव बाधकत्वे बीजम् ; तथापि पूर्वप्रवृत्तौ सावकाशत्वेऽपि नियामकं भवत्येवेति तदाशयः । निरूपितं चैतद् बहुशः शब्देन्दुशेखरादौ । प्रतिपदविधित्वादिति । न चेतोऽपि वसुशब्दमुच्चार्य विहितत्वेन प्रतिपदविधित्वं सममिति वाच्यम् ; 'प्राप्तौ' इत्यस्याग्रे 'पूर्वं किं कर्तव्यमिति विचारः ; परं तु' इति ग्रन्थ- शेषं प्रपूर्य 'सद् + वस् + अस्' इति दशायां कृतद्विर्वचनैकाचोऽभावेन 'वस्वेकाजा'िति शास्त्रस्याप्राप्त्या द्वित्वादितः पूर्वमेव प्रतिपदोक्तत्वेन सम्प्रसारणे इति ग्रन्थयोजनेन अदोषात् । केचित्तु — 'वस्वेकाज'िति सूत्रे वलीत्यनुवृत्त्या तत्सामर्थ्येन सम्प्रसारणप्रवृत्ति- सम्भावनायामिटोऽप्राप्तिः । अत एव वलादित्वाभावादिति मूलोक्तिः सङ्गच्छत इति वदन्ति । अन्ये तु—प्रतिपदविधित्वादित्यस्येट्सम्प्रसारणयोः प्राप्तावित्यत्रान्वयः । पूर्वं सम्प्रसारण इत्यावर्तते । पूर्वं सम्प्रसारणे वलादित्वाभावादिटः प्राप्तिरेव नेति ग्रन्थेनेटो नित्यत्वमुपवर्णितम् । इतीत्यस्य नित्यत्वादित्यर्थः । तथा च पदावधिकेऽन्वाख्याने 'सेद्
- वस् + अस्' इति स्थिते प्रतिपदविधित्वात् इट्सम्प्रसारणयोः प्राप्तौ पूर्वं सम्प्रसारणे वलादित्वाभावादिटः प्राप्तिरेव नेति इटोऽनित्यत्वेन नित्यत्वात्पूर्वं सम्प्रसारणे तत्सिद्धिरिति यथाश्रुतमेव ग्रन्थं योजयन्ति । निरूपितं चेति । चान्निरूपयिष्यते चापवादप्रकरणे मूलेपीत्यर्थः । मूले—पदावधिकेऽन्वाख्यान इति । पदस्य विभज्यान्वाख्याने इत्यर्थः, पदसंस्कार इति यावत् । पदसंज्ञाप्रयोजकप्रत्ययोत्पत्त्यनन्तरं संस्कार इति फलितार्थः । तत्सामर्थ्येनेति । वसुप्रत्ययस्य वलादित्वाव्यभिचारेण तत्सामर्थ्यात् वलादेरेव, न तु तदभाववत्त्वेन सम्भावितस्यापि ग्रहणमिति भावः । वस्तुतस्तु — बलीत्यस्यानुवृत्तिरेव माऽस्त्विति यत्किञ्चिदेतत् । योजयन्तीति । यद्यपि प्रतिपदविधित्वमित्युत्तरग्रन्थविरोधादयमपि पक्षोऽयुक्तः ।