परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 244, कुल 373 में से
संदर्भ में पढ़ें२१४ परिभाषेन्दुशेखरः [ २ प्रकरणे- नन्वेवम् ‘अपीयाये’त्यादौ द्वित्वे कृतेऽन्तरङ्गत्वात् सवर्णदीर्घत्वे तद- सिद्धिरत आह— वार्णादाङ्गं बलीयो भवति ॥ ५५ ॥ —: ✤ :— तेन अन्तरङ्गमपि सवर्णदीर्घं बाधित्वा वृद्धिरिति तत्सिद्धिः । ‘अभ्यासस्यासवर्णे’ इतीयङ्विधायकसूत्रस्थमसवर्णग्रहणमस्या ज्ञापकम्, तद्धि ‘ईषतुरि’त्यादौ इयङादिव्यावृत्त्यर्थम् । एतत्परिभाषाभावे तु ‘ईष- तुरि’त्यादौ अन्तरङ्गेण सवर्णदीर्घेण बाधात्तद्व्यर्थम् । इयडुवङौ ह्यभ्यास- कार्यमिति चेन्न । ‘अधीत्ये’त्यादौ तुकादेरप्रवृत्तिप्रसङ्गात् क्त्वाश्रयानुबन्धकार्याणां ल्यब्विषये प्रवृत्त्यभावस्तु उक्तज्ञापकेन कल्पयितुमशक्यः, ‘प्रलय्ये’त्यादौ गुणनिषेधा- नापत्तेः, ‘प्रोह्य गत’ इत्यत्र सम्प्रसारणस्य, ‘प्रमथ्ये’त्यादौ नलोपादेश्चानापत्तेरित्यत्र विस्तरः ॥ ५४ ॥ सवर्णदीर्घत्व इति । ननु द्वित्वस्यापि बहिरङ्गत्वेन असिद्धत्वादीर्घाप्राप्तिः । न च नाजानन्तर्य इति निषेधः, तस्या असत्त्वादिति चेन्न । तदसत्त्वेऽपि तद्विषये बहि- रङ्गपरिभाषायाः प्रमाणसत्त्व एव प्रवृत्त्याऽत्र प्रवृत्तौ प्रमाणाभावात् । अत एव ‘ऊखतु- रि’त्यत्र दीर्घसिद्धिः, प्रकृतपरिभाषाज्ञापनपरभाष्यञ्च सङ्गच्छते । अभ्याससम्बन्धनिमित्त- कत्वादिति । द्वित्वप्रयोज्यसंज्ञावन्निमित्तककार्यविधायके द्वित्वप्रयोजक इत्यस्याध्या- हारादित्यर्थः । अत्र च ‘ह्वः सम्प्रसारणमि’ति सूत्रमेव मानम्, अन्यथा ‘अजूहवदि’त्यत्र ‘अभ्यस्तस्य चे’त्यनेनैव सम्प्रसारणसिद्धौ तद्वैयर्थ्यापत्तिः । मम तु ‘अभ्यस्तस्य चे’- त्यत्र द्वित्वप्रयोजक इत्यस्य सत्त्वेन ‘अजूहवदि’त्यत्र णिचा व्यवधानात्तदप्राप्त्या ‘ह्वः सम्प्रसारणमि’त्यस्य सार्थक्यं स्पष्टमेव । अत एव ‘प्रजिह्वायकीयषती’त्यत्र ‘अभ्यस्तस्य मूले—अन्तरङ्गत्वादिति । वृद्धयपेक्षयेति भावः । ननु द्वित्वस्यापि बहिरङ्ग- त्वेनेति । इदं चिन्त्यम्—अन्तरङ्गशास्त्रस्य सवर्णदीर्घस्य प्रवृत्तौ निमित्तत्वेनाऽऽश्रीयमाण- समुदायस्य ‘इ इ’ इत्यस्य द्वित्वविधौ निमित्तत्वेनाऽऽश्रयणाभावात् द्वित्वशास्त्रस्य अन्तरङ्ग- शास्त्रीयनिमित्तसमुदायनिमित्तकत्वे सति तदितरनिमित्तकत्वरूपबहिरङ्गत्वाभावात् । नापि स्थानिद्वारा घटकमात्रनिमित्तकत्वमन्तरङ्गत्वम्, दीर्घविधेः षाष्ठद्वित्वस्य स्थाने द्विर्वचनाभावमभ्यु- पगमात् । नापि च बहिरङ्गशास्त्रीयेण येन केनचित् प्रथमान्तभिन्नेन पदेन ‘धातोरि’त्यनेनाऽऽश्रीय- यमाणैकारपर्याप्तनिमित्तताप्रयोजक सप्तम्यन्तपदघटितत्वरूपमन्तरङ्गत्वं सवर्णदीर्घस्य, अन्ते सन्नि- विष्टस्याऽऽगन्तुकस्य ‘धातोः’ इत्यनेनाऽऽश्रयणाभावात् । नापि यदीयसप्तम्यन्तनिमित्तात् पूर्वं यदीयसप्तम्यन्तनिमित्तं तदन्तरङ्गमिति अन्तःकार्यत्व रूपान्तरङ्गत्वं दीर्घस्य, तादृशान्तरङ्गत्व- सत्त्वेऽपि तस्य समकालप्राप्तबहिरङ्गसिद्धत्वनियामकत्वेन अकिञ्चित्करत्वात् ।