भारतकोश
संग्रह पर लौटें

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

५६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २२९ 'समर्थानाम्'ति सूत्रस्थसमर्थग्रहणन्तु 'विषुण' इत्यादौ अकृतसन्धेः प्रत्ययदर्शनेन सर्वत्र तथा भ्रमवारणाय न्यायसिद्धार्थानुवाद एव । ध्वनितं चेदं विप्रतिषेधसूत्रे भाष्ये । तत्र हि 'वैक्षमाणिर्'त्यन्तरङ्ग- परिभाषोदाहरणमुक्तम् । किञ्च विभज्यान्वाख्याने 'सु + उत्थित + अस्

  • इ' इति स्थिते वार्णादाङ्गं बलीय इति प्राप्तवृद्धिवारणाय समर्थ- ग्रहणमित्यत्रैव कैयटे स्पष्टम् । अत एव असिद्धवत्सूत्रे "वसुसम्प्रसारणमज्विधौ सिद्धं वक्तव्यं 'पपुष' इत्यादौ वसोः सम्प्रसारणे कृते आतो लोपो यथा स्याद्"ति भाष्ये उक्तम् । पदस्य विभज्यान्वाख्याने पूर्वोक्तकैयटरीत्या पूर्वं सम्प्रसारणे इटोऽप्राप्तौ उस्- निमित्तक एवाऽऽतो लोप इति तदाशयः ; अन्यथाऽन्तरङ्गत्वादिटि तन्नि- मित्तक एवाऽऽतो लोप इति तदसङ्गतिः । अत एव 'चौ प्रत्यङ्गस्य प्रतिषेध' इति वचनं वार्तिककृताऽऽरब्धं ननु उक्तपरिभाषाऽनभ्युपगमेऽन्तरङ्गत्वादेव कृतसन्धेस्तद्धितोत्पत्तौ समर्थवैयर्थ्य- मित्यत आह—भ्रमवारणायेति । वैक्षमाणिरिति । सिद्धान्ते समर्थग्रहणेन तद्धितविधौ अकृतेति परिभाषाया अप्र- वृत्तेरन्तरङ्गत्वादेव 'वैक्षमाणिर्'त्यत्र सवर्णदीर्घप्रवृत्तिर्युक्तेत्यरुचेराह—किञ्चेति । वार्णादाङ्गमिति परिभाषाया अकृतेति परिभाषारूपतया समर्थग्रहणसार्थक्यो- पपादनं नास्माकं प्रतिकूलमित्यरुचेराह—अत एवेति । दीक्षितमते पूर्वमिटो- ऽप्राप्त्या अजादित्वाभावेन आतो लोपाप्राप्तिरिति वसुसम्प्रसारणमित्यस्य आवश्यकतया न भाष्यविरोधः । वस्तुतः—कैयटमतेऽपि अन्तरङ्गत्वाज्जातस्येटो निमित्तापाय इति परिभाषया सम्प्रसारणोत्तरं निवृत्त्या इड्निमित्तकातो लोपाप्राप्त्या उस्निमित्तक एव तल्लोपो वाच्यः, तस्यासिद्धत्वेन लोपाप्राप्त्या वार्तिकावश्यकत्वेन न भाष्यासङ्गतिरित्यरुचेराह— अत एव चौ प्रत्यङ्गस्येति । मूले—सु+उत्थित+अस्+इ इति स्थित इति । अत्र 'अस्+इति स्थिते' इति पाठस्तु प्रामादिकः, यतः पदसंस्कारपक्षेऽपि अस्प्रत्ययेनैव पदत्वसिद्धौ तद्धितोत्पत्तिपर्यन्त- मनुधावनवैयर्थ्यात्, तत्पर्यन्तं दीर्घाप्राप्तौ मानाभावाच्च । किञ्चैवं पाठे पदसंस्कारपक्षोऽत्रेति पदत्वाय इस् इत्यपि वक्तुमुचितम् । न चैवं 'प्राप्तवृद्धिवारणाय' इत्युत्तरग्रन्थासङ्गतिरिति वाच्यम् ; 'अध्यैयाताम्' इत्येतत्सिद्धयर्थं 'वार्णादाङ्गम्'त्यस्य अङ्गशास्त्रप्रवृत्तिसम्भावनायां वार्णशास्त्रं न प्रवर्त्तत इत्यर्थस्य प्राचीनैरङ्गीकृतत्वेनादोषात् । अस्ति चात्र यदि दीर्घो न स्यात् तर्हि वृद्धिः स्यादिति सम्भावना, एवञ्च "वार्णादाङ्गमि"त्यनेन वृद्धिः प्राप्ता, तद्वारणाय समर्थग्रहणम्"ति कैयटोक्तं सूपपादमिति भावः ।

भाष्यकृता च न प्रत्याख्यातम् । प्रत्यङ्गमन्तरङ्गम् । अस्यां परिभाषायां सत्यान्तु तद्वैयर्थ्यं स्पष्टमेव । अत एव 'च्छ्वोर्'िति सूत्रे "अवश्यमत्र तुगभावार्थो यत्नः कार्योऽन्त- रङ्गत्वार्द्धि तुक् प्राप्नोती"ति भाष्ये उक्तम् । एतत्सत्त्वे तु तुकोऽप्राप्त्या यत्नावश्यकत्वकथनमसङ्गतमिति स्पष्टमेव । न चैतदनित्यत्वज्ञापनार्थमेव तदिति तदाशयः ; अवश्यमत्रेत्यक्षरस्वारस्यभङ्गापत्तेः । किञ्चानयैव 'प्रत्ययोत्तरपदयोश्च, अदो जग्धिल्यैप्ति किति'त्यनयो- श्चारितार्थ्येन तज्ज्ञापकवशालुग्ल्यपोरन्तरङ्गबाधकता भाष्योक्ता भज्येत । किञ्चैषा भाष्ये न दृश्यते । तदुक्तम् 'असिद्धवत्'सूत्रे कैयटेन— "निमित्तापाये नैमित्तिकस्याप्यपाय इति परिभाषाया भाष्यकृता अना- श्रयणादि"ति । न प्रत्याख्यातमिति । 'अकृतव्यूह'परिभाषारूपत्वादन्तरङ्गानिपीति न्यायादिवदेतन्न प्रत्याख्यातमित्यरुचेराह—अत एव च्छ्वोरिति । वस्तुतस्तु—'प्रतीच' इत्यादौ यणादि- वारणाय वार्तिककृताऽऽरब्धस्यैतद्वचनस्य चाविति दीर्घारम्भसामर्थ्येन यणाद्यभावं प्रति- पाद्य भगवता एतद्वचनं प्रत्याख्यातमेव । तदुक्तं भाष्ये—"इहान्ये आचार्याश्चौ प्रत्यङ्गस्य प्रतिषेधमाहुस्तदिहापि साध्यम् । नैष दोषः । एतदेव ज्ञापयत्याचार्यो न चौ प्रत्यङ्गं भवतीति । यदयं चौ दीर्घत्वं शास्ती"ति । न च प्रकृतपरिभाषया सिद्धे ज्ञापकाश्रयणं निष्फलमिति वाच्यम् ; तज्ज्ञापकेन आंशिकैतत्परिभाषार्थज्ञापनस्यैव सत्त्वेन तत्सिद्धि- रित्याशयात् । अत एव ज्ञापयतीत्युक्तम् ; अन्यथा दीर्घविधानसामर्थ्यादित्येव वदे- दिति बोध्यम् । अक्षरस्वारस्यभङ्गापत्तेरिति । अत्राक्षरस्वारस्यरसमास्वादयद्भिग्र्रन्थकृद्भिः वार्ण'- परिभाषाया अनित्यत्वनिरूपणावसरे कथमक्षरस्वारस्यभङ्गोऽङ्गीकृत इति तु त एव प्रष्टव्याः । किञ्च प्रकृतिप्रत्यापत्तिवचनादिना अस्या अनित्यत्वेन तुको निवृत्तये यत्नावश्य- कत्वकथनं युक्तम् । किञ्च वाञ्छतेः क्विपि शादेशप्रवृत्तये सतुक्कनिर्देशस्याऽवश्य- कत्वमित्यरुचेराह—किञ्चानयेति । तत्तज्ज्ञापकैरंशत एतत्परिभाषाया एव ज्ञापनेन न भाष्योक्तज्ञापकताभङ्ग इत्यरुचेराह—किं चैवेति । अन्तरङ्गानिपीत्यादेरेतद्धनरूपतया तद्रूपेणैव एतद्दर्शनस्यापि सत्त्वेन न दृश्यत इति कथनं साहसमात्रमित्यरुचेराह—तदुक्तमिति । निमित्तापाय इति परिभाषा भाष्यानुक्ता कथं कैयटेनाऽऽश्रितेति स एव प्रष्टव्यः । दीक्षितोका तु सान्तरङ्गा- नपीत्यादिशब्दैः भाष्यकृता आश्रितैवेति बोध्यम् । वस्तुतस्तु—निमित्तापाय इत्यादिशब्दैरेषा भाष्येनाऽऽश्रितेत्ति ऽर्थेन कैयटस्यापि नोक्तविरोध इति तत्त्वम् ।

५६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २३१ पदसंस्कारपक्षे ‘हरिरि’त्यादौ विसर्गे कृते ततो गच्छतीत्यादिसम्बन्धे ‘हरिः गच्छती’त्याद्येव साधु । तद्विषये पदसंस्कारपक्षानाश्रयणं वेति दिक् ।। ५६ ।। प्राचीनोक्तं परिभाषाफलमन्यथयति—पदसंस्कारेति । ननु ‘विसर्जनीयस्य स’ इति सूत्रस्थभाष्यप्रामाण्येनात्र पदसंस्कारपक्षाश्रयणमशक्यम् । तत्र हि ‘खरी’त्यस्यानु- वृत्त्यभावेऽपि खर्येव विसर्गं इति प्रतिपादनाय “खरवसानयोर्विसर्गं विधाय तस्यानेन सत्वविधानादन्यतरस्मिन् सत्वम्, यदि च खरवसानयोरुभयोरपि सत्वं स्यात्तर्हि विसर्गविधानं व्यर्थं स्यादित्युपक्रम्य ‘शर्परे विसर्जनीय इति ज्ञापकात्खर्येव ‘विसर्ज- नीयस्य स’ इत्यस्य प्रवृत्तिः ; विध्यर्थे तु खरि विसर्जनीयस्य सिद्धतया पुनर्विधान- मनर्थकं स्यादि’’त्युक्तम् । यद्यवसाननिमित्तकस्य विसर्जनीयस्य पदान्तरसमभि- हारेण अवसानभङ्गसम्भावनायामपि विसर्जनीयस्य पूर्वं प्रवृत्तिः, प्रवृत्तस्य निमित्तविनाशे निवृत्त्यभावस्तदा तादृशविसर्गघटिते ‘क.त्सरुरि’त्यादौ सत्वनिवृत्तये विसर्जनीय- विधानेन सार्थकस्र्य शर्परे इत्यस्य भाष्यकारोक्ता ज्ञापकता भज्येत । तस्मादिह विसर्जनीयरहितस्य ‘हरिर्गच्छती’त्यादेरेव साधुत्वम्, तच्च परिभाषैकसाध्यमित्यवश्यं पदसंस्कारेऽपि सा स्वीकार्या परिभाषेत्यरुचेराह—तद्विषयेति । अनाश्रयणमिति । तथा चोक्तपक्षयोर्व्यवस्थिततया ‘सेदुष’ इत्यत्र पदसंस्कारपक्षाश्र- यणमुक्तस्थले वाक्यसंस्कारपक्षाश्रयणमिति सर्वेष्टसिद्ध्या उक्तपरिभाषाश्रयणं निष्फलमिति भावः । ‘हरिः ओमि’त्यत्र तु वैदिकसम्प्रदाय एव शरणम् । ‘वागाशीर्दत्तो वात्रिक’ इत्यादौ तु सपादसप्ताध्यायीस्थकार्यप्रवृत्तियोग्यतायां त्रैपादिकस्य पूर्वमप्रवृत्त्या कुत्वाद्यभावः । ‘वृक्षो वृक्षः सिच्यत’ इत्यत्र वृक्षस् इति सान्तस्यैव द्वित्वम्, न तु विसर्गान्तस्य । पूर्वत्रासिद्धमद्वित्व इति त्वनित्यम्, तेन विसर्गात्प्राक् द्वित्वेन रुत्वेन रुत्वादिसिद्धेर्न तदप्युक्तपरिभाषाफलम् । एवं ‘ष्ठा गतिनिवृत्तावि’त्यत्र सूत्रे ष्टुत्वेऽपि ‘त्रेस्त्रय’ इत्यादौ त्रिशब्दवत् ष्ठा’ इत्यस्यैव नकारादावित्यभियुक्तोक्त्या बोधकत्वावगमेन ‘स्थानमि’त्यादिलक्ष्येषु न टवर्गश्रवणमित्येवं सर्वत्र उक्तपरिभाषासाध्य-फलाना- मन्यथासिद्धयैषा निष्फलेति—नागेशानुयायिनः । वस्तुतस्तु—अन्तरङ्गानपीत्याद्यनेकवचनकल्पनापेक्षयाऽनुगतैतत्परिभाषारूपवचन- अनर्थकं स्यादिति । न च ‘कुप्वोः कᳵ पौ च’ इति साधनार्थं भविष्यतीति वाच्यम् ; तावन्मात्रप्रयोजनकत्वे ‘कुप्वोः कᳵ पौ च इत्यत्र ‘अशरी’त्येव ब्रूयादिति भावः । नागेशानुयायिन इति । अत्रेदं विचारणीयम्—दीक्षितेन निमित्तं विनाशोन्मुख- मित्याद्यर्थं स्वीकृत्य परिभाषात्रयस्यान्तर्भाविका एका परिभाषा स्वीकृतेति महल्लाघवम्, कैयटेन च निमित्तापाय इत्याद्युक्त्वा जातनिवृत्तिरङ्गीकृतेति पूर्वापेक्षया गौरवम् । नागेशेन च तदुभयमप्यस्वीकुर्वता तत्प्रत्याख्याय विभिन्नमेव परिभाषात्रयमङ्गीकृतमिति तस्य द्वितीयपक्षादपि गौरवम् । तस्मात् मतत्रयेऽपि दीक्षितमतं युक्तितमम् । किञ्च नवीनमते प्रयोगानुपपत्तिश्चेत्या- शयेनाह—वस्तुतस्त्विति ।

२३२ परिभाषेन्दुशेखरः [ २ प्रकरणे- अन्तरङ्गादप्यपवादो बलवान् ॥ ५७ ॥ —: ॐ :— तत्र अपवादपदार्थमाह— कल्पनामेव युक्तम् अत एव 'वैभाजित्रमि'ति सिद्ध्यति ; अन्यथान्तरङ्गत्वान्णेर्गुणा- यादेशयोर्विभाजयितुः 'णिलोपोऽच्छात्र् च वक्तव्य' इत्यनेनान्त्यस्य यकारमात्रस्य लोपापत्तेः । मम तु अकृतेति परिभाषया गुणायादेशप्राप्त्या णिरूपेकारलोपेनेष्टसिद्धिः । न च विभाज- यितुर्येर्लोप इति वक्तव्ये णिलोपपकथनं सर्वदेशार्थमिति वाच्यम् ; विभाजीति प्रातिपदिका- दाचारक्विक्बन्तात्तृचि निष्पन्नविभाजयितृशब्दे यलोपापत्त्या तादृशस्य कर्तुमशक्यत्वात् । एवं 'घटसेदुषोरि'त्यत्र प्रथमान्तानामेव द्वन्द्वविधानात् घट् + स् + सद् + वस् + स् + ओसि'ति स्थितेऽन्तर

५८ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २३३ येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति ॥ ५८ ॥ —: ❖ :— प्राप्त इति भावेक्तः, ‘येन नाप्राप्त’ इत्यस्य यत्कर्तृकावश्यप्राप्तावित्यर्थः, नञ्द्वयस्य प्रकृतार्थदार्ढ्यबोधकत्वात् । एवञ्च विशेषशास्त्रोद्देश्यविशेषधर्मा- वच्छिन्नवृत्तिसामान्यधर्मविच्छिन्नोद्देश्यकशास्त्रस्य विशेषशास्त्रेण बाधः । नशब्दस्य ‘अप्राप्त’ इत्यनेन ‘सुप्सुपे’ति समासः । नञो नलोपाभावः पृषोदरा- दित्वाद्वा बोध्यः । अवश्यप्राप्ताविति । न चात्र ‘लम्पेदवश्यमः कृत्य’ इत्यस्याप्राप्त्या कथं मलोप इति वाच्यम् ; अवश्यमिति मान्ताव्‍ययसमानार्थकावश्यशब्देनात्र समासेना- दोषात् । अत एव आवश्यकाऽधमर्ण्ययोरि’ति सौत्रनिर्देशसङ्गतिः ; अन्यथाऽवश्यं- शब्दस्य योपधत्वाभावेन वुञोऽप्राप्त्या तदसङ्गतिः स्पष्टैव । विशेषशास्त्रेति । विशेषशास्त्रोद्देश्यो यो विशेषधर्मविच्छिन्नः, तद्वृत्तिर्यः सामान्यधर्मस्तदवच्छिन्नोद्देश्यताकशास्त्रस्य, विशेषशास्त्रेण = विशेषधर्मविच्छिन्नोद्देश्य- ताकशास्त्रेण बाध इत्यर्थः । सामान्यत्वं व्यापकत्वम् । विशेषत्वं व्याप्यत्वम् । ननु सामान्यधर्मे विशेषशास्त्रोद्देश्यविशेषधर्मविच्छिन्नवृत्तित्वरूपं विशेषणं व्यर्थम्, सामान्यधर्मे विशेषशास्त्रोद्देश्यविशेषधर्मविच्छिन्नवृत्तित्वासत्त्वे तस्य सामान्यत्वा- सम्भवादिति चेन्न । उद्देश्यतावच्छेदकतावच्छेदकसम्बन्ध एव व्यापकतावच्छेदको ग्राह्य इति भ्रमवारणायात्र तत्सार्थक्यात् । अत एव प्रथमैकाच्त्व-द्वितीयैकाच्त्वयो- रुक्तसम्बन्धे सामानाधिकरण्याभावेऽपि स्वाश्रयोत्तरत्वादिन समानाधि- करण्यमादाय व्याप्यव्यापकभावात् ‘एकाचो द्वे’ इत्यस्य ‘अजादेर्द्वितीयस्ये’त्यनेन बाधः सिद्ध्यति । नन्वत्र साक्षादुद्देश्यतावच्छेदकधर्मयोर्व्याप्यव्यापकभावो बाधप्रयोजक उत साक्षात्परम्परासाधारण्येन उद्देश्यतावच्छेदकयोः ? नाऽद्यः ; ‘‘नेमो रहौ कार्यिणौ निपातं स्वीकृत्य नियामकत्वकल्पनापेक्षया विधित्वस्यैव न्याय्यत्वात् । किञ्च ‘अभावे न ह्यनो नापि’ इति कोशप्रामाण्येन निषेधार्थकनाशब्देन अप्राप्तिपदस्य समासः । ‘नैकधे’त्यादावप्येव- मेवोपपत्तिः । एवञ्च पृषोदरादित्वकल्पनमपि व्यर्थमेवेति बोध्यम् । मूले—नञ्द्वयस्येति । मूलस्यास्य नञ्द्वयार्थकस्येत्यर्थः, तेन एकस्य नञोऽपरस्य नाशब्दस्य चेति यावत् । यथाश्रुतानुरोधेन तु व्याख्याकृता तथा व्याख्यातम् । भ्रमवारणायेति । अन्यथा उद्देश्यतावच्छेदकावच्छेदकसम्बन्धेनेत्युपादीयेत । सम्बन्धा- नुल्लेखपूर्वकं तादृशविशेषणमात्रोपादानेन कालिकातिरिक्तेन येन केनापि सम्बन्धेन वृत्तिता विवक्षि- तेति तात्पर्यं सूचितमिति भावः । ३०

२३४ परिभाषेन्दुशेखरः [ २ प्रकरणे- किं तर्हि निमित्तं द्विवचनस्य" इति भाष्यविरोधापत्तेः । तत्र हि 'अचोरहाभ्याम्'- त्येतच्छास्त्रीयोद्देश्यतावच्छेदकतावच्छेदक-रत्वस्य 'अनचि च'ति शास्त्रीयसाक्षा- दुद्देश्यतावच्छेदक-यत्वपेक्षया व्याप्यत्वेन अपवादत्वात्तद्बाधेन रेफस्य द्वित्वाभावः साधितः । नाप्यन्त्यः ; अनुशतिकादिषु पुष्करसच्छब्दपाठसामर्थ्येन आदिवृद्धिरन्त्यो- पधावृद्धी बाधत इत्यर्थज्ञापकपरभाष्यविरोधापत्तेः । परम्परया उद्देश्यतावच्छेदकयोः ञ्णित्प्रत्ययत्व-ञ्णित्तद्धितत्वयोर्व्याप्यव्यापकभावेन 'तद्धितेष्वचामादिः' इति शास्त्रेण 'अचोञ्णिति', 'अत उपधाया' इति शास्त्रयोर्बाधादेव उक्तार्थसिद्धेर्निरुक्तभाष्य- विरोधः स्पष्ट एवेति चेन्न । व्याप्यव्यापकधर्मयोः साक्षात्परम्परया वा तत्तदुद्देश्यता- वच्छेदकयोर्विशेष्यविशेषणदलप्रविष्टयावत्पदार्थसङ्कुचितयोरेव ग्रहणेन 'तद्धितेष्व- भाष्यविरोधापत्तेरिति । परम्परया ग्रहणे तु न दोषः, विशेषधर्मोऽजुत्तररेफत्वहत्व- रूपः, तदवच्छिन्नः परम्परया यर्, तद्वृत्तिः सामान्यधर्मः स्वाश्रयाव्यवहितोत्तरत्वसम्बन्धेन अजु- त्तरयत्वरूपः, तदवच्छिन्नोद्देश्यता कस्य 'अनचि च' इत्यस्य बाधेनेष्टसिद्धेः । न च साक्षादवच्छेद- कत्वग्रहणेऽपि विशेषधर्मः तादृशयर्त्वम्, तद्वृत्तिः सामान्यधर्मः स्वाश्रयाव्यवहितोत्तरत्वसम्बन्धेन अजव्यवहितपरत्वसमानाधिकरणयत्वरूप इति वाच्यम् ; व्याप्यव्यापकधर्मयोः सामानाधिकरण्या- नापत्तेः । वृत्तिताया येन केनापि सम्बन्धेन ग्रहणेऽपि व्याप्यत्वस्य व्यापकत्वस्य च तेन सम्बन्धेना- ग्रहणात् विशेषधर्मो रेफोत्तरयरि, सामान्यधर्मस्तु रेफे इति सामानाधिकरण्याभावात् विशेषत्वस्य सामान्यत्वस्य च दुर्वचत्वात् । स्यादेतत् - एवं सामानाधिकरण्यग्रहणे प्रथमैकाच्त्व-द्वितीयैकाच्त्वयोरपि तत्त्वाभावेन व्याप्यव्यापकत्वाभावादनिष्टापत्तिरिति तदर्थं सामानाधिकरण्याभावेऽपि व्याप्यत्वेन व्यापकत्वेन च विवक्षितत्वमेव व्याप्यत्वं व्यापकत्वं चेति वाच्यमिति प्रकृतेऽपि सामानाधिकरण्याभावेऽपि तत्त्वेन विवक्षया साक्षादवच्छेदकताया ग्रहणेऽपि अदोषः । न च विवक्षाया अप्रतिबध्यत्वेन न प्रथमैकाच्त्वस्य व्याप्यत्वे द्वितीयैकाच्त्वस्य व्यापकत्वे विपरीतबाधापत्तिरिति वाच्यम् ; धर्मयो- र्व्याप्यव्यापकभाववैपरीत्येऽपि शास्त्रे सामान्यत्वं तदप्राप्तियोग्ये चारितार्थ्यम्, विशेषत्वञ्च तदप्राप्ति- योग्यस्थले अचरितार्थ्यरूपमिति शास्त्रस्यैव बाधकतया वैपरीत्यस्य सुपरिहरत्वात् । एवं स्थिते साक्षादवच्छेदकताया ग्रहणेऽप्यदोष इति चेत्- मैवम् ; अजव्यवहितोत्तररेफहकाराव्यवहितोत्तरत्वसमानाधिकरणयत्वस्य विशेषधर्मत्वे येन धर्मेण व्यापकता तद्धर्मावच्छिन्नातिरिक्तत्वेन व्यापकशास्त्रीयोद्देश्यतावच्छेदकावच्छिन्ने सङ्कोचात् 'हर्य्यनुभवः' इत्यत्र तादृशयर् यकारस्तदतिरिक्तत्वात् रेफस्य तस्य 'अनचि च' इति शास्त्रेण द्वित्वापत्तेः । न च तादृशयर्त्वाश्रयावधिकपूर्वातिरिक्तत्वेन सङ्कोचः 'अनचि च' इत्येतद्धटक-यर्- पदार्थे क्रियत इति न दोष इति वाच्यम् ; 'अर्हेण' इत्यत्र हकारस्य यर्त्वाभावात् यर्हव्यवहित- पूर्वातिरिक्तस्यैव रेफे सत्त्वेन द्वित्वापत्तेः । किञ्च 'येन नाप्राप्त' इत्यादेरेवार्थस्य विशेषशास्त्रे- त्यादि विवरणम् । तद्विवरणे च तदप्राप्तियोग्येऽचारितार्थ्यपदार्थानुप्रवेशे आत्माश्रयापत्तिरिति न कथमपि पूर्वोक्तं वक्तुं शक्यत इति साक्षादवच्छेदकता न गृहीतुं शक्यत इत्यलम् । विशेष्यविशेषणदलप्रविष्टेति । अयम्भावः- अत्रावच्छेदकता न स्वरूपसम्बन्ध- विशेषः, किन्तु अनतिरिक्तवृत्तित्वरूपा, स्वव्यापकतावच्छेदकत्वरूपेति यावत् । तदर्थश्च-स्वव्यापिका

५८ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २३५ चामादेरि'ति शास्त्रीयतादृशोद्देश्यतावच्छेदकस्य 'अच्घटिताङ्गावधिकपरत्वविशिष्ट- णिन्तद्धितत्वस्य आद्युपधावधिकपरत्वविशिष्ट-णित्प्रत्ययत्वाजन्ताङ्गावधिकप-रत्व- विशिष्ट-णित्प्रत्ययत्वरूपतदुभयशास्त्रीयोद्देश्यतावच्छेदकाभाववति मारुतशब्दघटक- तद्धिते वर्तमानत्वेन तस्य व्याप्यत्वाभाववादनेन न्यायेन आदिवृद्धेरन्त्योपधावृद्धिबाध- कत्वासम्भवेन उक्तज्ञापकपरभाष्यविरोधाभावात् । 'अचो रहाभ्यामि'त्यत्र अज्यवहित- परत्व-यरव्यवहितपूर्वत्वधर्माभ्यां सङ्कुचितस्य रत्वस्य अज्यवहितपरत्वाज्यवहित- पूर्वत्वाभावरूपधर्मसङ्कुचितस्य 'अनचि चे'ति शास्त्रीयोद्देश्यतावच्छेदक-यर्त्वस्यापेक्षया व्याप्यत्वेन 'नेमौ रहार्वि'ति भाष्यसङ्गतिश्च । यद्वा—अत्र उद्देश्यतापदेन उद्देश्यदलप्रविष्टशाब्दबोधीयविषयतामात्रं गृह्यते । सा च सङ्कुचितैवास्त्विति न विशेष्यविशेषणदलप्रविष्टयावत्पदार्थसङ्कुचितेति निवेशस्योप- योगः । इत्यञ्च प्रकारद्वयेऽपि वृत्त्यन्तविशेषणदानं निष्फलमेव । 'एकाच' इति शास्त्रीयो- द्देश्यतावच्छेदकधातुत्वस्य तादृशधातुत्वावच्छिन्नविषयतायाश्च अजादेरिति शास्त्रीयो- द्देश्यतावच्छेदकतादृशधातुत्व-तादृशधातुत्वावच्छिन्नविषयतयोश्च अपेक्षया व्यापक- त्वेन तद्बाधसिद्धेरिति बोध्यम् । अत्र च विषयतयोर्व्याप्यव्यापकभावस्तद्विषयतामात्रवृत्तितद्व्यक्तित्वादिनैवेति नाऽऽग्रहः, किन्त्वन्यतरत्वादिनाऽपि । अत एव 'इको यणची'त्येतच्छास्त्रीयैकपद- प्रयोज्यविषयताया 'दैत्यारिः' इत्यत्रासत्त्वेन 'आद्गुण' इत्येतच्छास्त्रीयापदप्रयोज्य- विषयतायाश्च 'श्रीश' इत्यत्रासत्त्वेन प्रत्येकवृत्तिधर्मपुरस्कारेण तयोर्व्यापकत्वविरहेऽपि- अन्यतरत्वेन तयोर्विषयतयोर्व्यापकत्वमादाय 'अकः सवर्णे' इत्यनेन 'इको यणचि, आद्गुण' इत्येतयोर्द्वयोरपि बाधः सिद्ध्यति । नन्वेवं 'कुप्वोरि'ति शास्त्रेण 'विसर्जनीयस्य सः, शर्षरे विसर्जनीय' इत्येतच्छास्त्रीयविसर्जनीयपदप्रयोज्यविषयताद्वयस्यापि अन्यतरत्वेन स्वघटकविसर्जनीय- पदप्रयोज्यविषयताव्यापकत्वेन तयोर्द्वयोरपि बाधापत्तिः । न च स्वव्यापकतावच्छेद- कत्व-स्वव्यापकतावच्छेदकव्यापकत्वोभयसम्बन्धेन स्वघटकपदप्रयोज्यविषयता- उद्देश्यतावच्छेदकताव्यापिका सा उद्देश्यता यस्य तत् स्वव्यापकः, तत्क इति । एवञ्च उद्देश्यताख्य- विषयतारहितस्थले तादृशावच्छेदकधर्माभावश्चेत् स धर्मस्तदवच्छेदकः स्यात् । उद्देश्यता निरूपितं व्यापकत्वं धर्मेऽपि विवक्षितमिति फलितम् । एव स्थिते प्रकृते केवलण्णित्तद्धितत्वस्य 'तद्धितेष्व- चामादेः' इत्येतच्छास्त्रीयोद्देश्यतावच्छेदकत्वं दुर्वचम् । तथा 'णित्प्रत्ययत्वस्य, अचोञ्णिति, अत उपधायाः' इत्येतच्छास्त्रीयोद्देश्यतावच्छेदकत्वं दुर्वचमित्येतन्मूलकमेव 'विशेष्यविशेषणदल- प्रविष्टेत्यादि । निष्फलमेवेति । उद्देश्यतावच्छेदकावच्छेदकस्वरूपसम्बन्धेन व्याप्यव्यापकभावाभ्युप- गमेऽपि दोषाभावादिति भावः । स्वव्यापकतावच्छेदकव्यापकत्वेति । अस्य स्वव्यापकतावच्छेदकविशिष्टभिन्नत्व- मित्यर्थः । वैशिष्ट्यञ्च — स्वव्यापकत्व-स्वभिन्नत्वोभयसम्बन्धेन, तेन स्वव्यापकत्वमादाय न दोषः । 'रमायाम्' इत्यत्र तु तद्धटितत्वेन व्यापकविषयतामादाय स्वातन्त्र्येण 'आद्गुणः' इत्यस्य 'याडापः'

विशिष्टधर्मावच्छिन्नव्यापकतावद्विषयताकशास्त्रस्य स्वेन बाध इत्यर्थकल्पनेन निरुक्त- विषयताद्वयवृत्त्यन्यतरत्वे 'कुप्वोः' इति शास्त्रीयविसर्जनीयपदप्रयोज्यविषयताया आद्य- सम्बन्धेन वैशिष्ट्येऽपि स्वव्यापकतावच्छेदक'विसर्जनीयस्य स' इत्येतच्छास्त्रीयविसर्ज- नीयपदप्रयोज्यविषयतावृत्तितद्व्यक्तित्वव्यापकत्वेन द्वितीयसम्बन्धेन तदभावाद् बाध्यत्व- प्रयोजककैकरूपाभावेन नोक्तशास्त्रद्वयबाध इति वाच्यम् ; 'उऋँदिति शास्त्रीयऋत्पद- प्रयोज्यविषयताया अपि 'उपधाया, मृजे, पुगन्त' इत्येतच्छास्त्रत्रयीयऋत्पदेकपद्प्रयोज्य- विषयतात्रयवृत्त्यन्यतमत्वे स्वव्यापकतावच्छेदकीभूतं 'यदुपधाया' इति पुगन्तेति शास्त्र- द्वयीयोद्देश्यताख्यविषयताद्वयवृत्त्यन्यतरत्वं तद्व्यापकत्वस्यैव सत्त्वेन स्वव्यापकतावच्छेद- काव्यापकत्वरूप

पि द्वितीयसम्बन्धाभावात् (तथाहि—स्वाश्रयविषयता ‘इको यणचि’ इत्येत- द्विषयता, तदव्याप्यविषयता ‘अकः सवर्णे दीर्घः इत्यस्य विषयता, तद्वृत्तित्वम् अन्यतरत्वस्य न तु अवृत्तित्वमिति व्यापकतावच्छेदकविशिष्टभिन्नत्वस्य सत्त्वे अन्यतरत्वावच्छिन्नव्यापकता- मादाय उभयोरपि बाधापत्त्या प्राचीनग्रन्थविरोधः स्पष्ट एव ।) इत्यस्वरसात् समाधानान्तर- माह—उत्तरपदत्वे चेति ।

ननु ‘अचिर ऋतः’ इत्यस्य गुणदीर्घोत्वानामपवादत्वं न स्यात्, ‘जसि च, ऋतो ङि, Wait: "गुणदीर्घोत्वानामपवादत्वं" or "गुणदीर्घोत्त्वानाम्..."? ग ु ण द ी र ् घ ो त ् व ा न ा म... It is गुणदीर्घोत्वानम् (or गुणदीर्घोत्वत्वानाम्? no, गुणदीर्घोत्वानम् = गुण, दीर्घ, उत्व).

प्रथमयोः पूर्वसवर्णः, ऋत उत्’ इति सूत्रचतुष्टयीघटकपदप्रयोज्यविषयतानामन्यतमत्व

२३८ परिभाषेन्दुशेखरः [ २ प्रकरणे-

तदप्राप्तियोग्येऽचरितार्थं ह्येतस्य बाधकत्वे बीजम् ।

तदप्राप्तीति । तच्च चतुर्विधम्—( १ ) तदप्राप्तियोग्येऽचारितार्थ्यम्, ( २ ) तदप्राप्तियोग्ये- ऽचारितार्थे सति कृते चारितार्थ्यम्, ( ३ ) तदप्राप्तियोग्येऽचारितार्थ्ये सति कृते- ऽचारितार्थ्यम्, ( ४ ) तदप्राप्तियोग्येऽचारितार्थ्ये सति अपवादशास्त्रप्रवृत्त्युत्तरमुत्सर्ग- शास्त्रप्रवृत्तौ अपवादशास्त्रप्रणयनवैयर्थ्यसम्भावना चेति । अत्र तदप्राप्तियोग्यं च तद्वि- धेयाघटितं बोध्यम्, तेन तद्विधेयघटिते तदप्राप्तियोग्येऽपवादत्वेन जिघृक्षितशास्त्रस्य चारितार्थ्येऽपि न क्षतिः। तत्राऽऽद्येन बाधबीजेन उत्सर्गस्य पूर्वमप्रवृत्तिरित्येव बाधः । तथा च उत्सर्गशास्त्रीयोद्देश्यतावच्छेदकावच्छिन्नेऽपवादशास्त्रप्रवृत्तियोग्यलक्ष्यघटकाति- रिक्तत्वेन सङ्कोचः; यथा— सम्बुद्धौ चे'त्यस्य हल्ङ्यादिसूत्राप्राप्तियोग्येऽचारि- तार्थ्येन एतत्प्रवृत्तियोग्यलक्ष्यघटकातिरिक्तत्वेन हल्ङ्यादिशास्त्रीय-सुपदार्थे सङ्कोचात् 'रमा + स्' इत्यत्र हल्ङ्यादिसूत्राप्राप्त्या अनेनैत्वे 'एङ्घ्रस्वादि'ति सुलोपसिद्धिरिति भाष्ये स्पष्टम् । न चात्र द्वितीयबाधबीजेन निर्वाहः; तस्य बीजस्य हल्ङ्यादिसूत्र- विषयेऽप्रवृत्तिस्वीकारात् । अत एव 'अनडुवानि'त्यत्र सुलोपसिद्धिः; अन्यथा 'साव- नडुह' इत्यनेन हल्ङ्यादिलोपस्य द्वितीयबाधबीजेन बाधापत्त्या नुमुत्तरं हल्ङ्यादि- लोपानापत्तेः । 'आमि सर्वनाम्नः सुडि'त्यस्य नुडप्राप्तियोग्येऽचारितार्थ्यात्कृतेऽपि नुटि 'यदागम'- न्यायेन चारितार्थ्याच्च द्वितीयबाधबीजेन सुटा नुतो बाधसिद्धिः । एतद्बाधश्च उत्सर्ग- शास्त्रीयोद्देश्यतावच्छेदकावच्छिन्ने स्वविहितकार्याश्रयातिरिक्तत्वेन सङ्कोचरूपः । तथा च ह्रस्वनद्याप' इत्यत्राऽऽम्पदार्थे 'आमि सर्वे'ति शास्त्रविहितसमुदायातिरिक्तत्वेन सङ्कोचात् 'सर्वेषामि'त्यत्र सुडुत्तरं न नुट् । एवमत्र प्रथमबाधबीजस्य सत्त्वेन सुट्प्रवृत्तियोग्यलक्ष्यघटकातिरिक्तत्वेन आम्पदार्थे सङ्कोचात् सुटः पूर्वमपि न नुडिति बोध्यम् । एतदेव तक्रकौण्डिन्य-न्यायस्वरूपम् । तृतीयबाधबीजेन तु प्रथमबाधबीजप्रयोज्य-सङ्कोचरूपघटकस्वप्रवृत्तियोग्यार्थे स्वीयोद्देश्यतावच्छेदकावच्छिन्नेति विशेषणदानरूपसङ्कोचः क्रियते । तथा च 'ङेरामि'ति शास्त्रस्य 'याडाप' इति शास्त्राप्राप्तियोग्येऽचारितार्थ्येन कृते याटि निर्दिश्यमानस्य याटा व्यवधानादचारितार्थ्येन च 'याडाप' इति शास्त्रीय-ङिद्वचनपदार्थे आम्विधायक- शास्त्रीयोद्देश्यतावच्छेदकावच्छिन्नो य आम्शास्त्रप्रवृत्तियोग्यस्तदतिरिक्तत्वेन सङ्को- चात् याटः पूर्वमाम्सिद्धिः, कृते त्वामि सङ्कुचितोद्देश्यतावच्छेदकस्य 'रमा + आम्' इत्यत्र सत्त्वेन 'याडाप' इत्यस्य प्रवृत्तिः सुलभवै । यद्यप्यत्र प्रथमबाधबीजेन निर्वाहः; तथापि 'अयज + इ + इन्द्रमि'त्यत्र 'आद्गुण' इत्यस्य प्रवृत्तये एतस्या- ऽऽवश्यकत्वम् । अन्यथा इट इकारस्य 'अकः सवर्णे' इति शास्त्रप्रवृत्तियोग्यत्वेन गुणस्याप्रवृत्त्याऽऽपत्तेः । मन्मते तु 'आद्गुण' इत्यत्र 'अकः सवर्ण' इति शास्त्रीय- सवर्णाज्ब्यवहितपूर्वत्वविशिष्टाक्त्वरूपोद्देश्यतावच्छेदकावच्छिन्नो यः स्वप्रवृत्तियोग्य- स्तदतिरिक्ताद् अवर्णात् अगव्यवहितपरसवर्णाज् रूपस्वप्रवृत्तियोग्यातिरिक्ते अचीत्येवंरूप- स्यैव वा सङ्कोचस्य प्राप्त्या 'अयज + इ' इत्यत्र 'आद्गुण' इत्यस्य दुर्वारेत्वेन

५८ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २३९ नोक्तदोषः। तव मते त्वत्पदार्थे 'अकः सवर्णे' इति शास्त्रप्रवृत्तियोग्यातिरिक्तत्वेन सङ्कोचेन अत्र इट इकारस्य दीर्घप्रवृत्तियोग्यत्वेन गुणानापत्तिदुर्द्धरैव स्यादिति दिक्। 'अतोऽम्'त्यस्य लुगप्राप्तियोग्येऽचारितार्थ्येन अमुत्तरं लुकि तु 'अतोऽम्'त्यस्य प्रणयनवैयर्थ्येन चतुर्थबाधबीजेन द्वितीयवत्स्वविहितकार्याश्रयातिरिक्तत्वेनैव 'स्वमोरि'त्यत्र सङ्कोचः, तेनाऽमुत्तरं न लुक्, प्रथमबाधबीजेन बाधाच्चामः प्रागपि न लुगिति बोध्यम्। केचित्तु—द्वितीयबाधबीजेनैव स्वप्रवृत्तियोग्यातिरिक्तत्वेन स्वविहितकार्याश्रया- तिरिक्तत्वेन चोत्सर्गशास्त्रे सङ्कोचः। 'रमे' इत्यत्राप्यनेनैव बाध इति प्रथमबाधबीजस्य नोपयोगः। हल्ङ्यादिलोपविषये तदप्रवृत्तिस्वीकारे तु न मानम्, नापि फलम्, 'अनड्- वानि'त्यत्र पुनः पुनः संयोगान्तलोपेन निर्वाहः। 'सावपि पदं भवती'त्यस्य सर्वाभि- मतत्वेन 'अनड्वान् + ह् + स्' इति दशायामेकस्मिन्नेव काले 'संयोगान्ते'ति सूत्रस्य वर्ण- द्वये प्राप्त्या 'लक्ष्ये लक्षण'न्यायस्य विषयाभावात्। एवमेव तृतीय-चतुर्थाभ्यामपि बाधबीजभ्यां प्रथमबाधबीजप्रयोज्यसङ्कोचोऽपि स्वीकरणीय इति सर्वेष्टसिद्धि रिति वदन्ति। अन्ये तु—प्रथमबाधबीजेनैव सर्वत्र निर्वाहैऽन्यानि त्रीणि बाधबीजानि निष्फल- त्वान्नाऽङ्गीकार्याणि। 'आमि सर्वनाम्न' इत्यत्र आ+आमीत्याकारप्रश्लेषेणाऽऽकारादौ आमि सुड्नुटोः प्रवृत्त्या प्रथमबाधबीजेन पूर्वं सुटि आकाराद्यामपरकत्वाभावेन नुटो- ऽप्राप्तिः। 'अजादेर्द्वितीयस्ये'त्यनेन 'एकाच' इत्यस्य परत्वाद् बाधेन 'सकृद्गता'न्यायान्न पुनरेकाच इत्यस्य प्रवृत्तिः। यद्वा—प्रथमबाधबीजेन 'एकाच' इत्यस्य बाधेन अनभ्यास- ग्रहणेन तत्प्रत्याख्यानप्रकारेण वा न पुनस्तत्प्राप्तिः। किञ्च 'तक्रकौण्डिन्य'न्यायेन द्वितीय- बाधबीजेन बाधस्वीकारे 'ईध्राध्मोः, हन्तेहिंसायामि'त्यादिभिर्द्वित्वबाधापत्तिः, 'तदोः, अनाप्यक' इति सूत्राभ्यां त्यदाद्यत्वबाधापत्तिः, तवकाद्यादेशेन आदिवृद्धिबाधापत्तिः, स्यतासिभ्यां तिबादिबाधापत्तिः, 'पचो व' इत्यादिना कुत्वादिबाधापत्तिश्च। एतदादिषु बहुषु लक्ष्येषु अननुगततदनित्यत्वस्वीकारापेक्षया शास्त्रे तदनाश्रयणमेव वरम्। अत एव 'इदमो म' इति सूत्रं चरितार्थम्; अन्यथा 'इदोऽय् पुंसि', 'यः सावि'त्याभ्यामपवादत्वा- देव बाधे सिद्धे तद्वैयर्थ्यं स्पष्टमेव। न चैतदस्वीकारे 'नेमौ रहावि'ति भाष्यासङ्गतिः, 'हर्य्यनुभव' इत्यादौ रेफस्य द्वित्वापत्तिश्च, मम तु तक्रन्यायेन अनचीत्यत्र यर्पदार्थे रेफा- तिरिक्तत्वेन सङ्कोचात्तदप्राप्तिरिति वाच्यम्; अत्र तक्रन्यायेन सङ्कोचेनेष्टसिद्धेरयोगात्। तक्रन्यायेन हि विशेष्यविशेषणदलप्रविष्ट-यावत्पदार्थसङ्कुचित-व्याप्यतावच्छेदकरूपाव- च्छिन्नातिरिक्तत्वेन सङ्कोच आवश्यकः, अन्यथा 'ह्रस्वनद्याप' इत्यत्राऽऽम्पदार्थेऽवर्णावधिक- कपरामतिरिक्तत्वेन सङ्कोचापत्तौ 'रामाणामि'त्यत्र नुडनापत्तेः, एवम् 'एकाचो द्वे' इत्यत्र- आजादिधातवतिरिक्तत्वेन सङ्कोचे आटे'त्यत्र द्वित्वानापत्तेश्च। एवम् 'अनचि चे'त्यत्रापि यरवधिकपूर्वत्ववदजवधिकपरत्ववद्रेफातिरिक्तत्वेन सङ्कोचः स्यादिति 'अर्हेणे'त्यत्र तादृश- रेफातिरिक्तयरः सत्त्वेन रेफस्यानचीति द्वित्वापत्तेः। तादृशसङ्कुचितयर्पदस्य सूत्रवार्ति- कयोः सम्बन्धेऽपि 'मद्रह्रदो, धात्रंश' इत्यादौ रेफस्य द्वित्वापत्तेर्दुर्वारत्वाच्च। किञ्च

अत एव 'आयादय' इति सूत्रे 'गोपायिष्यती'त्यादौ आयादीन् बाधित्वा परत्वात् स्यादायः प्राप्नुवन्तीत्याशङ्क्य, "अनवकाशा आयादयः । 'गोपा- यती'त्यादावपि शप् स्यादिः प्राप्नोति । न च सति शप्यसति वा न विशेषः । अन्यदिदानीमिदमुच्यते नास्ति विशेष इति । यदुक्तमायादीनां स्यादिभि- र्व्यासोऽवकाश इति स नास्त्यवकाश" इति भाष्ये उक्तम् ।


अनचीत्यस्य वैकल्पिकत्वेन 'शेषाद्विभाषे'ति सूत्रस्थभाष्यरीत्या रपदप्रयोजनिमित्ताख्य- शाब्दविषयतायास्तदप्राप्तियोग्येऽचरितार्थमपि दुर्वचमेव । तस्मादत्र तक्रन्यायादन्येन 'माठरपरिवेषण'न्यायेनैव बाध्यबाधकभावः । अत एव तत्र सूत्रे भाष्ये 'माठरपरि- वेषण'न्याय एतदुष्टम्भकतया प्रतिपादितः । शेखरकृता हि 'माठरपरिवेषण'न्याये तक्र- न्यायादभिन्नं

५८ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २४१ एवमत्र तत्प्रवृत्त्युत्तरं चारितार्थ्येऽपि तद्व्याप्तोऽवकाशो नास्तीति सममेव । किञ्चानेन न्यायेन तत्प्रवृत्त्युत्तरमपि चारितार्थ्ये तद्बाधबोधनम् ; अन्यथाऽनवकाशत्वेनैव बाधे सिद्धे एतत्कथनवैयर्थ्यापत्तेस्तक्रकौण्डिन्यन्याय- प्रदर्शनस्यापि वैयर्थ्यापत्तेश्च । तथा प्रथमद्विर्वचनस्य तदुत्तरं सावकाशेनापि द्वितीयद्विर्वचनेन बाधः । यथा वाऽऽदेरपि प्रवृत्त्या चरितार्थेन 'आदेः परस्ये'त्यनेन 'अलोऽन्त्यस्ये'त्यस्य बाधः । तदुक्तम् 'मिदचोऽन्त्यादि'ति सूत्रे भाष्ये—"सत्यपि सम्भवे बाधनं भवती"ति । अन्यथा 'ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्याये'त्यत्र तक्र- दानेन दधिदानस्य बाधो न स्यात्तद्दानोत्तरं तत्पूर्वं वा तद्दानस्य चारितार्थ्य- सम्भवात् । अत एव विषयभेदेऽप्यपवादत्वम् । ननु शबादिप्रवृत्त्युत्तरमायादीनां चारितार्थ्येन अनवकाशत्वप्रदर्शनमयुक्तमत आह—एवमिति । यथा सति शप्यसति वा विशेषाभावेऽपि तदप्राप्तिमात्रेण आया- दीनामनवकाशत्वम्, एवं तत्प्रवृत्त्युत्तरं चारितार्थ्येऽपि तदप्राप्तियोग्येऽचारितार्थ्यं निर्बाधमेवेति तस्य प्रथमबाधबीजेन बाधकत्वं सुवचमिति भावः । द्वितीयबाधबीजं निरूपयति—किञ्चेति । एतत्फलमाह—यथा प्रथमेति । इदं चानभ्यासग्रहणं प्रत्याचक्षाणस्य भगवतो भाष्यकारस्य मतेन बोध्यम् । वस्तुतः—अस्त्वत्र प्रथमबाधबीजेनैव निर्वाह इत्युक्तं प्राक् ; इत एव वाऽरुचे- राह—यथा वेति । अप्रधानानुरोधेन प्रधानवृत्तेरसत्त्वेन 'उदः स्था'त्यादौ पूर्वं 'अलो- न्त्यस्ये'त्यस्य प्रवृत्तौ आकाङ्क्षायाः शान्तत्वेन 'आदेः परस्ये'त्यनेन सहैकवाक्यतया पुनरन्वयबोधासम्भवेन कृते चारितार्थ्यस्य दुर्निरूपत्वादत्रापि निरवकाशत्वादेव बाध उचित इतीदमप्युदाहरणं चिन्त्यमेव । मिदचोऽन्त्यादिति सूत्रे भाष्य इति । तत्र हि 'पयांसि, यशांसी'त्यादौ लक्षणनुमागमस्य अन्त्याज्वधिकपरत्वाऽन्त्यव्यञ्जननिवर्तकत्वयोर्युगपद्येन सम्भवान्निर- वकाशत्वरूपविरोधहेत्वभावेन अन्त्याचः परत्वेन स्थाने योगत्वस्य बाधो न स्यादि- त्याशङ्क्य, "नैवेश्वर आज्ञापयति, नापि धर्मसूत्रकाराः पठन्ति, अपवादैरुत्सर्गा बाध्यन्तामिति । किं तर्हि ? लौकिकोऽयं दृष्टान्तः, सत्यपि सम्भवे बाधनं भवतीति । तद्यथा सर्वेभ्यो ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्यायेति सत्यपि सम्भवे तक्रदानं दधिदानस्य निवर्तकं भवती"त्युक्तम् । अत एवेति । विषयभेदेऽपि प्रकृतन्यायप्रदर्शनपर-'मिदचोऽन्त्यादि'सूत्रस्थ- भाष्यप्रामाण्यादेवेत्यर्थः । न चैवं विषयभेदेऽपि बाधकत्वस्वीकारे दधिदानेन कम्बलदानबाधापत्तिः, सुटा यासुटो बाधापत्तिश्चेति वाच्यम्; सजातीयबाध- कत्वस्यैव लोकव्यवहारेण कल्पनात् कम्बलस्य दधिसजातीयत्वाभावेन बाधायोगात् ३१

२४२परिभाषेन्दुशेखरः[ २ प्रकरणे-

अत एवाचिरादेशेन नुढोऽप्यपवादत्वाद् बाधमाशङ्क्य 'न तिस्र'ति ज्ञापकेन समाहितं तृज्वत्सूत्रे भाष्ये, तेन विषयभेदेऽपवादत्वाभाव एव बोध्यते इति कश्चित् । तन्न ; विन्मतोर्लुका टिलोपमात्रस्य बाधानापत्तेः । यत्तु 'दयतेर्दिगी'ति सूत्रे द्वित्वोत्तरं दिग्यादेशस्य चारितार्थ्यं कैयटे- नोक्तं तत् प्रौढ्या । ध्वनितं च तेनापि तस्य तथात्वं तदुत्तरग्रन्थेन । असम्भव एव बाधकत्वं विरोधस्य तद्बीजत्वादिति वार्तिकमतन्तु भाष्यकृता दूषितत्वान्न लक्ष्यसिद्धयुपयोगि । तक्रकौण्डिन्यन्यायोऽपि तदप्राप्तियोग्येऽचरितार्थविषयो विधेयविषय एव


'यासुङ्विषये सीयुटः प्रतिषेधो वक्तव्य' इति वचनेनात्र प्रकरणे बाध्यबाधकभावा- भावज्ञापनेनादोषात् । अत एव 'झेर्जुसा यासुड्बाधो ने'ति तत्रैव सूत्रे शब्देन्दु- शेखरे स्पष्टम् । वस्तुतस्तु—तक्रन्यायस्यानित्यत्वादसत्त्वाच्च तत्र प्रथमबाधबीजेन अनवका- शत्वात् बाधेन तदुत्तरं यासुट्सिद्धिरिति दिक् । उक्तमर्थं प्रमाणान्तरेण द्रढयति--अत एवाचिरेति । विषयभेदे 'येन नाप्राप्ति'- न्यायस्वीकारादेवेत्यर्थः। नुतोऽप्यपवादत्वादिति। आमो नुट्, रादेशस्तु प्रकृतेरिति विषयभेदः स्पष्ट एवेति भावः । ननु नुटि कृते रादेशस्य चारितार्थ्याभावेन कथमेतन्न्यायविषयतेति चेन्न । तक्रन्यायस्यात्र विषयाभावेऽपि सर्वविधस्य 'येन नाप्राप्ति'न्यायस्य विषयभेदे प्रवृत्तिरित्यत्र प्रमाणदानाय एतद्ग्रन्थप्रवृत्तेरदोषात्, नुटि कृतेऽपि यदागमन्‍यायेन तद्विशिष्टस्याजादित्वेन कृते चारितार्थ्यस्य सुवचत्वाच्च । केचित्तु-यदागमन्‍यायेन नामोऽजादित्वेऽपि नुडुद्देश्यतावच्छेदकस्य स्वात- न्‍त्र्येण व्यापकत्वाभावेन अन्यतमत्वेनैव तत्त्वस्य वक्तव्यतया अन्यतमत्वावच्छिन्ने कृते रादेशस्य चारितार्थ्याभावेन तक्रन्यायस्यात्र दुरुपपादत्वमिति वदन्ति । तदुत्तरग्रन्थेनेति । तत्र हि दिग्यादेशमुपक्रम्य “नैवमनवकाशः । कृते द्विर्वचने प्रवृत्त्यविघातात् । अथ पुनरेवमप्यनवकाशं मन्यसे, तदा लक्ष्यदोषप्रसङ्ग" इत्युक्तम् । तत्र 'अथ पुनरि'त्याद्युक्तग्रन्थेन चारितार्थ्यप्रतिपादनपरस्य पूर्वग्रन्थस्यारुचि- ग्रस्तत्वमुपाध्यायो मन्यते । न लक्ष्यसिद्धयुपयोगीति । यथोत्तरं मुनीनां प्रामाण्या- दिति भावः । विधेयविषय इति । विभिन्नविधेयतानिरूपितोद्देश्यतयोः व्याप्यव्यापकभाव- स्तद्विषय इत्यर्थः । अत एव 'शेषो घ्यसखी'त्यत्रानेन न्यायेनेदन्ते घिशब्दातिरिक्तत्वेन सङ्कोचाभावेन 'घेर्डिति'त्यत्र घेरिवि गुणघटितनिर्देशोपपत्तिः । यद्वा—विधेयेन विधेयान्तरस्य व्याप्यव्यापकभावाद् बाध इत्यर्थः । अत एवापवादो नुग्दीर्घत्वस्य सुटा नुटो बाध इत्यादिव्यवहारोपपत्तिरिति दिक् ।

५९ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २४३ चेति 'तद्धितेष्वचामादेः', 'धातोरेकाच' इत्यादिसूत्रेषु भाष्ये स्पष्टम् ॥ ५८ ॥ क्वचित्तु सर्वथाऽनवकाशत्वादेव बाधकत्वम्, यथा ङेरामो याडादिबाध- कत्वम् । न हि याडादिषु कृतेषु ङेराम् प्राप्नोति, निर्दिश्यमानस्य व्यव- धानात् । तत्र स्वस्य पूर्वं प्रवृत्तिरित्येव तेषां बाधः । तत्र बाधके प्रवृत्ते यद्युत्सर्गप्राप्तिर्भवति तदा भवत्येव, यथा तत्रैव याडादयः । अप्राप्तौ तु न, यथा 'पचेयुरि'त्यादौ दीर्घबाधके निरवकाश इयादेशे दीर्घाभावः । तदेतत्पठ्यते— क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशत इति ॥ ५९ ॥ —: ० :— अपवादशब्दोऽत्र बाधकपरः । भाष्ये स्पष्टमिति । अनवकाशविषयत्वं 'तद्धितेष्वचामि'त्यत्र विधेयविषयत्वं तु 'धातोरेकाच' इत्यत्रास्य न्यायस्य प्रतिपादितमित्यर्थः । आद्ये 'कौष्ट्रो जागत' इत्यादौ अन्त्योपधावृद्धयोर्निषेधमुक्त्वा उक्तन्यायेन तयोरादिवृद्ध्या बाधमाशङ्क्य 'सौश्रुत' इत्यादौ अन्त्योपधावृद्धयोरप्राप्तिविषये आदिवृद्धेश्चरितार्थेनानवकाशत्वाभाव इत्य- भिप्रायेण भाष्यकृता 'इह तदभाव' इत्युक्तम् । सामान्यविशेषभावो बाधहेतुः, स चेह नास्तीति कैयटस्तदाशयमाह—धातोरेकाच इत्यादिष्वितिपदे अतद्गुणसंविज्ञानबहु- व्रीहिणा 'नित्यं कौटिल्य' इत्यादेः सङ्ग्रहः । अत्र हि “अथैतेभ्यः क्रियासमभिहारे यङा भवितव्यमिति प्रश्ने उत्तरयोर्विग्रहेण विशेषासम्प्रत्ययान्नित्यग्रहणेनानर्थक्यं क्रिया- समभिहारे च नैतेभ्यो यङा भवितव्यमि”ति भाष्यकृतोक्तम् । द्वितीयवार्तिके चकारेण विशेषासम्प्रत्ययादित्यस्य अनुकर्षणाय चकारः कृतः । क्रियासमभिहारे यत्र यङ् तत्र तदन्ताद्विशेषस्य 'भृशं जपती'त्याद्यर्थविशेषस्याप्रतीतिरिति स न भवति । यद्यनुवादे- ऽप्येतन्न्यायसञ्चारः स्यात्तदा न्यायेनैव 'धातोरेकाच' इत्यस्य बाधसिद्धेर्विशेषासम्प्रत्य- या़दिति अनुकर्षक-चकारोपादानवैयर्थ्यापत्तिरिति भावः ॥ ५८ ॥ तृतीयं बाधबीजं प्रपञ्चयति —क्वचित्त्विति । सर्वथेति । कृतेऽप्यचारितार्थ्ये सतीति भावः । चतुर्थन्तु सूत्रारम्भसामर्थ्यरूपं तत्समानमूलकत्वेनास्यैव प्रपञ्चभूतत्वादत्र पृथक्- नोक्तमपि प्रागुक्तमवगन्तव्यम् । क्वचिदपवादविषयेऽपीति । कृतेऽचारितार्थ्ये अपवाद इत्यर्थः । अत्रेति । अस्मिन् प्रकरणे इत्यर्थः । मूले—तदेतदिति । बाधकोत्तरप्राप्तिमदुत्सर्गकर्तृकं भवनमिति तदर्थः । उत्सर्गशास्त्राप्राप्तौ न तद्भवतीत्यत उक्तम्, मूले—क्वचिदिति । मूले बाधकशब्दः सर्वथा निरवकाशत्वमूलक-बाधकत्वावच्छिन्नपरः ।

तदुक्तं ‘गुणो यङ्‌लुकोरित्‍यत्र भाष्ये—‘‘अभ्यासविकारेष्वपवादा उत्सर्गान्‍ बाधन्ते । अजीगणत् । अत्र गणेरीत्वमपवादत्वाद्वलादिःशेषं बाधते । न गणेरीत्वमपवादत्वाद्वलादिःशेषं बाधते । किं तर्हि ? अनवकाशत्वादि’’ति ग्रन्थेन । गणरूपभ्यासान्त्यणस्येत्वमित्यर्थे हलादिःशेषेण तन्निवृत्तौ तदनव- काशमीत्वे तु कृते न तस्य प्राप्तिरन्त्यहलोऽभावात् अभ्यासविकारेषु बाध्य- बाधकभावाभावेन च साधितम् । तस्मिंश्च सति लोपे कृते सामर्थ्याच्छिष्ट- स्यान्त्यस्येत्वमिति न दोषः । न च ‘येन नाप्राप्ति’न्यायेन अपवादत्वमप्यस्य सुवचम् ; तस्य चरितार्थविषयताया उक्तत्वात् । ‘इको झलि’त्यत्र भाष्येऽपि ध्वनितमेतत् । तत्र हि ‘‘अज्झने’ति दीर्घेण गुणोत्तरं फलाभावेनानवकाशत्वाद् गुणे बाधिते दीर्घोत्तरं गुणः स्यात्, दीर्घविधानं तु मिनोतेर्दीर्घे कृते सनि ‘मीमे’त्यत्र मीग्रहणेन ग्रहणेऽर्थवत्त्व केचित्तु—अत्रापवादशब्दस्य बाधकपरत्वेऽपि अन्यत्रापवादशब्दः तक्रकौण्डिन्य- न्यायरूप-येन नाप्राप्ते'ति न्यायपर एव । अत एवाग्रे 'न च येनेति न्यायेनास्या- पवादत्वं सुवचं तस्य चरितार्थविषयताया उक्तत्वात्' इत्युक्तं मूले । किञ्च येनेति न्यायं प्रदर्श्य तत्र प्रमाणमुपदर्शयितुं तक्रन्यायो भाष्यकृता प्रदर्शितः । येनेति न्यायस्य निरवकाशादिबोधकत्वे तु तत्प्रामाण्यबोधनाय तक्रन्यायप्रदर्शनमसङ्गतमेव स्यादिति वदन्ति । तन्न शोभनम् ; अपवादशब्दस्य बाधके कृते चारितार्थ्यविशिष्टेऽपवादविशेषे च लक्षणायां मानाभावात्, फलाभावाच्च । भाष्ये तु तत्तच्छास्त्राणां निरवकाशत्व- मात्रेण पूर्वं प्रवृत्तिस्वीकारेऽपि कृते चरितार्थानामपवादविशेषाणां स्वप्रवृत्त्युत्तर- मप्युत्सर्गशास्त्राप्रवृत्तौ प्रमाणमुपदर्शयितुं तक्रन्यायप्रदर्शनस्याऽऽवश्यकत्वम् । मूले ‘तस्य चरितार्थविषयताया' इत्यस्य द्वितीयबाधबीजरूपस्य तस्य न्यायस्य कृते चारितार्थ्यं- रूपत्वेनात्र विषयाभावादित्यर्थकत्वेन तद्विरोधाभावात् । अत एव भाष्ये सर्वत्राप- वादशब्दस्तदप्राप्तियोग्यैचरितार्थपर एवेति दिक् । दीर्घविधानं त्विति । अन्यथा चतुर्थबाधबीजेन बाधापत्त्या दीर्घोत्तरं गुणा- नापत्त्या भाष्यासङ्गत्यापत्तिरिति भावः । मीग्रहणेनेति । न च मीग्रहणेन ग्रहणाभावे- ऽपि ‘मीनातिमिनोती’त्यात्वे गामादाग्रहणेष्वविशेषान्माग्रहणेन ग्रहणस्य दुर्व्वारत्वा- द्भाष्यासङ्गतिरिति वाच्यम् ; एज्निमित्तत्वं निमित्तीकृत्य प्रवर्त्तमानस्याऽऽत्वस्यैज्- मूले—भाष्येऽपि ध्वनितमेतदिति । 'येन नाप्राप्ति'न्यायस्य उत्सर्गे कृते चारितार्थ्य- रूपापवादविषयकत्वमित्येतदित्यर्थः । मूले—तत्र हीति । भाष्ये इति तदर्थः ; तस्य उक्तमित्य- नेन साकमन्वयः । मूले—गुणः स्यादिति । 'इको झल्' इति सूत्राभावे 'चिचीषति' इत्यादाविति भावः ।

५९ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २४५ पश्चात् प्राप्तगुणबाधनार्थम् 'इको झल्'िति कित्त्वमित्युक्तम्'' । अन्यथाऽपवा- दत्वेन बाधे तद्विषये उत्सर्गाप्रवृत्तेर्भाष्यस्य सूत्रस्य चासङ्गतिरिति स्पष्टमेव । यत्तु 'काञ्चनी'त्यादौ अपवादमयङ्विषयेऽप्यण् भवति, 'क्वचिदप- वादविषयेऽपी'ति न्यायादिति । तन्न ; 'अण् कर्मणि चे'ति सूत्रस्थभाष्य- विरोधात् । तत्र ह्यणः पुनर्वचनमपवादविषयेऽनिवृत्त्यर्थं 'गोदायो व्रजतो'- त्याद्युक्तम् । 'काञ्चनी'त्यादौ काञ्चनेन निर्मितैत्यर्थे शैषिकोडण् बोध्यः । अत्रेदं बोध्यम्-'येन नाप्राप्ते'त्यत्र येनेत्यस्य यदि स्वेतरेणेत्यर्थस्तदा स्वत्रिषये स्वेतरद्यद्यत् प्राप्नोति तद्बाध्यम्, विध्यन्तराप्राप्तविषयाभावात् । इयमेव बाध्यसामान्यचिन्तेति व्यवह्रिय

२४६ | परिभाषेन्दुशेखरः | [२ प्रकरणे- तत्र कार्येणेत्यर्थे पररूपत्वावच्छिन्ने कार्ये आरभ्यमाणाया वृद्धेस्तद्- बाधकत्वे निर्णीते किं शास्त्रविहितस्यैव तद्विशेषचिन्तायामाह— पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते नोत्तरान् ॥ ६० ॥ —: ❀ :— अवश्यं स्वपरस्मिन् बाधनीये प्रथमोपस्थितानन्तरबाधेन चारितार्थ्ये पश्चादुपस्थितस्य ततः परस्य बाधे मानाभाव आकाङ्क्षाया निवृत्ते- र्विप्रतिषेधशास्त्रबाधे मानाभावाच्चेत्येतस्य बीजम् ॥ ६० ॥ 'नासिकोदरोष्ठजङ्घादन्ते'त्यस्य औष्ठाद्यंशे दोषन्निषेधत्वावच्छिन्नबाध- कत्वे निर्णीते किं विहितस्येत्याकाङ्क्षायामाह— मध्येऽपवादाः पूर्वान्विधीन् बाधन्ते नोत्तरान् ॥ ६१ ॥ —: ❀ :— तेन औष्ठादिषु पञ्चसु 'असंयोगोपधादि'ति प्रतिषेध एव बाध्यते, न तु सहनञ्विद्यमानलक्षण इति 'नासिकोदरे'त्यत्र भाष्ये स्पष्टम् । पूर्वोपस्थितबाधेन नैराकाङ्क्ष्यमस्या बीजम् ॥ ६१ ॥ ननु 'वा छन्दसी'त्यनेन 'सेर्ह्यपिच्चे'त्यनन्तरस्यापित्त्वस्येव हेरपि विकल्पः स्यात्, तथा 'नेटी'ति निषेधोऽनन्तरहलन्तलक्षणाया इव सिचि- बाध्यसामान्यचिन्तायामनुगतं बाध्यत्वे बीजमुपपाद्य बाध्यविशेषचिन्ताया- मनुगतं बीजमुपवर्णयितुं तावदाह—पुरस्तादिति । अनन्तरान् = बाध्यव्यवधानशून्यान् । स्वपरस्मिन्निति । अत्र स्वेत्यधिकम् ॥ ६० ॥ असंयोगोपधादिति प्रतिषेध इति । प्रसज्यप्रतिषेध एवायम्, न तु पर्युदास इति भाष्यस्वरसः । एवम् 'ऋष्यन्धके'त्यण् इञ एवापवादो न तु ढकः । अत एव 'आत्रेय' इत्यत्र परत्वाड् ढक्सिद्धिरिति दिक् ॥ ६१ ॥ हेरपि विकल्प इति । न च सेर्हिडित्येव सिद्धेऽपिद्ग्रहणात् तावत एवोत्तरत्र अनुवृत्त्याऽपित्त्वस्यैव विकल्पो न हेरिति वाच्यम्; सिपोऽनुदात्तत्वेनान्तरतम्याद् ध्यादेशस्यानुदात्तत्वापत्तेः, तद्वारणाय अपित्त्वविधानस्याऽऽवश्यकत्वेन तावन्मात्रस्य अस्याः परिभाषाया विप्रतिषेधशास्त्रबाधे मानाभावादिति मूलकृदुक्तं बीजं वस्तुत उत्तर परिभाषाया अस्ति, उत्तरपरिभाषायाश्च बीजं पूर्वोपस्थित बाधे नैराकाङ्क्ष्य रूपमवगन्तव्यमिति- अस्मद्गुरुचरणाः । तथा मूलपाठस्तु प्रामादिक इति बोध्यम् ॥ ६० ॥

has पू र्वा नु भा हि ? Wait, look at पूर्वानुभव - wait, in line 23-24: पूर्वानुभावहित- / संस्कारोपजनितस्मृत्यारूढस्य Wait, look at L23: पू र्वा नु भा हि - wait, is it पूर्वानुभवहित- or पूर्वानुभावाहित-? "पूर्वानुभावाहितसंस्कार..."! Let's check the Kaiyata text on this vartika: Kaiyata on "यो वा तस्मादनन्तरः": "यत्र हि द्वावपि व्यवहितौ पूर्वोत्तरौ तत्र पूर्वानुभावाहितसंस्कारोपजनितस्मृत्यारूढस्य पूर्वस्य बाधो युक्तः।" "पूर्वानुभाव-आहित"! आहित = placed, deposited, produced! "पूर्वानुभावेन आहितः संस्कारः" -> "पूर्वानुभावाहितसंस्कारोपजनितस्मृत्यारूढस्य"! Look at the print: पू र्वा नु भा वा हि - wait, does it have वा then हि? Look at वा: yes, भा then वा then हि!

२४८ परिभाषेन्दुशेखरः [ २ प्रकरणे- इति सूत्रे कैयटः । प्रत्यासत्तिमूलकोऽयम् । लक्ष्यानुरोधाच्च व्यवस्थेत्यपि पक्षान्तरम् । तत्र तत्र क्वचित् स्वरितत्वप्रतिज्ञानात् सामर्थ्येन वा बाध्यतेऽयं न्यायः । यथा 'टिड्ढे'ति सूत्रेण डापा व्यवहितस्यापि ङीपो विधिः । न षडित्या- दिना द्वयोरपि टाब्ङीपोः प्रतिषेधः । इयञ्च 'शि सर्वनामस्थानम्'त्यादौ भाष्ये स्पष्टेत्यन्यत्र विस्तरः ॥ ६२ ॥ ननु 'दधती'त्यादौ अन्तरङ्गत्वादन्तादेशेऽल्विधौ स्थानिवत्त्वाभावाद्- अदादेशो न स्यादिति तद्वैयर्थ्यापत्तिरत आह— पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः ॥ ६३ ॥ -: ✤ :- लक्षणैकचक्षुष्को ह्यपवादविषयं पर्यालोच्य तद्विषयत्वाभावनिश्चय उत्स र्गेण तत्तल्लक्ष्यं संस्करोति ; अन्यथा विकल्पापत्तिरित्यर्थः । अभिनिविशन्त विषय इति स एव बाध्यत" इत्युक्तम् । एवं च मध्येऽपवादन्यायादस्य प्राबल्यं स्पष्टमेव तेनाभिहितमिति भावः ; तदाह- कैयट इति । पक्षान्तरमिति । अत्र कैयट एवाऽऽहेति शेषः । ङीपो विधिरिति । डाप एव विधाने त्वदन्तत्वाट्टापैव सिद्धे सूत्रमेव व्यर्थं स्यादिति बोध्यम् । भाष्ये स्पष्टेति । तत्र हि 'अनपुंसकस्ये'ति प्रसज्यप्रतिषेध इति 'शि सर्वनामस्थानम्'त्यस्यापि प्रतिषेधः स्यादि- त्याशङ्क्य अनेन न्यायेन समाहितमिति द्रष्टव्यम् ॥ ६२ ॥ तद्वैयर्थ्यापत्तिरिति । ननु 'जक्षती'त्यत्र धातुसंज्ञासमकालमेव अभ्यस्तसंज्ञाप्रवृत्त्या एककाल एव द्वयोः प्राप्तौ अन्तादेशबाधेन अदादेशस्य चारितार्थ्यमिति चेन्न । 'झोऽन्तः' इत्यत्र उपदेशिवद्वचनेनात्रापि पूर्वमेवान्तादेशप्रवृत्त्या तद्वैयर्थ्यस्य सूपपादत्वात् । 'अदभ्यस्तादि'त्यत्र त्वभ्यस्तात्परत्वस्यापदेशेऽसम्भवेन उपदेशिवद्भावस्य न प्रवृत्तिः । किञ्च 'आयन्ना'दिषु उपदेशिवद्वचनं स्वरसिद्धयर्थमिति वार्तिके स्वरसिद्धिरूपप्रयोजनो- पन्यासेन अभ्यस्तविषयेऽभ्यस्तानामादिरिति स्वरस्यैव प्रवृत्त्या आद्युदात्तस्वरनिवृत्ति- रूपप्रयोजनाभावेन तद्वार्तिकाप्रवृत्तिरिति बोध्यम् । लक्षणैकचक्षुष्क इति । लक्षणेनैव यस्य लक्ष्यसाधुत्वपरिज्ञानं स इत्यर्थः । विकल्पापत्तिरिति । पर्यायापत्तिरित्यर्थः । विकल्पस्तु न सम्भवति, पूर्वमुत्सर्गशास्त्र- प्रवृत्तौ अपवादशास्त्रप्रवृत्तेर्दुर्घटनात् ॥ ६३ ॥ पर्यायापत्तिरित्यर्थं इति । स्मृतिद्वयप्रामाण्यात् तृजादिवदन्यतरत्वेन व्यापकत्वा- दिति भावः । विकल्पस्त्विति । समुच्चय इति तदर्थः ॥ ६३ ॥