परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 265, कुल 373 में से
संदर्भ में पढ़ें५८ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २३५ चामादेरि'ति शास्त्रीयतादृशोद्देश्यतावच्छेदकस्य 'अच्घटिताङ्गावधिकपरत्वविशिष्ट- णिन्तद्धितत्वस्य आद्युपधावधिकपरत्वविशिष्ट-णित्प्रत्ययत्वाजन्ताङ्गावधिकप-रत्व- विशिष्ट-णित्प्रत्ययत्वरूपतदुभयशास्त्रीयोद्देश्यतावच्छेदकाभाववति मारुतशब्दघटक- तद्धिते वर्तमानत्वेन तस्य व्याप्यत्वाभाववादनेन न्यायेन आदिवृद्धेरन्त्योपधावृद्धिबाध- कत्वासम्भवेन उक्तज्ञापकपरभाष्यविरोधाभावात् । 'अचो रहाभ्यामि'त्यत्र अज्यवहित- परत्व-यरव्यवहितपूर्वत्वधर्माभ्यां सङ्कुचितस्य रत्वस्य अज्यवहितपरत्वाज्यवहित- पूर्वत्वाभावरूपधर्मसङ्कुचितस्य 'अनचि चे'ति शास्त्रीयोद्देश्यतावच्छेदक-यर्त्वस्यापेक्षया व्याप्यत्वेन 'नेमौ रहार्वि'ति भाष्यसङ्गतिश्च । यद्वा—अत्र उद्देश्यतापदेन उद्देश्यदलप्रविष्टशाब्दबोधीयविषयतामात्रं गृह्यते । सा च सङ्कुचितैवास्त्विति न विशेष्यविशेषणदलप्रविष्टयावत्पदार्थसङ्कुचितेति निवेशस्योप- योगः । इत्यञ्च प्रकारद्वयेऽपि वृत्त्यन्तविशेषणदानं निष्फलमेव । 'एकाच' इति शास्त्रीयो- द्देश्यतावच्छेदकधातुत्वस्य तादृशधातुत्वावच्छिन्नविषयतायाश्च अजादेरिति शास्त्रीयो- द्देश्यतावच्छेदकतादृशधातुत्व-तादृशधातुत्वावच्छिन्नविषयतयोश्च अपेक्षया व्यापक- त्वेन तद्बाधसिद्धेरिति बोध्यम् । अत्र च विषयतयोर्व्याप्यव्यापकभावस्तद्विषयतामात्रवृत्तितद्व्यक्तित्वादिनैवेति नाऽऽग्रहः, किन्त्वन्यतरत्वादिनाऽपि । अत एव 'इको यणची'त्येतच्छास्त्रीयैकपद- प्रयोज्यविषयताया 'दैत्यारिः' इत्यत्रासत्त्वेन 'आद्गुण' इत्येतच्छास्त्रीयापदप्रयोज्य- विषयतायाश्च 'श्रीश' इत्यत्रासत्त्वेन प्रत्येकवृत्तिधर्मपुरस्कारेण तयोर्व्यापकत्वविरहेऽपि- अन्यतरत्वेन तयोर्विषयतयोर्व्यापकत्वमादाय 'अकः सवर्णे' इत्यनेन 'इको यणचि, आद्गुण' इत्येतयोर्द्वयोरपि बाधः सिद्ध्यति । नन्वेवं 'कुप्वोरि'ति शास्त्रेण 'विसर्जनीयस्य सः, शर्षरे विसर्जनीय' इत्येतच्छास्त्रीयविसर्जनीयपदप्रयोज्यविषयताद्वयस्यापि अन्यतरत्वेन स्वघटकविसर्जनीय- पदप्रयोज्यविषयताव्यापकत्वेन तयोर्द्वयोरपि बाधापत्तिः । न च स्वव्यापकतावच्छेद- कत्व-स्वव्यापकतावच्छेदकव्यापकत्वोभयसम्बन्धेन स्वघटकपदप्रयोज्यविषयता- उद्देश्यतावच्छेदकताव्यापिका सा उद्देश्यता यस्य तत् स्वव्यापकः, तत्क इति । एवञ्च उद्देश्यताख्य- विषयतारहितस्थले तादृशावच्छेदकधर्माभावश्चेत् स धर्मस्तदवच्छेदकः स्यात् । उद्देश्यता निरूपितं व्यापकत्वं धर्मेऽपि विवक्षितमिति फलितम् । एव स्थिते प्रकृते केवलण्णित्तद्धितत्वस्य 'तद्धितेष्व- चामादेः' इत्येतच्छास्त्रीयोद्देश्यतावच्छेदकत्वं दुर्वचम् । तथा 'णित्प्रत्ययत्वस्य, अचोञ्णिति, अत उपधायाः' इत्येतच्छास्त्रीयोद्देश्यतावच्छेदकत्वं दुर्वचमित्येतन्मूलकमेव 'विशेष्यविशेषणदल- प्रविष्टेत्यादि । निष्फलमेवेति । उद्देश्यतावच्छेदकावच्छेदकस्वरूपसम्बन्धेन व्याप्यव्यापकभावाभ्युप- गमेऽपि दोषाभावादिति भावः । स्वव्यापकतावच्छेदकव्यापकत्वेति । अस्य स्वव्यापकतावच्छेदकविशिष्टभिन्नत्व- मित्यर्थः । वैशिष्ट्यञ्च — स्वव्यापकत्व-स्वभिन्नत्वोभयसम्बन्धेन, तेन स्वव्यापकत्वमादाय न दोषः । 'रमायाम्' इत्यत्र तु तद्धटितत्वेन व्यापकविषयतामादाय स्वातन्त्र्येण 'आद्गुणः' इत्यस्य 'याडापः'