परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 266, कुल 373 में से
संदर्भ में पढ़ेंविशिष्टधर्मावच्छिन्नव्यापकतावद्विषयताकशास्त्रस्य स्वेन बाध इत्यर्थकल्पनेन निरुक्त- विषयताद्वयवृत्त्यन्यतरत्वे 'कुप्वोः' इति शास्त्रीयविसर्जनीयपदप्रयोज्यविषयताया आद्य- सम्बन्धेन वैशिष्ट्येऽपि स्वव्यापकतावच्छेदक'विसर्जनीयस्य स' इत्येतच्छास्त्रीयविसर्ज- नीयपदप्रयोज्यविषयतावृत्तितद्व्यक्तित्वव्यापकत्वेन द्वितीयसम्बन्धेन तदभावाद् बाध्यत्व- प्रयोजककैकरूपाभावेन नोक्तशास्त्रद्वयबाध इति वाच्यम् ; 'उऋँदिति शास्त्रीयऋत्पद- प्रयोज्यविषयताया अपि 'उपधाया, मृजे, पुगन्त' इत्येतच्छास्त्रत्रयीयऋत्पदेकपद्प्रयोज्य- विषयतात्रयवृत्त्यन्यतमत्वे स्वव्यापकतावच्छेदकीभूतं 'यदुपधाया' इति पुगन्तेति शास्त्र- द्वयीयोद्देश्यताख्यविषयताद्वयवृत्त्यन्यतरत्वं तद्व्यापकत्वस्यैव सत्त्वेन स्वव्यापकतावच्छेद- काव्यापकत्वरूप