परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 272, कुल 373 में से
संदर्भ में पढ़ें| २४२ | परिभाषेन्दुशेखरः | [ २ प्रकरणे- |
|---|
अत एवाचिरादेशेन नुढोऽप्यपवादत्वाद् बाधमाशङ्क्य 'न तिस्र'ति ज्ञापकेन समाहितं तृज्वत्सूत्रे भाष्ये, तेन विषयभेदेऽपवादत्वाभाव एव बोध्यते इति कश्चित् । तन्न ; विन्मतोर्लुका टिलोपमात्रस्य बाधानापत्तेः । यत्तु 'दयतेर्दिगी'ति सूत्रे द्वित्वोत्तरं दिग्यादेशस्य चारितार्थ्यं कैयटे- नोक्तं तत् प्रौढ्या । ध्वनितं च तेनापि तस्य तथात्वं तदुत्तरग्रन्थेन । असम्भव एव बाधकत्वं विरोधस्य तद्बीजत्वादिति वार्तिकमतन्तु भाष्यकृता दूषितत्वान्न लक्ष्यसिद्धयुपयोगि । तक्रकौण्डिन्यन्यायोऽपि तदप्राप्तियोग्येऽचरितार्थविषयो विधेयविषय एव
'यासुङ्विषये सीयुटः प्रतिषेधो वक्तव्य' इति वचनेनात्र प्रकरणे बाध्यबाधकभावा- भावज्ञापनेनादोषात् । अत एव 'झेर्जुसा यासुड्बाधो ने'ति तत्रैव सूत्रे शब्देन्दु- शेखरे स्पष्टम् । वस्तुतस्तु—तक्रन्यायस्यानित्यत्वादसत्त्वाच्च तत्र प्रथमबाधबीजेन अनवका- शत्वात् बाधेन तदुत्तरं यासुट्सिद्धिरिति दिक् । उक्तमर्थं प्रमाणान्तरेण द्रढयति--अत एवाचिरेति । विषयभेदे 'येन नाप्राप्ति'- न्यायस्वीकारादेवेत्यर्थः। नुतोऽप्यपवादत्वादिति। आमो नुट्, रादेशस्तु प्रकृतेरिति विषयभेदः स्पष्ट एवेति भावः । ननु नुटि कृते रादेशस्य चारितार्थ्याभावेन कथमेतन्न्यायविषयतेति चेन्न । तक्रन्यायस्यात्र विषयाभावेऽपि सर्वविधस्य 'येन नाप्राप्ति'न्यायस्य विषयभेदे प्रवृत्तिरित्यत्र प्रमाणदानाय एतद्ग्रन्थप्रवृत्तेरदोषात्, नुटि कृतेऽपि यदागमन्यायेन तद्विशिष्टस्याजादित्वेन कृते चारितार्थ्यस्य सुवचत्वाच्च । केचित्तु-यदागमन्यायेन नामोऽजादित्वेऽपि नुडुद्देश्यतावच्छेदकस्य स्वात- न्त्र्येण व्यापकत्वाभावेन अन्यतमत्वेनैव तत्त्वस्य वक्तव्यतया अन्यतमत्वावच्छिन्ने कृते रादेशस्य चारितार्थ्याभावेन तक्रन्यायस्यात्र दुरुपपादत्वमिति वदन्ति । तदुत्तरग्रन्थेनेति । तत्र हि दिग्यादेशमुपक्रम्य “नैवमनवकाशः । कृते द्विर्वचने प्रवृत्त्यविघातात् । अथ पुनरेवमप्यनवकाशं मन्यसे, तदा लक्ष्यदोषप्रसङ्ग" इत्युक्तम् । तत्र 'अथ पुनरि'त्याद्युक्तग्रन्थेन चारितार्थ्यप्रतिपादनपरस्य पूर्वग्रन्थस्यारुचि- ग्रस्तत्वमुपाध्यायो मन्यते । न लक्ष्यसिद्धयुपयोगीति । यथोत्तरं मुनीनां प्रामाण्या- दिति भावः । विधेयविषय इति । विभिन्नविधेयतानिरूपितोद्देश्यतयोः व्याप्यव्यापकभाव- स्तद्विषय इत्यर्थः । अत एव 'शेषो घ्यसखी'त्यत्रानेन न्यायेनेदन्ते घिशब्दातिरिक्तत्वेन सङ्कोचाभावेन 'घेर्डिति'त्यत्र घेरिवि गुणघटितनिर्देशोपपत्तिः । यद्वा—विधेयेन विधेयान्तरस्य व्याप्यव्यापकभावाद् बाध इत्यर्थः । अत एवापवादो नुग्दीर्घत्वस्य सुटा नुटो बाध इत्यादिव्यवहारोपपत्तिरिति दिक् ।