परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 275, कुल 373 में से
संदर्भ में पढ़ें५९ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २४५ पश्चात् प्राप्तगुणबाधनार्थम् 'इको झल्'िति कित्त्वमित्युक्तम्'' । अन्यथाऽपवा- दत्वेन बाधे तद्विषये उत्सर्गाप्रवृत्तेर्भाष्यस्य सूत्रस्य चासङ्गतिरिति स्पष्टमेव । यत्तु 'काञ्चनी'त्यादौ अपवादमयङ्विषयेऽप्यण् भवति, 'क्वचिदप- वादविषयेऽपी'ति न्यायादिति । तन्न ; 'अण् कर्मणि चे'ति सूत्रस्थभाष्य- विरोधात् । तत्र ह्यणः पुनर्वचनमपवादविषयेऽनिवृत्त्यर्थं 'गोदायो व्रजतो'- त्याद्युक्तम् । 'काञ्चनी'त्यादौ काञ्चनेन निर्मितैत्यर्थे शैषिकोडण् बोध्यः । अत्रेदं बोध्यम्-'येन नाप्राप्ते'त्यत्र येनेत्यस्य यदि स्वेतरेणेत्यर्थस्तदा स्वत्रिषये स्वेतरद्यद्यत् प्राप्नोति तद्बाध्यम्, विध्यन्तराप्राप्तविषयाभावात् । इयमेव बाध्यसामान्यचिन्तेति व्यवह्रिय