परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 274, कुल 373 में से
संदर्भ में पढ़ेंतदुक्तं ‘गुणो यङ्लुकोरित्यत्र भाष्ये—‘‘अभ्यासविकारेष्वपवादा उत्सर्गान् बाधन्ते । अजीगणत् । अत्र गणेरीत्वमपवादत्वाद्वलादिःशेषं बाधते । न गणेरीत्वमपवादत्वाद्वलादिःशेषं बाधते । किं तर्हि ? अनवकाशत्वादि’’ति ग्रन्थेन । गणरूपभ्यासान्त्यणस्येत्वमित्यर्थे हलादिःशेषेण तन्निवृत्तौ तदनव- काशमीत्वे तु कृते न तस्य प्राप्तिरन्त्यहलोऽभावात् अभ्यासविकारेषु बाध्य- बाधकभावाभावेन च साधितम् । तस्मिंश्च सति लोपे कृते सामर्थ्याच्छिष्ट- स्यान्त्यस्येत्वमिति न दोषः । न च ‘येन नाप्राप्ति’न्यायेन अपवादत्वमप्यस्य सुवचम् ; तस्य चरितार्थविषयताया उक्तत्वात् । ‘इको झलि’त्यत्र भाष्येऽपि ध्वनितमेतत् । तत्र हि ‘‘अज्झने’ति दीर्घेण गुणोत्तरं फलाभावेनानवकाशत्वाद् गुणे बाधिते दीर्घोत्तरं गुणः स्यात्, दीर्घविधानं तु मिनोतेर्दीर्घे कृते सनि ‘मीमे’त्यत्र मीग्रहणेन ग्रहणेऽर्थवत्त्व केचित्तु—अत्रापवादशब्दस्य बाधकपरत्वेऽपि अन्यत्रापवादशब्दः तक्रकौण्डिन्य- न्यायरूप-येन नाप्राप्ते'ति न्यायपर एव । अत एवाग्रे 'न च येनेति न्यायेनास्या- पवादत्वं सुवचं तस्य चरितार्थविषयताया उक्तत्वात्' इत्युक्तं मूले । किञ्च येनेति न्यायं प्रदर्श्य तत्र प्रमाणमुपदर्शयितुं तक्रन्यायो भाष्यकृता प्रदर्शितः । येनेति न्यायस्य निरवकाशादिबोधकत्वे तु तत्प्रामाण्यबोधनाय तक्रन्यायप्रदर्शनमसङ्गतमेव स्यादिति वदन्ति । तन्न शोभनम् ; अपवादशब्दस्य बाधके कृते चारितार्थ्यविशिष्टेऽपवादविशेषे च लक्षणायां मानाभावात्, फलाभावाच्च । भाष्ये तु तत्तच्छास्त्राणां निरवकाशत्व- मात्रेण पूर्वं प्रवृत्तिस्वीकारेऽपि कृते चरितार्थानामपवादविशेषाणां स्वप्रवृत्त्युत्तर- मप्युत्सर्गशास्त्राप्रवृत्तौ प्रमाणमुपदर्शयितुं तक्रन्यायप्रदर्शनस्याऽऽवश्यकत्वम् । मूले ‘तस्य चरितार्थविषयताया' इत्यस्य द्वितीयबाधबीजरूपस्य तस्य न्यायस्य कृते चारितार्थ्यं- रूपत्वेनात्र विषयाभावादित्यर्थकत्वेन तद्विरोधाभावात् । अत एव भाष्ये सर्वत्राप- वादशब्दस्तदप्राप्तियोग्यैचरितार्थपर एवेति दिक् । दीर्घविधानं त्विति । अन्यथा चतुर्थबाधबीजेन बाधापत्त्या दीर्घोत्तरं गुणा- नापत्त्या भाष्यासङ्गत्यापत्तिरिति भावः । मीग्रहणेनेति । न च मीग्रहणेन ग्रहणाभावे- ऽपि ‘मीनातिमिनोती’त्यात्वे गामादाग्रहणेष्वविशेषान्माग्रहणेन ग्रहणस्य दुर्व्वारत्वा- द्भाष्यासङ्गतिरिति वाच्यम् ; एज्निमित्तत्वं निमित्तीकृत्य प्रवर्त्तमानस्याऽऽत्वस्यैज्- मूले—भाष्येऽपि ध्वनितमेतदिति । 'येन नाप्राप्ति'न्यायस्य उत्सर्गे कृते चारितार्थ्य- रूपापवादविषयकत्वमित्येतदित्यर्थः । मूले—तत्र हीति । भाष्ये इति तदर्थः ; तस्य उक्तमित्य- नेन साकमन्वयः । मूले—गुणः स्यादिति । 'इको झल्' इति सूत्राभावे 'चिचीषति' इत्यादाविति भावः ।