परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 269, कुल 373 में से
संदर्भ में पढ़ें५८ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २३९ नोक्तदोषः। तव मते त्वत्पदार्थे 'अकः सवर्णे' इति शास्त्रप्रवृत्तियोग्यातिरिक्तत्वेन सङ्कोचेन अत्र इट इकारस्य दीर्घप्रवृत्तियोग्यत्वेन गुणानापत्तिदुर्द्धरैव स्यादिति दिक्। 'अतोऽम्'त्यस्य लुगप्राप्तियोग्येऽचारितार्थ्येन अमुत्तरं लुकि तु 'अतोऽम्'त्यस्य प्रणयनवैयर्थ्येन चतुर्थबाधबीजेन द्वितीयवत्स्वविहितकार्याश्रयातिरिक्तत्वेनैव 'स्वमोरि'त्यत्र सङ्कोचः, तेनाऽमुत्तरं न लुक्, प्रथमबाधबीजेन बाधाच्चामः प्रागपि न लुगिति बोध्यम्। केचित्तु—द्वितीयबाधबीजेनैव स्वप्रवृत्तियोग्यातिरिक्तत्वेन स्वविहितकार्याश्रया- तिरिक्तत्वेन चोत्सर्गशास्त्रे सङ्कोचः। 'रमे' इत्यत्राप्यनेनैव बाध इति प्रथमबाधबीजस्य नोपयोगः। हल्ङ्यादिलोपविषये तदप्रवृत्तिस्वीकारे तु न मानम्, नापि फलम्, 'अनड्- वानि'त्यत्र पुनः पुनः संयोगान्तलोपेन निर्वाहः। 'सावपि पदं भवती'त्यस्य सर्वाभि- मतत्वेन 'अनड्वान् + ह् + स्' इति दशायामेकस्मिन्नेव काले 'संयोगान्ते'ति सूत्रस्य वर्ण- द्वये प्राप्त्या 'लक्ष्ये लक्षण'न्यायस्य विषयाभावात्। एवमेव तृतीय-चतुर्थाभ्यामपि बाधबीजभ्यां प्रथमबाधबीजप्रयोज्यसङ्कोचोऽपि स्वीकरणीय इति सर्वेष्टसिद्धि रिति वदन्ति। अन्ये तु—प्रथमबाधबीजेनैव सर्वत्र निर्वाहैऽन्यानि त्रीणि बाधबीजानि निष्फल- त्वान्नाऽङ्गीकार्याणि। 'आमि सर्वनाम्न' इत्यत्र आ+आमीत्याकारप्रश्लेषेणाऽऽकारादौ आमि सुड्नुटोः प्रवृत्त्या प्रथमबाधबीजेन पूर्वं सुटि आकाराद्यामपरकत्वाभावेन नुटो- ऽप्राप्तिः। 'अजादेर्द्वितीयस्ये'त्यनेन 'एकाच' इत्यस्य परत्वाद् बाधेन 'सकृद्गता'न्यायान्न पुनरेकाच इत्यस्य प्रवृत्तिः। यद्वा—प्रथमबाधबीजेन 'एकाच' इत्यस्य बाधेन अनभ्यास- ग्रहणेन तत्प्रत्याख्यानप्रकारेण वा न पुनस्तत्प्राप्तिः। किञ्च 'तक्रकौण्डिन्य'न्यायेन द्वितीय- बाधबीजेन बाधस्वीकारे 'ईध्राध्मोः, हन्तेहिंसायामि'त्यादिभिर्द्वित्वबाधापत्तिः, 'तदोः, अनाप्यक' इति सूत्राभ्यां त्यदाद्यत्वबाधापत्तिः, तवकाद्यादेशेन आदिवृद्धिबाधापत्तिः, स्यतासिभ्यां तिबादिबाधापत्तिः, 'पचो व' इत्यादिना कुत्वादिबाधापत्तिश्च। एतदादिषु बहुषु लक्ष्येषु अननुगततदनित्यत्वस्वीकारापेक्षया शास्त्रे तदनाश्रयणमेव वरम्। अत एव 'इदमो म' इति सूत्रं चरितार्थम्; अन्यथा 'इदोऽय् पुंसि', 'यः सावि'त्याभ्यामपवादत्वा- देव बाधे सिद्धे तद्वैयर्थ्यं स्पष्टमेव। न चैतदस्वीकारे 'नेमौ रहावि'ति भाष्यासङ्गतिः, 'हर्य्यनुभव' इत्यादौ रेफस्य द्वित्वापत्तिश्च, मम तु तक्रन्यायेन अनचीत्यत्र यर्पदार्थे रेफा- तिरिक्तत्वेन सङ्कोचात्तदप्राप्तिरिति वाच्यम्; अत्र तक्रन्यायेन सङ्कोचेनेष्टसिद्धेरयोगात्। तक्रन्यायेन हि विशेष्यविशेषणदलप्रविष्ट-यावत्पदार्थसङ्कुचित-व्याप्यतावच्छेदकरूपाव- च्छिन्नातिरिक्तत्वेन सङ्कोच आवश्यकः, अन्यथा 'ह्रस्वनद्याप' इत्यत्राऽऽम्पदार्थेऽवर्णावधिक- कपरामतिरिक्तत्वेन सङ्कोचापत्तौ 'रामाणामि'त्यत्र नुडनापत्तेः, एवम् 'एकाचो द्वे' इत्यत्र- आजादिधातवतिरिक्तत्वेन सङ्कोचे आटे'त्यत्र द्वित्वानापत्तेश्च। एवम् 'अनचि चे'त्यत्रापि यरवधिकपूर्वत्ववदजवधिकपरत्ववद्रेफातिरिक्तत्वेन सङ्कोचः स्यादिति 'अर्हेणे'त्यत्र तादृश- रेफातिरिक्तयरः सत्त्वेन रेफस्यानचीति द्वित्वापत्तेः। तादृशसङ्कुचितयर्पदस्य सूत्रवार्ति- कयोः सम्बन्धेऽपि 'मद्रह्रदो, धात्रंश' इत्यादौ रेफस्य द्वित्वापत्तेर्दुर्वारत्वाच्च। किञ्च