परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 270, कुल 373 में से
संदर्भ में पढ़ेंअत एव 'आयादय' इति सूत्रे 'गोपायिष्यती'त्यादौ आयादीन् बाधित्वा परत्वात् स्यादायः प्राप्नुवन्तीत्याशङ्क्य, "अनवकाशा आयादयः । 'गोपा- यती'त्यादावपि शप् स्यादिः प्राप्नोति । न च सति शप्यसति वा न विशेषः । अन्यदिदानीमिदमुच्यते नास्ति विशेष इति । यदुक्तमायादीनां स्यादिभि- र्व्यासोऽवकाश इति स नास्त्यवकाश" इति भाष्ये उक्तम् ।
अनचीत्यस्य वैकल्पिकत्वेन 'शेषाद्विभाषे'ति सूत्रस्थभाष्यरीत्या रपदप्रयोजनिमित्ताख्य- शाब्दविषयतायास्तदप्राप्तियोग्येऽचरितार्थमपि दुर्वचमेव । तस्मादत्र तक्रन्यायादन्येन 'माठरपरिवेषण'न्यायेनैव बाध्यबाधकभावः । अत एव तत्र सूत्रे भाष्ये 'माठरपरि- वेषण'न्याय एतदुष्टम्भकतया प्रतिपादितः । शेखरकृता हि 'माठरपरिवेषण'न्याये तक्र- न्यायादभिन्नं