भारतकोश
संग्रह पर लौटें

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

अत एव 'आयादय' इति सूत्रे 'गोपायिष्यती'त्यादौ आयादीन् बाधित्वा परत्वात् स्यादायः प्राप्नुवन्तीत्याशङ्क्य, "अनवकाशा आयादयः । 'गोपा- यती'त्यादावपि शप् स्यादिः प्राप्नोति । न च सति शप्यसति वा न विशेषः । अन्यदिदानीमिदमुच्यते नास्ति विशेष इति । यदुक्तमायादीनां स्यादिभि- र्व्यासोऽवकाश इति स नास्त्यवकाश" इति भाष्ये उक्तम् ।


अनचीत्यस्य वैकल्पिकत्वेन 'शेषाद्विभाषे'ति सूत्रस्थभाष्यरीत्या रपदप्रयोजनिमित्ताख्य- शाब्दविषयतायास्तदप्राप्तियोग्येऽचरितार्थमपि दुर्वचमेव । तस्मादत्र तक्रन्यायादन्येन 'माठरपरिवेषण'न्यायेनैव बाध्यबाधकभावः । अत एव तत्र सूत्रे भाष्ये 'माठरपरि- वेषण'न्याय एतदुष्टम्भकतया प्रतिपादितः । शेखरकृता हि 'माठरपरिवेषण'न्याये तक्र- न्यायादभिन्नं

५८ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २४१ एवमत्र तत्प्रवृत्त्युत्तरं चारितार्थ्येऽपि तद्व्याप्तोऽवकाशो नास्तीति सममेव । किञ्चानेन न्यायेन तत्प्रवृत्त्युत्तरमपि चारितार्थ्ये तद्बाधबोधनम् ; अन्यथाऽनवकाशत्वेनैव बाधे सिद्धे एतत्कथनवैयर्थ्यापत्तेस्तक्रकौण्डिन्यन्याय- प्रदर्शनस्यापि वैयर्थ्यापत्तेश्च । तथा प्रथमद्विर्वचनस्य तदुत्तरं सावकाशेनापि द्वितीयद्विर्वचनेन बाधः । यथा वाऽऽदेरपि प्रवृत्त्या चरितार्थेन 'आदेः परस्ये'त्यनेन 'अलोऽन्त्यस्ये'त्यस्य बाधः । तदुक्तम् 'मिदचोऽन्त्यादि'ति सूत्रे भाष्ये—"सत्यपि सम्भवे बाधनं भवती"ति । अन्यथा 'ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्याये'त्यत्र तक्र- दानेन दधिदानस्य बाधो न स्यात्तद्दानोत्तरं तत्पूर्वं वा तद्दानस्य चारितार्थ्य- सम्भवात् । अत एव विषयभेदेऽप्यपवादत्वम् । ननु शबादिप्रवृत्त्युत्तरमायादीनां चारितार्थ्येन अनवकाशत्वप्रदर्शनमयुक्तमत आह—एवमिति । यथा सति शप्यसति वा विशेषाभावेऽपि तदप्राप्तिमात्रेण आया- दीनामनवकाशत्वम्, एवं तत्प्रवृत्त्युत्तरं चारितार्थ्येऽपि तदप्राप्तियोग्येऽचारितार्थ्यं निर्बाधमेवेति तस्य प्रथमबाधबीजेन बाधकत्वं सुवचमिति भावः । द्वितीयबाधबीजं निरूपयति—किञ्चेति । एतत्फलमाह—यथा प्रथमेति । इदं चानभ्यासग्रहणं प्रत्याचक्षाणस्य भगवतो भाष्यकारस्य मतेन बोध्यम् । वस्तुतः—अस्त्वत्र प्रथमबाधबीजेनैव निर्वाह इत्युक्तं प्राक् ; इत एव वाऽरुचे- राह—यथा वेति । अप्रधानानुरोधेन प्रधानवृत्तेरसत्त्वेन 'उदः स्था'त्यादौ पूर्वं 'अलो- न्त्यस्ये'त्यस्य प्रवृत्तौ आकाङ्क्षायाः शान्तत्वेन 'आदेः परस्ये'त्यनेन सहैकवाक्यतया पुनरन्वयबोधासम्भवेन कृते चारितार्थ्यस्य दुर्निरूपत्वादत्रापि निरवकाशत्वादेव बाध उचित इतीदमप्युदाहरणं चिन्त्यमेव । मिदचोऽन्त्यादिति सूत्रे भाष्य इति । तत्र हि 'पयांसि, यशांसी'त्यादौ लक्षणनुमागमस्य अन्त्याज्वधिकपरत्वाऽन्त्यव्यञ्जननिवर्तकत्वयोर्युगपद्येन सम्भवान्निर- वकाशत्वरूपविरोधहेत्वभावेन अन्त्याचः परत्वेन स्थाने योगत्वस्य बाधो न स्यादि- त्याशङ्क्य, "नैवेश्वर आज्ञापयति, नापि धर्मसूत्रकाराः पठन्ति, अपवादैरुत्सर्गा बाध्यन्तामिति । किं तर्हि ? लौकिकोऽयं दृष्टान्तः, सत्यपि सम्भवे बाधनं भवतीति । तद्यथा सर्वेभ्यो ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्यायेति सत्यपि सम्भवे तक्रदानं दधिदानस्य निवर्तकं भवती"त्युक्तम् । अत एवेति । विषयभेदेऽपि प्रकृतन्यायप्रदर्शनपर-'मिदचोऽन्त्यादि'सूत्रस्थ- भाष्यप्रामाण्यादेवेत्यर्थः । न चैवं विषयभेदेऽपि बाधकत्वस्वीकारे दधिदानेन कम्बलदानबाधापत्तिः, सुटा यासुटो बाधापत्तिश्चेति वाच्यम्; सजातीयबाध- कत्वस्यैव लोकव्यवहारेण कल्पनात् कम्बलस्य दधिसजातीयत्वाभावेन बाधायोगात् ३१

२४२परिभाषेन्दुशेखरः[ २ प्रकरणे-

अत एवाचिरादेशेन नुढोऽप्यपवादत्वाद् बाधमाशङ्क्य 'न तिस्र'ति ज्ञापकेन समाहितं तृज्वत्सूत्रे भाष्ये, तेन विषयभेदेऽपवादत्वाभाव एव बोध्यते इति कश्चित् । तन्न ; विन्मतोर्लुका टिलोपमात्रस्य बाधानापत्तेः । यत्तु 'दयतेर्दिगी'ति सूत्रे द्वित्वोत्तरं दिग्यादेशस्य चारितार्थ्यं कैयटे- नोक्तं तत् प्रौढ्या । ध्वनितं च तेनापि तस्य तथात्वं तदुत्तरग्रन्थेन । असम्भव एव बाधकत्वं विरोधस्य तद्बीजत्वादिति वार्तिकमतन्तु भाष्यकृता दूषितत्वान्न लक्ष्यसिद्धयुपयोगि । तक्रकौण्डिन्यन्यायोऽपि तदप्राप्तियोग्येऽचरितार्थविषयो विधेयविषय एव


'यासुङ्विषये सीयुटः प्रतिषेधो वक्तव्य' इति वचनेनात्र प्रकरणे बाध्यबाधकभावा- भावज्ञापनेनादोषात् । अत एव 'झेर्जुसा यासुड्बाधो ने'ति तत्रैव सूत्रे शब्देन्दु- शेखरे स्पष्टम् । वस्तुतस्तु—तक्रन्यायस्यानित्यत्वादसत्त्वाच्च तत्र प्रथमबाधबीजेन अनवका- शत्वात् बाधेन तदुत्तरं यासुट्सिद्धिरिति दिक् । उक्तमर्थं प्रमाणान्तरेण द्रढयति--अत एवाचिरेति । विषयभेदे 'येन नाप्राप्ति'- न्यायस्वीकारादेवेत्यर्थः। नुतोऽप्यपवादत्वादिति। आमो नुट्, रादेशस्तु प्रकृतेरिति विषयभेदः स्पष्ट एवेति भावः । ननु नुटि कृते रादेशस्य चारितार्थ्याभावेन कथमेतन्न्यायविषयतेति चेन्न । तक्रन्यायस्यात्र विषयाभावेऽपि सर्वविधस्य 'येन नाप्राप्ति'न्यायस्य विषयभेदे प्रवृत्तिरित्यत्र प्रमाणदानाय एतद्ग्रन्थप्रवृत्तेरदोषात्, नुटि कृतेऽपि यदागमन्‍यायेन तद्विशिष्टस्याजादित्वेन कृते चारितार्थ्यस्य सुवचत्वाच्च । केचित्तु-यदागमन्‍यायेन नामोऽजादित्वेऽपि नुडुद्देश्यतावच्छेदकस्य स्वात- न्‍त्र्येण व्यापकत्वाभावेन अन्यतमत्वेनैव तत्त्वस्य वक्तव्यतया अन्यतमत्वावच्छिन्ने कृते रादेशस्य चारितार्थ्याभावेन तक्रन्यायस्यात्र दुरुपपादत्वमिति वदन्ति । तदुत्तरग्रन्थेनेति । तत्र हि दिग्यादेशमुपक्रम्य “नैवमनवकाशः । कृते द्विर्वचने प्रवृत्त्यविघातात् । अथ पुनरेवमप्यनवकाशं मन्यसे, तदा लक्ष्यदोषप्रसङ्ग" इत्युक्तम् । तत्र 'अथ पुनरि'त्याद्युक्तग्रन्थेन चारितार्थ्यप्रतिपादनपरस्य पूर्वग्रन्थस्यारुचि- ग्रस्तत्वमुपाध्यायो मन्यते । न लक्ष्यसिद्धयुपयोगीति । यथोत्तरं मुनीनां प्रामाण्या- दिति भावः । विधेयविषय इति । विभिन्नविधेयतानिरूपितोद्देश्यतयोः व्याप्यव्यापकभाव- स्तद्विषय इत्यर्थः । अत एव 'शेषो घ्यसखी'त्यत्रानेन न्यायेनेदन्ते घिशब्दातिरिक्तत्वेन सङ्कोचाभावेन 'घेर्डिति'त्यत्र घेरिवि गुणघटितनिर्देशोपपत्तिः । यद्वा—विधेयेन विधेयान्तरस्य व्याप्यव्यापकभावाद् बाध इत्यर्थः । अत एवापवादो नुग्दीर्घत्वस्य सुटा नुटो बाध इत्यादिव्यवहारोपपत्तिरिति दिक् ।

५९ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २४३ चेति 'तद्धितेष्वचामादेः', 'धातोरेकाच' इत्यादिसूत्रेषु भाष्ये स्पष्टम् ॥ ५८ ॥ क्वचित्तु सर्वथाऽनवकाशत्वादेव बाधकत्वम्, यथा ङेरामो याडादिबाध- कत्वम् । न हि याडादिषु कृतेषु ङेराम् प्राप्नोति, निर्दिश्यमानस्य व्यव- धानात् । तत्र स्वस्य पूर्वं प्रवृत्तिरित्येव तेषां बाधः । तत्र बाधके प्रवृत्ते यद्युत्सर्गप्राप्तिर्भवति तदा भवत्येव, यथा तत्रैव याडादयः । अप्राप्तौ तु न, यथा 'पचेयुरि'त्यादौ दीर्घबाधके निरवकाश इयादेशे दीर्घाभावः । तदेतत्पठ्यते— क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशत इति ॥ ५९ ॥ —: ० :— अपवादशब्दोऽत्र बाधकपरः । भाष्ये स्पष्टमिति । अनवकाशविषयत्वं 'तद्धितेष्वचामि'त्यत्र विधेयविषयत्वं तु 'धातोरेकाच' इत्यत्रास्य न्यायस्य प्रतिपादितमित्यर्थः । आद्ये 'कौष्ट्रो जागत' इत्यादौ अन्त्योपधावृद्धयोर्निषेधमुक्त्वा उक्तन्यायेन तयोरादिवृद्ध्या बाधमाशङ्क्य 'सौश्रुत' इत्यादौ अन्त्योपधावृद्धयोरप्राप्तिविषये आदिवृद्धेश्चरितार्थेनानवकाशत्वाभाव इत्य- भिप्रायेण भाष्यकृता 'इह तदभाव' इत्युक्तम् । सामान्यविशेषभावो बाधहेतुः, स चेह नास्तीति कैयटस्तदाशयमाह—धातोरेकाच इत्यादिष्वितिपदे अतद्गुणसंविज्ञानबहु- व्रीहिणा 'नित्यं कौटिल्य' इत्यादेः सङ्ग्रहः । अत्र हि “अथैतेभ्यः क्रियासमभिहारे यङा भवितव्यमिति प्रश्ने उत्तरयोर्विग्रहेण विशेषासम्प्रत्ययान्नित्यग्रहणेनानर्थक्यं क्रिया- समभिहारे च नैतेभ्यो यङा भवितव्यमि”ति भाष्यकृतोक्तम् । द्वितीयवार्तिके चकारेण विशेषासम्प्रत्ययादित्यस्य अनुकर्षणाय चकारः कृतः । क्रियासमभिहारे यत्र यङ् तत्र तदन्ताद्विशेषस्य 'भृशं जपती'त्याद्यर्थविशेषस्याप्रतीतिरिति स न भवति । यद्यनुवादे- ऽप्येतन्न्यायसञ्चारः स्यात्तदा न्यायेनैव 'धातोरेकाच' इत्यस्य बाधसिद्धेर्विशेषासम्प्रत्य- या़दिति अनुकर्षक-चकारोपादानवैयर्थ्यापत्तिरिति भावः ॥ ५८ ॥ तृतीयं बाधबीजं प्रपञ्चयति —क्वचित्त्विति । सर्वथेति । कृतेऽप्यचारितार्थ्ये सतीति भावः । चतुर्थन्तु सूत्रारम्भसामर्थ्यरूपं तत्समानमूलकत्वेनास्यैव प्रपञ्चभूतत्वादत्र पृथक्- नोक्तमपि प्रागुक्तमवगन्तव्यम् । क्वचिदपवादविषयेऽपीति । कृतेऽचारितार्थ्ये अपवाद इत्यर्थः । अत्रेति । अस्मिन् प्रकरणे इत्यर्थः । मूले—तदेतदिति । बाधकोत्तरप्राप्तिमदुत्सर्गकर्तृकं भवनमिति तदर्थः । उत्सर्गशास्त्राप्राप्तौ न तद्भवतीत्यत उक्तम्, मूले—क्वचिदिति । मूले बाधकशब्दः सर्वथा निरवकाशत्वमूलक-बाधकत्वावच्छिन्नपरः ।

तदुक्तं ‘गुणो यङ्‌लुकोरित्‍यत्र भाष्ये—‘‘अभ्यासविकारेष्वपवादा उत्सर्गान्‍ बाधन्ते । अजीगणत् । अत्र गणेरीत्वमपवादत्वाद्वलादिःशेषं बाधते । न गणेरीत्वमपवादत्वाद्वलादिःशेषं बाधते । किं तर्हि ? अनवकाशत्वादि’’ति ग्रन्थेन । गणरूपभ्यासान्त्यणस्येत्वमित्यर्थे हलादिःशेषेण तन्निवृत्तौ तदनव- काशमीत्वे तु कृते न तस्य प्राप्तिरन्त्यहलोऽभावात् अभ्यासविकारेषु बाध्य- बाधकभावाभावेन च साधितम् । तस्मिंश्च सति लोपे कृते सामर्थ्याच्छिष्ट- स्यान्त्यस्येत्वमिति न दोषः । न च ‘येन नाप्राप्ति’न्यायेन अपवादत्वमप्यस्य सुवचम् ; तस्य चरितार्थविषयताया उक्तत्वात् । ‘इको झलि’त्यत्र भाष्येऽपि ध्वनितमेतत् । तत्र हि ‘‘अज्झने’ति दीर्घेण गुणोत्तरं फलाभावेनानवकाशत्वाद् गुणे बाधिते दीर्घोत्तरं गुणः स्यात्, दीर्घविधानं तु मिनोतेर्दीर्घे कृते सनि ‘मीमे’त्यत्र मीग्रहणेन ग्रहणेऽर्थवत्त्व केचित्तु—अत्रापवादशब्दस्य बाधकपरत्वेऽपि अन्यत्रापवादशब्दः तक्रकौण्डिन्य- न्यायरूप-येन नाप्राप्ते'ति न्यायपर एव । अत एवाग्रे 'न च येनेति न्यायेनास्या- पवादत्वं सुवचं तस्य चरितार्थविषयताया उक्तत्वात्' इत्युक्तं मूले । किञ्च येनेति न्यायं प्रदर्श्य तत्र प्रमाणमुपदर्शयितुं तक्रन्यायो भाष्यकृता प्रदर्शितः । येनेति न्यायस्य निरवकाशादिबोधकत्वे तु तत्प्रामाण्यबोधनाय तक्रन्यायप्रदर्शनमसङ्गतमेव स्यादिति वदन्ति । तन्न शोभनम् ; अपवादशब्दस्य बाधके कृते चारितार्थ्यविशिष्टेऽपवादविशेषे च लक्षणायां मानाभावात्, फलाभावाच्च । भाष्ये तु तत्तच्छास्त्राणां निरवकाशत्व- मात्रेण पूर्वं प्रवृत्तिस्वीकारेऽपि कृते चरितार्थानामपवादविशेषाणां स्वप्रवृत्त्युत्तर- मप्युत्सर्गशास्त्राप्रवृत्तौ प्रमाणमुपदर्शयितुं तक्रन्यायप्रदर्शनस्याऽऽवश्यकत्वम् । मूले ‘तस्य चरितार्थविषयताया' इत्यस्य द्वितीयबाधबीजरूपस्य तस्य न्यायस्य कृते चारितार्थ्यं- रूपत्वेनात्र विषयाभावादित्यर्थकत्वेन तद्विरोधाभावात् । अत एव भाष्ये सर्वत्राप- वादशब्दस्तदप्राप्तियोग्यैचरितार्थपर एवेति दिक् । दीर्घविधानं त्विति । अन्यथा चतुर्थबाधबीजेन बाधापत्त्या दीर्घोत्तरं गुणा- नापत्त्या भाष्यासङ्गत्यापत्तिरिति भावः । मीग्रहणेनेति । न च मीग्रहणेन ग्रहणाभावे- ऽपि ‘मीनातिमिनोती’त्यात्वे गामादाग्रहणेष्वविशेषान्माग्रहणेन ग्रहणस्य दुर्व्वारत्वा- द्भाष्यासङ्गतिरिति वाच्यम् ; एज्निमित्तत्वं निमित्तीकृत्य प्रवर्त्तमानस्याऽऽत्वस्यैज्- मूले—भाष्येऽपि ध्वनितमेतदिति । 'येन नाप्राप्ति'न्यायस्य उत्सर्गे कृते चारितार्थ्य- रूपापवादविषयकत्वमित्येतदित्यर्थः । मूले—तत्र हीति । भाष्ये इति तदर्थः ; तस्य उक्तमित्य- नेन साकमन्वयः । मूले—गुणः स्यादिति । 'इको झल्' इति सूत्राभावे 'चिचीषति' इत्यादाविति भावः ।

५९ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २४५ पश्चात् प्राप्तगुणबाधनार्थम् 'इको झल्'िति कित्त्वमित्युक्तम्'' । अन्यथाऽपवा- दत्वेन बाधे तद्विषये उत्सर्गाप्रवृत्तेर्भाष्यस्य सूत्रस्य चासङ्गतिरिति स्पष्टमेव । यत्तु 'काञ्चनी'त्यादौ अपवादमयङ्विषयेऽप्यण् भवति, 'क्वचिदप- वादविषयेऽपी'ति न्यायादिति । तन्न ; 'अण् कर्मणि चे'ति सूत्रस्थभाष्य- विरोधात् । तत्र ह्यणः पुनर्वचनमपवादविषयेऽनिवृत्त्यर्थं 'गोदायो व्रजतो'- त्याद्युक्तम् । 'काञ्चनी'त्यादौ काञ्चनेन निर्मितैत्यर्थे शैषिकोडण् बोध्यः । अत्रेदं बोध्यम्-'येन नाप्राप्ते'त्यत्र येनेत्यस्य यदि स्वेतरेणेत्यर्थस्तदा स्वत्रिषये स्वेतरद्यद्यत् प्राप्नोति तद्बाध्यम्, विध्यन्तराप्राप्तविषयाभावात् । इयमेव बाध्यसामान्यचिन्तेति व्यवह्रिय

२४६ | परिभाषेन्दुशेखरः | [२ प्रकरणे- तत्र कार्येणेत्यर्थे पररूपत्वावच्छिन्ने कार्ये आरभ्यमाणाया वृद्धेस्तद्- बाधकत्वे निर्णीते किं शास्त्रविहितस्यैव तद्विशेषचिन्तायामाह— पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते नोत्तरान् ॥ ६० ॥ —: ❀ :— अवश्यं स्वपरस्मिन् बाधनीये प्रथमोपस्थितानन्तरबाधेन चारितार्थ्ये पश्चादुपस्थितस्य ततः परस्य बाधे मानाभाव आकाङ्क्षाया निवृत्ते- र्विप्रतिषेधशास्त्रबाधे मानाभावाच्चेत्येतस्य बीजम् ॥ ६० ॥ 'नासिकोदरोष्ठजङ्घादन्ते'त्यस्य औष्ठाद्यंशे दोषन्निषेधत्वावच्छिन्नबाध- कत्वे निर्णीते किं विहितस्येत्याकाङ्क्षायामाह— मध्येऽपवादाः पूर्वान्विधीन् बाधन्ते नोत्तरान् ॥ ६१ ॥ —: ❀ :— तेन औष्ठादिषु पञ्चसु 'असंयोगोपधादि'ति प्रतिषेध एव बाध्यते, न तु सहनञ्विद्यमानलक्षण इति 'नासिकोदरे'त्यत्र भाष्ये स्पष्टम् । पूर्वोपस्थितबाधेन नैराकाङ्क्ष्यमस्या बीजम् ॥ ६१ ॥ ननु 'वा छन्दसी'त्यनेन 'सेर्ह्यपिच्चे'त्यनन्तरस्यापित्त्वस्येव हेरपि विकल्पः स्यात्, तथा 'नेटी'ति निषेधोऽनन्तरहलन्तलक्षणाया इव सिचि- बाध्यसामान्यचिन्तायामनुगतं बाध्यत्वे बीजमुपपाद्य बाध्यविशेषचिन्ताया- मनुगतं बीजमुपवर्णयितुं तावदाह—पुरस्तादिति । अनन्तरान् = बाध्यव्यवधानशून्यान् । स्वपरस्मिन्निति । अत्र स्वेत्यधिकम् ॥ ६० ॥ असंयोगोपधादिति प्रतिषेध इति । प्रसज्यप्रतिषेध एवायम्, न तु पर्युदास इति भाष्यस्वरसः । एवम् 'ऋष्यन्धके'त्यण् इञ एवापवादो न तु ढकः । अत एव 'आत्रेय' इत्यत्र परत्वाड् ढक्सिद्धिरिति दिक् ॥ ६१ ॥ हेरपि विकल्प इति । न च सेर्हिडित्येव सिद्धेऽपिद्ग्रहणात् तावत एवोत्तरत्र अनुवृत्त्याऽपित्त्वस्यैव विकल्पो न हेरिति वाच्यम्; सिपोऽनुदात्तत्वेनान्तरतम्याद् ध्यादेशस्यानुदात्तत्वापत्तेः, तद्वारणाय अपित्त्वविधानस्याऽऽवश्यकत्वेन तावन्मात्रस्य अस्याः परिभाषाया विप्रतिषेधशास्त्रबाधे मानाभावादिति मूलकृदुक्तं बीजं वस्तुत उत्तर परिभाषाया अस्ति, उत्तरपरिभाषायाश्च बीजं पूर्वोपस्थित बाधे नैराकाङ्क्ष्य रूपमवगन्तव्यमिति- अस्मद्गुरुचरणाः । तथा मूलपाठस्तु प्रामादिक इति बोध्यम् ॥ ६० ॥

has पू र्वा नु भा हि ? Wait, look at पूर्वानुभव - wait, in line 23-24: पूर्वानुभावहित- / संस्कारोपजनितस्मृत्यारूढस्य Wait, look at L23: पू र्वा नु भा हि - wait, is it पूर्वानुभवहित- or पूर्वानुभावाहित-? "पूर्वानुभावाहितसंस्कार..."! Let's check the Kaiyata text on this vartika: Kaiyata on "यो वा तस्मादनन्तरः": "यत्र हि द्वावपि व्यवहितौ पूर्वोत्तरौ तत्र पूर्वानुभावाहितसंस्कारोपजनितस्मृत्यारूढस्य पूर्वस्य बाधो युक्तः।" "पूर्वानुभाव-आहित"! आहित = placed, deposited, produced! "पूर्वानुभावेन आहितः संस्कारः" -> "पूर्वानुभावाहितसंस्कारोपजनितस्मृत्यारूढस्य"! Look at the print: पू र्वा नु भा वा हि - wait, does it have वा then हि? Look at वा: yes, भा then वा then हि!

२४८ परिभाषेन्दुशेखरः [ २ प्रकरणे- इति सूत्रे कैयटः । प्रत्यासत्तिमूलकोऽयम् । लक्ष्यानुरोधाच्च व्यवस्थेत्यपि पक्षान्तरम् । तत्र तत्र क्वचित् स्वरितत्वप्रतिज्ञानात् सामर्थ्येन वा बाध्यतेऽयं न्यायः । यथा 'टिड्ढे'ति सूत्रेण डापा व्यवहितस्यापि ङीपो विधिः । न षडित्या- दिना द्वयोरपि टाब्ङीपोः प्रतिषेधः । इयञ्च 'शि सर्वनामस्थानम्'त्यादौ भाष्ये स्पष्टेत्यन्यत्र विस्तरः ॥ ६२ ॥ ननु 'दधती'त्यादौ अन्तरङ्गत्वादन्तादेशेऽल्विधौ स्थानिवत्त्वाभावाद्- अदादेशो न स्यादिति तद्वैयर्थ्यापत्तिरत आह— पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः ॥ ६३ ॥ -: ✤ :- लक्षणैकचक्षुष्को ह्यपवादविषयं पर्यालोच्य तद्विषयत्वाभावनिश्चय उत्स र्गेण तत्तल्लक्ष्यं संस्करोति ; अन्यथा विकल्पापत्तिरित्यर्थः । अभिनिविशन्त विषय इति स एव बाध्यत" इत्युक्तम् । एवं च मध्येऽपवादन्यायादस्य प्राबल्यं स्पष्टमेव तेनाभिहितमिति भावः ; तदाह- कैयट इति । पक्षान्तरमिति । अत्र कैयट एवाऽऽहेति शेषः । ङीपो विधिरिति । डाप एव विधाने त्वदन्तत्वाट्टापैव सिद्धे सूत्रमेव व्यर्थं स्यादिति बोध्यम् । भाष्ये स्पष्टेति । तत्र हि 'अनपुंसकस्ये'ति प्रसज्यप्रतिषेध इति 'शि सर्वनामस्थानम्'त्यस्यापि प्रतिषेधः स्यादि- त्याशङ्क्य अनेन न्यायेन समाहितमिति द्रष्टव्यम् ॥ ६२ ॥ तद्वैयर्थ्यापत्तिरिति । ननु 'जक्षती'त्यत्र धातुसंज्ञासमकालमेव अभ्यस्तसंज्ञाप्रवृत्त्या एककाल एव द्वयोः प्राप्तौ अन्तादेशबाधेन अदादेशस्य चारितार्थ्यमिति चेन्न । 'झोऽन्तः' इत्यत्र उपदेशिवद्वचनेनात्रापि पूर्वमेवान्तादेशप्रवृत्त्या तद्वैयर्थ्यस्य सूपपादत्वात् । 'अदभ्यस्तादि'त्यत्र त्वभ्यस्तात्परत्वस्यापदेशेऽसम्भवेन उपदेशिवद्भावस्य न प्रवृत्तिः । किञ्च 'आयन्ना'दिषु उपदेशिवद्वचनं स्वरसिद्धयर्थमिति वार्तिके स्वरसिद्धिरूपप्रयोजनो- पन्यासेन अभ्यस्तविषयेऽभ्यस्तानामादिरिति स्वरस्यैव प्रवृत्त्या आद्युदात्तस्वरनिवृत्ति- रूपप्रयोजनाभावेन तद्वार्तिकाप्रवृत्तिरिति बोध्यम् । लक्षणैकचक्षुष्क इति । लक्षणेनैव यस्य लक्ष्यसाधुत्वपरिज्ञानं स इत्यर्थः । विकल्पापत्तिरिति । पर्यायापत्तिरित्यर्थः । विकल्पस्तु न सम्भवति, पूर्वमुत्सर्गशास्त्र- प्रवृत्तौ अपवादशास्त्रप्रवृत्तेर्दुर्घटनात् ॥ ६३ ॥ पर्यायापत्तिरित्यर्थं इति । स्मृतिद्वयप्रामाण्यात् तृजादिवदन्यतरत्वेन व्यापकत्वा- दिति भावः । विकल्पस्त्विति । समुच्चय इति तदर्थः ॥ ६३ ॥

६३-६५प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २४९ .इत्यस्य बुद्ध्याऽऽरूढा भवन्तीत्यर्थः । 'अपवादो यद्यन्यत्र चरितार्थ' इति न्यायस्य तु नात्र प्राप्तिः, अन्तादेशाप्राप्तिविषये चारितार्थ्याभावात् ॥ ६३ ॥ लक्ष्यैकचक्षुष्कस्तु तच्छास्त्रपर्यालोचनं विनाऽप्यपवादविषयं परि- त्यज्य उत्सर्गेण लक्ष्यं संस्करोति, तस्यापि शास्त्रप्रक्रियास्मरणपूर्वकप्रयोग एव धर्मोत्पत्तेः ; तदाऽऽह- प्रकल्प्य चापवादविषयं तत उत्सर्गोऽभिनिविशते ॥ ६४ ॥ -: ❖ :- तत इत्यस्य अपवादशास्त्रपर्यालोचनात् प्रागपीत्यर्थः । प्रकल्प्येत्यस्य परित्यज्येत्यर्थः । अत एव प्रातिपदिकार्थसूत्रे भाष्ये 'इदं द्वयमप्युक्त्वा न कदाचित्तावदुत्सर्गो भवत्यपवादं तावत्प्रतीक्षत' इत्यर्थकमुक्तम् ॥ ६४ ॥ एतन्मूलकमेव नवीनाः पठन्ति- उपसञ्जनिष्यमाणनिमित्तोऽप्यपवाद उपसञ्जातनिमित्तमप्युत्सर्गं बाधत इति ॥ ६५ ॥ -: ❖ :- यत्तु अभ्यस्तसंज्ञासूत्रे कैयटेन प्रकल्प्य चेति प्रतीकमुपादाय यथा न उत्तरपरिभाषां लक्ष्यैकचक्षुष्कपरतया योजयितुमवतारयति -लक्ष्यैकचक्षुष्क इति । लक्षणज्ञानमन्तराऽपि यस्य लक्ष्यसाधुत्वपरिज्ञानं स इत्यर्थः । धर्मोत्पत्तेरिति । “एकः शब्दः सम्यक् ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुग् भवती'ति श्रुतिप्रामाण्यादित्यर्थः । अत एवेति । अधिकारिभेदेन द्वयोः परिभाषयोर्व्यवस्थापनादेवेत्यर्थः । प्रातिपदि- कार्थसूत्रे भाष्य इति । 'देवदत्तः पचती'त्यत्र अपवादभूतयोः शतृ-शानचोः प्रवृत्तिविषय- तया तिङाऽनुत्पत्तौ तिङाऽनभिधानाभावेन 'अभिहिते प्रथमे'त्यस्य विषयाभावात् प्रथमाया अनुत्पत्तिप्रसङ्ग इति शङ्कां समर्थयितुं “न चापवादविषये उत्सर्गोऽभिनि- विशते, पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः । प्रकल्प्य चापवादविषयं तत उत्सर्गोऽभिनिविशते । न तावदत्र कदाचित्तिङादेशा भवन्ति, अपवादी शतृ-शानचौ तावत् प्रतीक्षत” इत्युक्तम् ॥ ६५ ॥ नवीना इति । दीक्षितादय इत्यर्थः । उपसञ्जनिष्यमाणेति । उत्सर्गशास्त्रप्रवृत्त्य- भावसम्भावनाप्रयोज्या यत्रापवादप्रवृत्तिसम्भावना, तत्र पूर्वमुत्सर्गो न प्रवर्तते इत्यर्थः । अनेन च न्यायेन भविष्यदपवादविषयातिरिक्तत्वेन उत्सर्गशास्त्रे सङ्कोचः, तेन 'दधती'त्यत्र भविष्यदपवादविषयसत्त्वेन 'झोऽन्त' इत्यस्याप्रवृत्तिरिति बोध्यम् । ३२

२५० परिभाषेन्दुशेखरः [ २ प्रकरणे- सम्प्रसारण इति परस्य यणः पूर्वं सम्प्रसारणं पूर्वस्य तु तन्निमित्तकः प्रतिषेध केचित्तु—अत्रापवादपदं निषेध-पर्युदासयोरुपलक्षणम्, तेन ‘ररन्धतुरि’त्यत्र नुमः पूर्वं कित्त्वं न ; अन्यथा नलोपः स्यात् । मम तु यद्यत्र ‘लिट् किदि’ति कित्त्वं न प्रवर्तेत, तर्हि नुमि कृते ‘असंयोगादि’ति प्रवर्तेतेति सम्भावनायाः सत्त्वेन कित्त्वा- प्रवृत्त्या नलोपो न । यदि त्वत्र प्रतिपदोक्तत्वात् कित्त्वात् पूर्वमेव नुमित्युच्यते, तदा- लिप्धातोरनुपसर्गात् ‘लिम्पविन्दे’ति शप्रत्ययं कृत्वा उपसर्गयोगे ‘प्रलिम्प’ इत्यस्या- प्पत्तिः । मम तु यदि शप्रत्ययो न स्यात्तदा उपसर्गयोगे ‘अनुपसर्गादि’ति निषेधविषयः स्यादिति सम्भावनया शप्रत्ययानुत्पत्त्या ‘प्रलिप’ इत्येवेति प्राहुः । तन्न ; निषेध्य-

६५ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २५१ इत्युक्तम्, तत्तु तत उत्सर्ग इत्याद्यक्षरार्थाननुगुणम् । यत्तु अपवादवाक्यार्थं विना नोत्सर्गवाक्यार्थ इति तदर्थ इति । तन्न ; अभिनिविशतेऽपवादविषयमित्यादिपदस्वारस्यभङ्गापत्तेः , पदजन्यपदार्थोप- स्थितौ वाक्यार्थबोधाभावे कारणाभावाच्च । यत्र त्वपवादो निषिद्धस्तत्रा- पवादविषयेऽप्युत्सर्गः प्रवर्तत एव । यथा ‘वृक्षावि’त्यत्र ‘नादिची’ति पूर्व- सवर्णदीर्घनिषेधादप्रवर्तमानस्य वृद्धिबाधकत्वाभावाद् वृद्धिः प्रवर्तते । अत एव ‘तौ सदि’त्यादि सङ्गच्छते । अत एव निर्देशाद् भ्रष्टावसरन्यायस्यात्र शास्त्रेऽनाश्रयणम् । ध्वनितं चेदम् ‘इको गुणे’ति सूत्रे भाष्य इति भाष्य- प्रदीपोद्द्योते निरूपितम् । अत्र देवदत्तस्य हन्तरि हते देवदत्तस्योन्मज्जनं नेति न्यायस्य विषय एव नास्ति । हते देवदत्त उन्मज्जनं न देवदत्तहननोद्यतस्य, हनने तु भवत्येवोन्मज्जनम् । प्रकृतेऽपि न पूर्वसवर्णदीर्घेण वृद्धेर्हननम्, किन्तु हननो- द्यमसजातीयं प्रसक्तिमात्रं प्रसक्तस्यैव निषेधात् । प्रतिपदोक्तत्वमपि निरवकाशत्वे सत्येव बाधप्रयोजकम् । स्पष्टं चेदं ‘शेषाद्विभाषे’ति सूत्रे भाष्ये । तत्र हि ‘शेषग्रहणमनर्थकं ये प्रतिपदं विधी- यन्ते ते बाधका भविष्यन्ती’त्याशङ्क्य, ‘अनवकाशा हि विधयो बाधका भवन्ति, समासान्ताश्च कबभावे सावकाशा’ इत्युक्तम् । क्वचिदनवकाशत्वा- भावेऽपि परनित्यादिसमवधाने शीघ्रोपस्थितिकत्वेन पूर्वप्रवृत्तिप्रयोजकं बल- वत्त्वं प्रतिपदविधित्वेनापि, परनित्यान्तरङ्गप्रतिपदविधयो विरोधिसन्नि- पाते तेषां मिथः प्रसङ्गे परबलीयस्त्वमिति ‘प्रत्ययोत्तरपदयोश्चे’ति सूत्रे इत्युक्तमिति । ‘प्रकल्प्ये’त्यस्य सिद्धं कृत्वेत्यर्थस्य लोके प्रसिद्धत्वेनौचित्यमिति भावः । अननुगुणमिति । तत इत्यस्य अनन्तरार्थकत्वेन तस्य ल्यपैवोक्तत्वेन अनुगुण्या- भावः स्पष्ट एवेति भावः । अनाश्रयणमिति । वस्तुतस्तु—अत्रावसरस्य उद्देश्यतावच्छेदकाक्रान्तेः सत्त्वेन न्यायस्य विषय एव नेति वक्तुंयुक्तम् । प्रतिपदोक्तत्वस्यापवादत्वात् पृथग्बाधबीजत्वमङ्गीकुर्वतां कैयटादीनां मतं खण्डयितुमाह—प्रतिपदोक्तत्वमपीति । बाधप्रयोजकमिति । एवञ्च ‘येन नाप्राप्ति’ न्यायमूल- कत्वमेवैतस्येति बोध्यम् । इदं च ‘छदिरुपधिवलेर्ढञ्’ति सूत्रे मनोरमायां भाष्ये च स्पष्टम् । इत्युक्तमिति । न च निरवकाशत्वमूलकप्रतिपदोक्तत्वेन बाधकत्वासम्भवेऽपि पूर्वोपस्थितनिमित्तकत्वमूलकप्रतिपदोक्तत्वेन बाधः स्यादेवेति शेषग्रहणमनर्थकमिति

२५२ परिभाषेन्दुशेखरः [ २ प्रकरणे- कैयटेन पाठात् । अत एव ‘रमे’ इत्यादौ प्रतिपदोक्तत्वात्पूर्वमेत्वे आकार- प्रश्लेषाद्धल्ङ्यादिलोपो न प्राप्नोतीत्याशङ्क्य, ‘एङ्‌ह्रस्वादि’ति लोपेन समाहितम् ॥ ६५ ॥ ननु 'अयजे इन्द्रमि'त्यादौ अन्तरङ्गस्यापि गुणास्यापवादेन सवर्ण- दीर्घेण बाधः स्यादत आह— अपवादो यद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यते ॥ ६६ ॥ — ❀ — निरवकाशत्वरूपस्य बाधकत्वबीजस्याभावात् । एवञ्च प्रकृतेऽन्त- रङ्गेण गुणेन सवर्णदीर्घः समानाश्रये चरितार्थो यण्-गुणयोरपवादोऽपि वाच्यम् ; ‘द्विमूर्ध’ इत्यादौ षजन्तात्कबभावार्थं तस्याऽऽवश्यकत्वात् । अत एवेति । पराद्यपेक्षया बलवत्त्वादेवेत्यर्थः ॥ ६५ ॥ बाधकत्वबीजस्याभावादिति

६६-६७ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २५३ बाध्यते । पूर्वोपस्थितनिमित्तत्वरूपान्तरङ्गत्त्वविषय इदम् । यत्तु आगमादेशयोर्न बाध्यबाधकभावो भिन्नफलत्वात्, अत एव ब्राह्म- णेभ्यो दधि दीयतां कम्बलः कौण्डिन्याये'त्यादौ कम्बलदानेन न दधिदान- बाध इति ‘च्छ्वोर्डि’ति सूत्रे कैयटः । तन्न ; अपवादो नुग्दीर्घत्वस्येति ‘दीर्घो- ऽकित' इति सूत्र-भाष्यविरोधात् ॥ ६६ ॥ ननु 'अजीगणदि'त्यादौ गणेरीत्वं निरवकाशत्वाद्वलादिःशेषं बाधेत ; तन्नाऽऽह— रूपव्याप्यतावच्छेदक सम्बन्धस्वीकारेण तत्सम्बन्धेन उद्देश्यतावच्छेदकवत्येव तत्त- च्छास्त्रप्रवृत्तेः स्वीकारादिति दिक् । अन्ये तु—दीर्घस्यापवादत्वाभावेऽपि यण्-गुणयोः परत्वात्तेन बाधसिद्धि- रित्याहुः । नन्वेतत्परिभाषास्वीकारे वशब्दादाचारक्विबन्तात्कर्तरि क्विपि 'ऊरि'त्यत्र समानाश्रये चरितार्थस्य ऊठः 'अक्षद्यू'रित्यान्तरङ्गत्वाद्विलोपापत्तिरिति चेत्तत्राऽऽह— पूर्वोपस्थितनिमित्तत्वेति । "इण्ङिशीनामाद्गुणः सवर्णदीर्घत्वादि'त्यादिवार्तिकानुसारेण तथाकल्पनादिति भावः ॥ ६६ ॥ निरवकाशत्वादिति । गणरूपाभ्यासस्येत्वं स्यादित्यर्थंसत्त्वेन हलादिःशेषो- त्तरमीत्वाप्राप्तेस्तत्त्वम् । एवञ्चेत्त्वे गुणे 'अजेगणदि'ति स्यादिति भावः । न च गुणो- त्तरमभ्यासह्रस्वे 'दीर्घो लघोरि'ति दीर्घेणेष्टसिद्धिरिति वाच्यम् ; अग्लोपित्वेन दीर्घा- प्राप्त्या उक्तरूपासम्भवात् । वस्तुतस्तु—दीर्घविधानसामर्थ्येन विकारमात्रस्य बाधेन 'अज् + ई + गणादि'- त्यस्याऽऽपत्तिरत्र बोध्येति दिक् । ईत्वाप्राप्तेरिति । न च स्थानिवत्त्वेन गणरूपाभ्यासत्वं लभ्यमिति वाच्यम् ; 'अनल्- विधौ' इति तन्निषेधात् । आनुमानिकस्थान्यादेशभावेन तु न लभ्यम्, यस्यार्थवत्येव विश्रान्त्या- ऽभ्यासस्य अनर्थकत्वात् । 'एकदेशविकृत'न्यायेन तु न लब्धुं शक्यम् ; अक्तपरिमाणत्वात् । स्वीकृतायान्तु परिभाषायां गणे रीत्वेन बाधाभावात् पूर्वं हलादिःशेषेण नकारनिवृत्तौ ततो गणे रीत्वे 'अजीगणत्' इत्यस्य सिद्धिः । न च हलादिःशेषोत्तरं गणरूपाभ्यासाभावात् कथमीत्वमिति वाच्यम् ; सूत्रारम्भसामर्थ्यात् गुणसम्बन्ध्यभ्यासैकार इत्यर्थे णलोपोत्तरमपि गणसम्बन्ध्यभ्यास- त्वाक्षतेः । प्रकृतपरिभाषास्वीकारात् प्राक् तु न वैयधिकरण्येनान्वयः सम्भवति, सामानाधि- करण्येनान्वये सम्भवति वैयधिकरण्येनानन्वयात् । दीर्घविधानसामर्थ्येनेति । दीर्घेकारविधानेति तदर्थः ।

/ोत्तर/ has an avagraha or it's a typo in the original print for "ज्ञापकोत्तरमपि" or "ज्ञापनानन्तरमपि". In the print it literally reads: "परिभाषाज्ञापनोंत्तरमपि" or "परिभाषाज्ञापनात्तरमपि"? It clearly has a matra on top and an avagraha-like or anusvara-like dot. Let's transcribe faithfully what is printed. It is printed as "परिभाषाज्ञापनोंत्तरमपि".

Let's check : ‘दीर्घोऽकित’ इत्यत्र दीर्घपदसाहचर्येण अचश्चेत्युपस्थितस्य अच्त्वहल्त्वोभयाना- Wait, let's re-verify: "अचश्चेत्युपस्थितस्य": Look at the characters: अ - च - श् - च - े - त - ्य - ु - प - स - ् - थ - ि - त - स - ्य Yes, exactly "अचश्चेत्युपस्थितस्य"!

Let's check line 25: "व्यावर्त्यालाभेन सामर्थ्यात्तस्य औपदेशिकदीर्घादिव्यावर्तकतया ‘बाबाभ्यत’ इत्यत्र" Yes!

Everything matches the printed page accurately.२५४ परिभाषेन्दुशेखरः [ २ प्रकरणे-

अभ्यासविकारेषु बाध्यबाधकभावो नास्ति ॥ ६७ ॥ -: ❀ :-

[L

६७ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २५५ इयं परान्तरङ्गादिबाधकानामप्यबाधकत्वबोधिका, तेन 'अचीकरत्, मीमांसत' इत्यादि सिद्धम् । आद्ये सन्वद्भावस्य परत्वादीर्घेण बाधः प्राप्नोति । अन्त्ये मान्बधेति दीर्घेण अन्तरङ्गत्वद्वित्वस्य बाधः प्राप्तः । यत्तु यत्रैकैकप्रवृत्त्युत्तरमपि सर्वेषां प्रवृत्तिस्तत्रैवेदमित्यत 'एके' ति सूत्रे कैयटः । तन्न; नुकि कृते दीर्घाप्राप्त्या धर्मिग्राहकमानविरोधात् मान्बधा- दीनां दीर्घे कृते इत्त्वाप्राप्त्या 'गुणो यङ्लुकोरि'ति सूत्रस्थभाष्योक्ततदुदा- हरणासङ्गतेश्चेत्यन्यत्र विस्तरः ॥ ६७ ॥ दीर्घवारणाय अकिद्ग्रहणचारितार्थमित्युच्यते, तर्हि पदलाघवानुरोधेन दीर्घोऽनुक इत्येव सिद्धे अकिद्ग्रहणमेतज्ज्ञापकमिति सन्तुष्यतु भवान् । नीगादीनां तु तक्रन्यायेनैव दीर्घ- बाधकत्वस्य निर्विवादतया तत्र अकिद्ग्रहणव्यावर्त्यालाभात् । न च 'चाच्छायत' इत्यत्र अन्तरङ्गत्वान्नकि दीर्घव्यावृत्तयेऽकिद्ग्रहणं चरितार्थमिति वाच्यम् ; 'दीर्घोऽकित' इत्यत्र नुवर्तमानाभ्यासपदस्याऽऽवृत्त्या अभ्यासत्वावच्छिन्नोद्देश्यताककिद्घटितभिन्नस्ये- त्यर्थेनात्र तुकस्तथात्वाभावेन अस्य अकिद्ग्रहणव्यावर्त्यत्वासम्भवेन तद्वैयर्थ्यस्य सूप- पादत्वात् । अत एव जहातेर्यङि तस्य व्यपदेशिवद्भावेन किद्घटित्वेऽपि दीर्घसिद्धिः । ज्ञापिते त्वस्मिन्वचने नुगादेरबाधकत्वेन दीर्घस्य व्यावृत्तये तस्य स्वांशे चारितार्थ्यम् । न चानया पूर्वं नुकोऽप्रवृत्तौ अकिद्ग्रहणेऽप्यभ्यासस्य किद्घटितभिन्नत्वेन पूर्वं दीर्घो दुर्वार इति वाच्यम् ; अकित इत्यस्य किदुद्देश्यघटितभिन्नस्येत्यर्थेन नुगादेः पूर्व- मनन्तरं वा तद्घटितत्वेन उक्तातिप्रसङ्गासम्भवात् । दीर्घाप्राप्त्येति । ननु यत्रैकैकप्रवृत्त्युत्तरमपरेषां प्रवृत्तियोग्यता तत्रैवैतत्परिभाषा- प्रवृत्तिरिति कैयटाशयात् 'यंयम्यते' इत्यादौ नुगादिप्रवृत्त्युत्तरमपि अभ्यासविकारे वैयधिकरण्येनान्वयात् 'दीर्घोऽकित' इति शास्त्रस्य अकित इति निषेधेनाप्रवृत्तावपि तत्प्रवृत्तियोग्यताया अव्याघातात्कथं धर्मिग्राहकमानविरोध इत्यत आह— मान्बधेति । दीर्घे कृते इत्त्वाप्राप्त्येति । नन्वत्रापि अभ्यासपदेशांशेऽाद्यत्वं कृत्वाऽभ्यास- स्थानिकादेशस्येत्यर्थंकरणेन पूर्वमित्त्वे दीर्घे च 'मीमांसत' इत्यादीनां सिद्धिरिति नेदं दूषणमित्यरुचेराह-चेति । तेन 'बोभूयते' इत्यस्य सङ्ग्रहः । तथा च 'गुणो शास्त्रस्य तक्रन्यायेन दीर्घबाधकत्वमूलकम्, तेन न्यायेन बाधश्च तपरकरणस्य वैयर्थ्येन औप- देशिकदीर्घमात्रव्यावर्तकत्वमूलकः, तपरवैयर्थ्यञ्च सर्वत्र ह्रस्वप्रवृत्तिमूलकम्, तत्प्रवृत्तिश्च परि- भाषाधीना, परिभाषा च अकिद्ग्रहणपरतन्त्रेति चक्रकापत्तिरिति भावः । मूले-एकेतीति । उत्सर्गस्यापवादस्य चेत्यर्थः । यथा 'नर्तति' इत्यादौ उरदत्वे रुगा- दयः, तेषु च तदिति भावः । मूले-तदुदाहरणेति । 'मीमांसत' इति तदुदाहरणेत्यर्थः ।

२५६ परिभाषेन्दुशेखरः [ २ प्रकरणे-

यङ्‌लुकोरि'ति सूत्रस्थ-'बोभूयते' इत्युदाहरणसिद्धिरिति भावः । अत्र केचित्—अभ्यासविकारे बाध्यबाधकभावाभावेन तयोर्यथायथं समावेशः, तेन 'बोभूयते' इत्यत्र ह्रस्वप्रवृत्त्युत्तरं गुणप्रवृत्त्येष्टसिद्धिः । 'विव्यथे' इत्यत्र सम्प्रसारणोत्तरं हलादिःशेषसिद्धिः । न च 'बोभूयत' इत्यत्र गुणोत्तरं ह्रस्वापत्तिरिति वाच्यम् ; बाधकशास्त्रप्रवृत्तिनैष्फल्यासम्पादकस्यैव समावेशस्य स्वीकारेणात्र बाधकगुणशास्त्र- प्रवृत्त्युत्तरं ह्रस्वप्रवृत्तौ गुणशास्त्रप्रवृत्तेर्नैष्फल्येन तादृशसमावेशाप्रसक्तेरिति वदन्ति । अन्ये तु—अनया परिभाषया बाध्यानामेव पूर्वं प्रवृत्तिरिति बोध्यते । तथा च 'बोभूयत' इत्यत्र बाध्यह्रस्वप्रवृत्त्युत्तरं बाधकगुणप्रवृत्त्येष्टसिद्धिः । न चैवं 'विव्यथे' इत्यादौ हलादिःशेषोत्तरं वकारस्य सम्प्रसारणापत्तिरिति वाच्यम् ; 'न सम्प्रसारणे' इति सूत्रेण औपदेशिकयणवधिकपूर्वत्वाभाववत एव यणः सम्प्रसारणस्य बाधनात् 'विव्यथे' इत्यादौ 'व्यथो लिटि'त्यादिसूत्रारम्भसामर्थ्येन तत्परिभाषाया अत्राप्रवृत्ति- कल्पनेनादोषात् । एतन्मूलकमेव कौमुद्याम् 'अन्त्यस्य यणः पूर्वं सम्प्रसारणमि'त्युक्तम् । 'लिट्यभ्यासस्योभयेषामि'ति सूत्रे उभयेषां ग्रहणेन सम्प्रसारणस्य सर्वतो बलवत्त्व- बोधनेन अदोषाच्च । अन्ये तु—अभ्यासविकाराणां परस्परविरोधविरहपूर्वकः समावेश इति प्रकृतपरिभाषया प्रतिपाद्यते, तेन सति सम्भवे यौगपद्येनैव तेषां प्रवृत्तिः, यथा 'यंयम्यत' इत्यादौ नुगागम-हलादिःशेषयोः । यत्र तु बाध्यप्रवृत्त्युत्तरं बाधकप्रवृत्त्या तत्समावेशस्तत्र बाध्यप्रवृत्त्युत्तरमेव बाधकप्रवृत्तिः, यथा 'अजीगणदि'त्यत्र हलादिः-


गुणोत्तरं ह्रस्वापत्तिरिति । एवम् 'अनूनवत्' इत्यत्र दीर्घोत्तरं ह्रस्वापत्तिर्बोध्या । नैष्फल्यासम्पादकस्यैवेति । चिन्त्यमिदम्, मानाभावात् । न च 'गुणो यङ्‌लुकोः', 'दीर्घो लघोः' इत्यनयोश्च वैयर्थ्यापत्तिरेव मानमिति वाच्यम् ; 'डोडोक्यते, तोत्रीक्यते' इत्यादौ पूर्वमभ्यासे इगभावेन पूर्वं गुणाप्राप्त्या ह्रस्वोत्तरं विधानेनाऽऽद्यस्य, एवम् 'अनीनयत्' इत्यत्र दीर्घान्ते तदप्राप्त्या पूर्वं ह्रस्वे ततो दीर्घविधानेन 'दीर्घो लघोः', इत्यस्य चारितार्थ्याच्च तथा कल्पयितु- मशक्यत्वादित्यरुचेरेवाह—अन्ये त्विति । सम्प्रसारणस्य बाधनादिति । चिन्त्यमिदम् ; युवन्शब्दादेरुपदेशाभावात्, 'उद्दे- शश्च प्रातिपदिकानां नोपदेशः' इति भाष्यात् । हलादिःशेषोत्तरमौपदेशिकयणवधिकपूर्वत्वा- भाववतो वकारस्य सम्प्रसारणविधानेन 'व्यथो लिटि' इत्यस्य चारितार्थ्येन परिभाषाबाधे माना- भावाच्चेत्यरुचेराह— उभयेषां ग्रहणेनेति । नन्वेवं परिभाषाऽप्रवृत्त्या सम्प्रसारणेन तद्बाध- स्तक्रन्यायेनैव वाच्यः, तथा सति बाधमहिम्ना सम्प्रसारणप्रवृत्त्युत्तरं हलादिःशेषप्रवृत्तिर्न स्यादिति चेन्न । प्रतिलक्ष्यं लक्षणोपप्लवेन यकारनिवर्तकाद्भिन्नस्य थकारनिवर्तकहलादिःशेषस्य तेन बाधा- भावात्, 'व्यथो लिटि' इत्यत्र यकारं प्रश्लिष्य व्यथो यकारस्य सम्प्रसारणमित्यर्थेन निरवकाश- मूलकबाधेन बाधकप्रवृत्त्युत्तरमुत्सर्गशास्त्रप्रवृत्त्या दोषाभावाच्च । बलवत्त्वबोधनेन अदोषाच्चेति । आहुरिति शेषः । इत उत्तरं 'अन्ये तु' इत्यतः

६८ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २५७ ननु तच्छीलादितृन्विषये ण्वुलपि स्यात् । न च तृन्नपवादः ; अस- रूपापवादस्य विकल्पेन बाधकत्वात्, अत आह— ताच्छीलिकेषु वाऽसरूपविधिर्नास्ति ॥ ६८ ॥ —: ✤ :— ण्वुलि सिद्धे ‘निन्दहिंसादि’सूत्रेण एकाच्भ्यो वुञ्विधानमत्र ज्ञापकम्, तत्र ण्वुल्वुञोः स्वरे विशेषाभावात् । ताच्छीलिकेष्विति विषयसप्तमी, तेन ताच्छीलिकैरताच्छालीकैश्च वा असरूपविधिर्नेति बोध्यम् । नन्वेवं ‘कम्रा कमने’त्याद्यसिद्धिः, नमिकम्प्रीति रेणानुदात्तेतश्च हलादेरिति युचो बाधादिति चेन्न । ‘सूददीपदीक्षश्चे’त्यनेन दीपेर्युङ्निषेधेन उक्तार्थस्य अनित्यत्वात् ॥ ६८ ॥ शेषोत्तरमीत्वम् । सम्प्रसारणविषये तु नायं न्यायः प्रवर्तते, लिट्यभ्यासस्येत्यत्रोभयेषां ग्रहणेन तद्विषये एतदप्रवृत्तेर्ज्ञापनात्, तेन ‘विव्यथे’ इत्यादौ यकारस्य सम्प्रसारण- सिद्धिरिति प्राहुः ॥ ६७ ॥ अपवादप्रस्तावादाह—ननु तच्छीलादीति । ण्वुलपि स्यादिति । कर्तृसामान्ये विधीयमानस्यास्य ताच्छील्यादिविशिष्टे कर्तरि प्रवृत्तौ बाधकाभावादिति भावः । स्वरे विशेषाभावादिति । ‘निन्दक’ इत्यादौ ञ्नित्यादिर्नित्यमित्याद्युदात्तत्वे लितीति प्रत्ययात्पूर्वस्य उदात्तत्वे वा विशेषाभावादित्यर्थः । ननु ताच्छीलिकेषु वाऽसरूपविध्यभावे ‘निराकर्ता, निराकरिष्णुरि’त्यादौ तृनिष्णुचोः पर्यायता न सिद्ध्येदत आह—विषयसप्तमीति ॥ ६८ ॥ आरभ्य ‘प्राहुः इत्यन्तं तृतीयः प्रकारः प्रतिपादितः । सोऽपि ‘केचित्तु’ मतादविशिष्ट एव प्रतीयत इति ‘बोभूयते’ इत्यस्यासिद्धेरुपेक्ष्य एवेति बोध्यम् ॥ ६७ ॥ मूले—ण्वुलिति । करणस्याधिकरणत्वविवक्षया सप्तमी । ताच्छीलिकेषु इति अभि- व्यापकाधारे सप्तमी इत्याभिमानेनाऽऽशङ्कते—नन्विति । मूले—विषयसप्तमीति । विषयता च उत्सर्गापवादयोस्तत्त्वेनापवादस्य वा, अपवादस्य तु तत्त्वं सर्वथाऽपेक्यत इति भावः, तदाह—तेनेति । ताच्छीलीकानामपवादानामिति शेषः । एवञ्च ताच्छीलिकेषु परस्परं वाऽसरूपविधिर्नेति परिभाषान्तरं न मन्तव्यम् । एकेनैव ज्ञापकेन उभयोरपि लाभात् । वस्तुतस्तु—नैतद्विषयसप्तम्याः फलम्, ‘ताच्छीलिकेषु’ इति ताच्छीलीकापवादपरम् । अभि- व्यापकाधारे सप्तमी । अस्तु ताच्छीलीकापवादप्रत्ययः, उत्सर्गस्य ताच्छीलिकत्वे वाऽसरूपन्याया- प्रवृत्तौ ‘अनुदात्तेतश्च’ इति युचासिद्धे पुनर्ज्रुचङ्क्रम्येति पदेर्युज्विधानमपि गमकं बोध्यम् ॥ ६८ ॥ ३३

२५८ परिभाषेन्दुशेखरः [ २ प्रकरणे- नन्वेवं ‘हसितं छात्रस्य हसनमि’त्यादौ घञ् ‘इच्छति भोक्तुमि’त्यत्र लिङ्‌लोटौ ‘ईषत्पानः सोमो भवते’त्यत्र खल् प्राप्नोतीत्यत आह— क्तल्युट्‌तुमुन्खलर्थेषु वाऽसरूपविधिर्नास्ति ॥ ६९ ॥ —: ✤ :— इदं च वाऽसरूपविधेरनित्यत्वात्सिद्धम् । तदनित्यत्वे ज्ञापकं ‘चाहें कृत्यतृचश्चे’ति । तत्र हि चकारसमुच्चितलिङा कृत्यतृचो बाधो मा भूदिति कृत्यतृज्ग्रहणं क्रियत इत्यन्यत्र विस्तरः । वाऽसरूपसूत्रे भाष्ये स्पष्टा ॥ ६९ ॥ ननु ‘श्वः पक्ते’त्यत्र वाऽसरूपविधिना लृडपि प्राप्नोति, कृते आदेशे वैरूप्यादत आह— लादेशेषु वाऽसरूपविधिर्नास्ति ॥ ७० ॥ —: ✤ :— आदेशकृतवैरूप्यवत्सु लकारेषु स नास्तीत्यर्थः । घञिति । न चैवं ‘परिहास’ इत्यस्यासिद्धिरिति वाच्यम् ; हसेः पचाद्यजन्ताद् घञर्थकान्ताद्वा प्रज्ञाद्यणि णिजन्तात्पचाद्यचि वा तत्सिद्धिसम्भवात् । अत एव परीपाक- शब्दवत् परिहासे ‘उपसर्गस्य घञ्यि’ति दीर्घो नेति बोध्यम् । विधेरनित्यत्वादिति । अनेनैव पूर्वोत्तरपरिभाषयोः सिद्धौ पृथग् ज्ञापकान्तरोप- वर्णनं प्रपञ्चार्थमिति बोध्यमित्यन्यत्र विस्तरः ॥ ६९ ॥ कृते आदेशे वैरूप्यादिति । वाऽसरूपसूत्रे सरूपपदेन स्वावृत्तिरूपवान् गृह्यते, तत्र स्वपदेनाविशेषात् आदेशरूपस्यापि स्वस्य ग्रहणात् प्रकृते आदेशरूपः स्वं लुट्स्थानिक- स्तिशब्दस्तस्यापि स्थानिवत्त्वेन लुट्त्वात् तद्वृत्ति-डाशब्दत्वरूपवान् लुडस्ति इति लुटो विकल्पेन लृड्बाधकत्वापत्तिः । प्रायोगिकासारूप्यमात्रग्रहणे विकल्पासहत्वस्य पूर्वमुपपादितत्वेऽपि तत्साधारणग्रहणे बाधकाभावादिति भावः । आदेशकृतवैरूप्यवत्स्विति । उक्तज्ञापकरूपबाधकसत्त्वात् ‘वाऽसरूप’सूत्रेऽपवादपदेन ननु वाऽसरूपसूत्रे असरूपपदेन औपदेशिकसारूप्यवद्भिन्नस्य ग्रहणेन प्रकृते न दोष इति चेदाह—वाऽसरूपसूत्र इति । लृड्बाधकत्वापत्तिरिति । ननु वाऽसरूपसूत्रे प्रायोगिका- सारूप्यस्य ग्रहणं न भवतीत्यस्य ‘नानुबन्धकृतमसारूप्यम्’ इति परिभाषायामुपपादितत्वेनात्र डाशब्दत्वरूपप्रायोगिकासारूप्योपादानेन दोषदानमयुक्तमित्याशङ्कायामाह—प्रायोगिकासारूप्य- मात्रग्रहण इति । मात्रपदेन औपदेशिकस्य व्यावृत्तिः । विकल्पासहत्वस्येति । प्रयोगमात्रा- वच्छेदेन प्रयोगसामानाधिकरण्येन वैत्येवंरूपविकल्पासहत्वस्येति तदर्थः । तत्साधारणग्रहण इति । औपदेशिक-प्रायोगिकयोरुभयोरपि ग्रहणे इति तदर्थः ।

७०-७१ पृ० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २५९ अत्र च 'हशश्वतोर्लङ् चे'ति लङ्-विधानं ज्ञापकम् ; अन्यथा 'परोक्षे लिडि'ति लिटा लङः समावेशोऽसारूप्यात् सिद्ध इति किं लङ्-विधानेन ? शत्रादिभिस्तिडां समावेशार्थं शतृविधायके विभाषाग्रहणानुवृत्तिः, 'लिटः कानज्वे'ति वाग्रहणं च कृतम् । तज्ज्ञापयति वाऽसरूपसूत्रे अपवाद आदेश- त्वानाक्रान्तः प्रत्यय एव गृह्यत इति कैयटादौ ध्वनितम् । तत्फलन्तु सदा- दिभ्यो भूतसामान्ये लिटा क्वसुरेव, न तु पक्षे तिडिति बोध्यम् ॥ ७० ॥ ननु 'ङमो ह्रस्वादि'त्यादौ ङमः परस्याचोऽचि परतो ङम इति वेति सन्देहः स्यादत आह— लादेशत्वानाक्रान्तस्य ग्रहणम् । तथा च वाऽसरूपसूत्रे लादेशभिन्नो यः स्वं तद्वृत्ति- रूपवान् असरूपपदेन गृह्यत इति फलति । न च लादेशभिन्नः स्वं लुट्शब्दस्तद- वृत्तिरूपं लुट्त्वं तद्वान् लृडिति दोषस्तदवस्थ एवेति वाच्यम् ; 'नानुबन्धकृतमसा- रूप्यमि'ति परिभाषया अनुबन्धरहितस्यैव स्वस्य ग्रहणेन स्वपदेन लृडित्यानुपूर्वी- मतोऽग्रहणात् । एवञ्च रूपपदेनापि अनुबन्धरहितवृत्तिन एव ग्रहणं बोध्यम् । यदि तु वाऽसरूपसूत्रे औपदेशिकसारूप्यवद्भिन्नोऽनुबन्धरहित एव गृह्यते, तदा शत्रादिभिस्तिङामसारूप्यादेव विकल्पसिद्धौ 'लटः शतृशानचौ' इत्यत्र विभाषाग्रहण- वैय्यर्थ्यादिमूलोक्तदूषणानि दुर्वारतायापद्येरन्निति ॥ ७० ॥ सन्देहः स्यादिति । ननु 'तस्मिन्नि'ति, 'तस्मादि'ति परिभाषोपस्थितपूर्वपर- पदार्थयोरभेदेनान्वयेन 'सुगण्-परमआत्मे'त्यादौ परमशब्दे तयोः सामानाधिकरण्येन विरोधाभावात् संशयानुपपत्तिरिति चेन्न । तयोः परिभाषयोः पूर्वत्व-परत्वान्यतरद्- षष्ठ्यर्थव्यवहितत्वेत्यंशत्रयोपस्थापकत्वेन यत्र स्वघटकांशः सिद्धो बाधितो वा भवति तत्र तद्रहितांशोपस्थापकत्वम्, यथा 'परञ्चे'त्यधिकारे अव्यवधानांशमात्रो- पस्थापकत्वम् । एवं चात्र संभेदेनान्यतरवैय्यर्थ्यात्, सप्तमीपरिभाषोपस्थितांशस्य लादेशत्वानाक्रान्तस्येति । ननु वाऽसरूपसूत्रे औपदेशिकस्यैवासारूप्यस्य ग्रहण- मस्तु इत्येतावतकल्पनयैव आदेशकृतवैरूप्यवत्सु लकारेषु दोषाभावेन लादेशत्वानाक्रान्त इति सङ्कोचो विफल इति चेन्न । त्वन्मते शत्रादिभिस्तिडां समावेशसिद्धये विभाषाग्रहणं व्यर्थं स्यात्, क्वसुना तिङाञ्च नित्यं बाधश्च न स्यादित्याशयेन तथासङ्कोचस्याङ्गीकारात् । तदेतत् 'यदि तु' इत्यादिनाऽग्रे स्फुटम् ॥ ७० ॥ सम्भेदेनेति । अभेदेन पूर्वस्य परस्य च परस्परमभेदान्वयेनेति यावत् । अन्यतर- वैय्यर्थ्यादिति । अन्यतरस्य = षष्ठ्यर्थस्य वैय्यर्थ्यादित्यर्थः ॥ ७१ ॥ ॥ इति श्रीवैयाकरणप्रवर 'गणपतिशास्त्रिमोकाटे' कृत-तत्त्वप्रकाशिकाभिधे 'भूति'-व्याख्याने बाधबीजनामकं द्वितीयं प्रकरणम् ॥ २ ॥