परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 281, कुल 373 में से
संदर्भ में पढ़ें६५ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २५१ इत्युक्तम्, तत्तु तत उत्सर्ग इत्याद्यक्षरार्थाननुगुणम् । यत्तु अपवादवाक्यार्थं विना नोत्सर्गवाक्यार्थ इति तदर्थ इति । तन्न ; अभिनिविशतेऽपवादविषयमित्यादिपदस्वारस्यभङ्गापत्तेः , पदजन्यपदार्थोप- स्थितौ वाक्यार्थबोधाभावे कारणाभावाच्च । यत्र त्वपवादो निषिद्धस्तत्रा- पवादविषयेऽप्युत्सर्गः प्रवर्तत एव । यथा ‘वृक्षावि’त्यत्र ‘नादिची’ति पूर्व- सवर्णदीर्घनिषेधादप्रवर्तमानस्य वृद्धिबाधकत्वाभावाद् वृद्धिः प्रवर्तते । अत एव ‘तौ सदि’त्यादि सङ्गच्छते । अत एव निर्देशाद् भ्रष्टावसरन्यायस्यात्र शास्त्रेऽनाश्रयणम् । ध्वनितं चेदम् ‘इको गुणे’ति सूत्रे भाष्य इति भाष्य- प्रदीपोद्द्योते निरूपितम् । अत्र देवदत्तस्य हन्तरि हते देवदत्तस्योन्मज्जनं नेति न्यायस्य विषय एव नास्ति । हते देवदत्त उन्मज्जनं न देवदत्तहननोद्यतस्य, हनने तु भवत्येवोन्मज्जनम् । प्रकृतेऽपि न पूर्वसवर्णदीर्घेण वृद्धेर्हननम्, किन्तु हननो- द्यमसजातीयं प्रसक्तिमात्रं प्रसक्तस्यैव निषेधात् । प्रतिपदोक्तत्वमपि निरवकाशत्वे सत्येव बाधप्रयोजकम् । स्पष्टं चेदं ‘शेषाद्विभाषे’ति सूत्रे भाष्ये । तत्र हि ‘शेषग्रहणमनर्थकं ये प्रतिपदं विधी- यन्ते ते बाधका भविष्यन्ती’त्याशङ्क्य, ‘अनवकाशा हि विधयो बाधका भवन्ति, समासान्ताश्च कबभावे सावकाशा’ इत्युक्तम् । क्वचिदनवकाशत्वा- भावेऽपि परनित्यादिसमवधाने शीघ्रोपस्थितिकत्वेन पूर्वप्रवृत्तिप्रयोजकं बल- वत्त्वं प्रतिपदविधित्वेनापि, परनित्यान्तरङ्गप्रतिपदविधयो विरोधिसन्नि- पाते तेषां मिथः प्रसङ्गे परबलीयस्त्वमिति ‘प्रत्ययोत्तरपदयोश्चे’ति सूत्रे इत्युक्तमिति । ‘प्रकल्प्ये’त्यस्य सिद्धं कृत्वेत्यर्थस्य लोके प्रसिद्धत्वेनौचित्यमिति भावः । अननुगुणमिति । तत इत्यस्य अनन्तरार्थकत्वेन तस्य ल्यपैवोक्तत्वेन अनुगुण्या- भावः स्पष्ट एवेति भावः । अनाश्रयणमिति । वस्तुतस्तु—अत्रावसरस्य उद्देश्यतावच्छेदकाक्रान्तेः सत्त्वेन न्यायस्य विषय एव नेति वक्तुंयुक्तम् । प्रतिपदोक्तत्वस्यापवादत्वात् पृथग्बाधबीजत्वमङ्गीकुर्वतां कैयटादीनां मतं खण्डयितुमाह—प्रतिपदोक्तत्वमपीति । बाधप्रयोजकमिति । एवञ्च ‘येन नाप्राप्ति’ न्यायमूल- कत्वमेवैतस्येति बोध्यम् । इदं च ‘छदिरुपधिवलेर्ढञ्’ति सूत्रे मनोरमायां भाष्ये च स्पष्टम् । इत्युक्तमिति । न च निरवकाशत्वमूलकप्रतिपदोक्तत्वेन बाधकत्वासम्भवेऽपि पूर्वोपस्थितनिमित्तकत्वमूलकप्रतिपदोक्तत्वेन बाधः स्यादेवेति शेषग्रहणमनर्थकमिति