परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 286, कुल 373 में से
संदर्भ में पढ़ें२५६ परिभाषेन्दुशेखरः [ २ प्रकरणे-
यङ्लुकोरि'ति सूत्रस्थ-'बोभूयते' इत्युदाहरणसिद्धिरिति भावः । अत्र केचित्—अभ्यासविकारे बाध्यबाधकभावाभावेन तयोर्यथायथं समावेशः, तेन 'बोभूयते' इत्यत्र ह्रस्वप्रवृत्त्युत्तरं गुणप्रवृत्त्येष्टसिद्धिः । 'विव्यथे' इत्यत्र सम्प्रसारणोत्तरं हलादिःशेषसिद्धिः । न च 'बोभूयत' इत्यत्र गुणोत्तरं ह्रस्वापत्तिरिति वाच्यम् ; बाधकशास्त्रप्रवृत्तिनैष्फल्यासम्पादकस्यैव समावेशस्य स्वीकारेणात्र बाधकगुणशास्त्र- प्रवृत्त्युत्तरं ह्रस्वप्रवृत्तौ गुणशास्त्रप्रवृत्तेर्नैष्फल्येन तादृशसमावेशाप्रसक्तेरिति वदन्ति । अन्ये तु—अनया परिभाषया बाध्यानामेव पूर्वं प्रवृत्तिरिति बोध्यते । तथा च 'बोभूयत' इत्यत्र बाध्यह्रस्वप्रवृत्त्युत्तरं बाधकगुणप्रवृत्त्येष्टसिद्धिः । न चैवं 'विव्यथे' इत्यादौ हलादिःशेषोत्तरं वकारस्य सम्प्रसारणापत्तिरिति वाच्यम् ; 'न सम्प्रसारणे' इति सूत्रेण औपदेशिकयणवधिकपूर्वत्वाभाववत एव यणः सम्प्रसारणस्य बाधनात् 'विव्यथे' इत्यादौ 'व्यथो लिटि'त्यादिसूत्रारम्भसामर्थ्येन तत्परिभाषाया अत्राप्रवृत्ति- कल्पनेनादोषात् । एतन्मूलकमेव कौमुद्याम् 'अन्त्यस्य यणः पूर्वं सम्प्रसारणमि'त्युक्तम् । 'लिट्यभ्यासस्योभयेषामि'ति सूत्रे उभयेषां ग्रहणेन सम्प्रसारणस्य सर्वतो बलवत्त्व- बोधनेन अदोषाच्च । अन्ये तु—अभ्यासविकाराणां परस्परविरोधविरहपूर्वकः समावेश इति प्रकृतपरिभाषया प्रतिपाद्यते, तेन सति सम्भवे यौगपद्येनैव तेषां प्रवृत्तिः, यथा 'यंयम्यत' इत्यादौ नुगागम-हलादिःशेषयोः । यत्र तु बाध्यप्रवृत्त्युत्तरं बाधकप्रवृत्त्या तत्समावेशस्तत्र बाध्यप्रवृत्त्युत्तरमेव बाधकप्रवृत्तिः, यथा 'अजीगणदि'त्यत्र हलादिः-
गुणोत्तरं ह्रस्वापत्तिरिति । एवम् 'अनूनवत्' इत्यत्र दीर्घोत्तरं ह्रस्वापत्तिर्बोध्या । नैष्फल्यासम्पादकस्यैवेति । चिन्त्यमिदम्, मानाभावात् । न च 'गुणो यङ्लुकोः', 'दीर्घो लघोः' इत्यनयोश्च वैयर्थ्यापत्तिरेव मानमिति वाच्यम् ; 'डोडोक्यते, तोत्रीक्यते' इत्यादौ पूर्वमभ्यासे इगभावेन पूर्वं गुणाप्राप्त्या ह्रस्वोत्तरं विधानेनाऽऽद्यस्य, एवम् 'अनीनयत्' इत्यत्र दीर्घान्ते तदप्राप्त्या पूर्वं ह्रस्वे ततो दीर्घविधानेन 'दीर्घो लघोः', इत्यस्य चारितार्थ्याच्च तथा कल्पयितु- मशक्यत्वादित्यरुचेरेवाह—अन्ये त्विति । सम्प्रसारणस्य बाधनादिति । चिन्त्यमिदम् ; युवन्शब्दादेरुपदेशाभावात्, 'उद्दे- शश्च प्रातिपदिकानां नोपदेशः' इति भाष्यात् । हलादिःशेषोत्तरमौपदेशिकयणवधिकपूर्वत्वा- भाववतो वकारस्य सम्प्रसारणविधानेन 'व्यथो लिटि' इत्यस्य चारितार्थ्येन परिभाषाबाधे माना- भावाच्चेत्यरुचेराह— उभयेषां ग्रहणेनेति । नन्वेवं परिभाषाऽप्रवृत्त्या सम्प्रसारणेन तद्बाध- स्तक्रन्यायेनैव वाच्यः, तथा सति बाधमहिम्ना सम्प्रसारणप्रवृत्त्युत्तरं हलादिःशेषप्रवृत्तिर्न स्यादिति चेन्न । प्रतिलक्ष्यं लक्षणोपप्लवेन यकारनिवर्तकाद्भिन्नस्य थकारनिवर्तकहलादिःशेषस्य तेन बाधा- भावात्, 'व्यथो लिटि' इत्यत्र यकारं प्रश्लिष्य व्यथो यकारस्य सम्प्रसारणमित्यर्थेन निरवकाश- मूलकबाधेन बाधकप्रवृत्त्युत्तरमुत्सर्गशास्त्रप्रवृत्त्या दोषाभावाच्च । बलवत्त्वबोधनेन अदोषाच्चेति । आहुरिति शेषः । इत उत्तरं 'अन्ये तु' इत्यतः