परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 285, कुल 373 में से
संदर्भ में पढ़ें६७ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २५५ इयं परान्तरङ्गादिबाधकानामप्यबाधकत्वबोधिका, तेन 'अचीकरत्, मीमांसत' इत्यादि सिद्धम् । आद्ये सन्वद्भावस्य परत्वादीर्घेण बाधः प्राप्नोति । अन्त्ये मान्बधेति दीर्घेण अन्तरङ्गत्वद्वित्वस्य बाधः प्राप्तः । यत्तु यत्रैकैकप्रवृत्त्युत्तरमपि सर्वेषां प्रवृत्तिस्तत्रैवेदमित्यत 'एके' ति सूत्रे कैयटः । तन्न; नुकि कृते दीर्घाप्राप्त्या धर्मिग्राहकमानविरोधात् मान्बधा- दीनां दीर्घे कृते इत्त्वाप्राप्त्या 'गुणो यङ्लुकोरि'ति सूत्रस्थभाष्योक्ततदुदा- हरणासङ्गतेश्चेत्यन्यत्र विस्तरः ॥ ६७ ॥ दीर्घवारणाय अकिद्ग्रहणचारितार्थमित्युच्यते, तर्हि पदलाघवानुरोधेन दीर्घोऽनुक इत्येव सिद्धे अकिद्ग्रहणमेतज्ज्ञापकमिति सन्तुष्यतु भवान् । नीगादीनां तु तक्रन्यायेनैव दीर्घ- बाधकत्वस्य निर्विवादतया तत्र अकिद्ग्रहणव्यावर्त्यालाभात् । न च 'चाच्छायत' इत्यत्र अन्तरङ्गत्वान्नकि दीर्घव्यावृत्तयेऽकिद्ग्रहणं चरितार्थमिति वाच्यम् ; 'दीर्घोऽकित' इत्यत्र नुवर्तमानाभ्यासपदस्याऽऽवृत्त्या अभ्यासत्वावच्छिन्नोद्देश्यताककिद्घटितभिन्नस्ये- त्यर्थेनात्र तुकस्तथात्वाभावेन अस्य अकिद्ग्रहणव्यावर्त्यत्वासम्भवेन तद्वैयर्थ्यस्य सूप- पादत्वात् । अत एव जहातेर्यङि तस्य व्यपदेशिवद्भावेन किद्घटित्वेऽपि दीर्घसिद्धिः । ज्ञापिते त्वस्मिन्वचने नुगादेरबाधकत्वेन दीर्घस्य व्यावृत्तये तस्य स्वांशे चारितार्थ्यम् । न चानया पूर्वं नुकोऽप्रवृत्तौ अकिद्ग्रहणेऽप्यभ्यासस्य किद्घटितभिन्नत्वेन पूर्वं दीर्घो दुर्वार इति वाच्यम् ; अकित इत्यस्य किदुद्देश्यघटितभिन्नस्येत्यर्थेन नुगादेः पूर्व- मनन्तरं वा तद्घटितत्वेन उक्तातिप्रसङ्गासम्भवात् । दीर्घाप्राप्त्येति । ननु यत्रैकैकप्रवृत्त्युत्तरमपरेषां प्रवृत्तियोग्यता तत्रैवैतत्परिभाषा- प्रवृत्तिरिति कैयटाशयात् 'यंयम्यते' इत्यादौ नुगादिप्रवृत्त्युत्तरमपि अभ्यासविकारे वैयधिकरण्येनान्वयात् 'दीर्घोऽकित' इति शास्त्रस्य अकित इति निषेधेनाप्रवृत्तावपि तत्प्रवृत्तियोग्यताया अव्याघातात्कथं धर्मिग्राहकमानविरोध इत्यत आह— मान्बधेति । दीर्घे कृते इत्त्वाप्राप्त्येति । नन्वत्रापि अभ्यासपदेशांशेऽाद्यत्वं कृत्वाऽभ्यास- स्थानिकादेशस्येत्यर्थंकरणेन पूर्वमित्त्वे दीर्घे च 'मीमांसत' इत्यादीनां सिद्धिरिति नेदं दूषणमित्यरुचेराह-चेति । तेन 'बोभूयते' इत्यस्य सङ्ग्रहः । तथा च 'गुणो शास्त्रस्य तक्रन्यायेन दीर्घबाधकत्वमूलकम्, तेन न्यायेन बाधश्च तपरकरणस्य वैयर्थ्येन औप- देशिकदीर्घमात्रव्यावर्तकत्वमूलकः, तपरवैयर्थ्यञ्च सर्वत्र ह्रस्वप्रवृत्तिमूलकम्, तत्प्रवृत्तिश्च परि- भाषाधीना, परिभाषा च अकिद्ग्रहणपरतन्त्रेति चक्रकापत्तिरिति भावः । मूले-एकेतीति । उत्सर्गस्यापवादस्य चेत्यर्थः । यथा 'नर्तति' इत्यादौ उरदत्वे रुगा- दयः, तेषु च तदिति भावः । मूले-तदुदाहरणेति । 'मीमांसत' इति तदुदाहरणेत्यर्थः ।