भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 290, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 290

२६० परिभाषेन्दुशेखरः [ २ प्रकरणे- उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् ॥ ७१ ॥ -: ❀ :- अचीति सप्तमीनिर्देशस्य ‘मय उञ्’ इत्युत्तरत्र चारितार्थ्यात् पञ्चमी- निर्देशोऽनवकाश इति ‘तस्मादित्युत्तरस्ये’त्यस्यैव प्रवृत्तिः । यत्र तु ‘ङः सि धुडि’त्यादौ उभयोरप्यचारितार्थ्यं तत्र तस्मिन्निति सूत्रापेक्षया ‘तस्मा- दित्युत्तरस्ये’त्यस्य परत्वात्तेनैव व्यवस्था । एवमुभयोश्चारितार्थ्येऽपि ; यथा ‘आमि सर्वनाम्न’ इत्यादौ । तत्रा आमीति सप्तमी ‘त्रेस्त्रय’ इत्यत्र चरि- तार्था । आदिति पञ्चम्यात् ‘जसेरसुगि’त्यत्र चरितार्थेति स्पष्टं तस्मि- न्निति सूत्रे भाष्ये कैयटे च ॥ ७१ ॥ ॥ इति बाधबीजनामकं द्वितीयं प्रकरणम् ॥ विशेष्यत्वविवक्षायां पञ्चमीपरिभाषोपस्थितस्य परस्येत्यस्य विशेषणत्वेन विशेषण- विभक्तेर्निरर्थकत्वाच्च तदुपस्थितपरत्वांशस्य श्रुतानुमितपरिभाषया अच्पदार्थेनान्वयाद् ङमः परो योऽच् तदव्यवहितपूर्वस्येत्यर्थेऽपि परतो ङमो ङमुट् प्राप्नोति । पञ्चमी- परिभाषोपस्थितस्य विशेष्यत्वे सप्तमीपरिभाषोपस्थितस्य विशेषणत्वे च पूर्वरीत्या तस्य ङम्पदार्थेऽन्वयेन अजव्यवहितपूर्वङम उत्तरस्येत्यर्थेन ङम उत्तरस्याचो ङमुट् प्राप्नोतीति सन्देहस्य सूपपादत्वात् । न च द्वयोरपि परिभाषयोः षष्ठ्यर्थोपस्थाप- कत्वे फलाभावः, ‘उदःस्था०’, ‘इको यणची’त्यादौ स्वविषये षष्ठ्याः सत्त्वादिति वाच्यम् ; ‘पदन्न’ इत्यादौ षष्ठ्यभावेन पादादीनां स्थाने आदेशसिद्ध्यर्थं तदुपस्था- पकत्वावश्यकत्वात् । बलीयानिति । तथा च प्रकृते ‘तस्मादि’ति परिभाषाया एवांशत्रयोपस्थापक- त्वेन अचो ङमुट्सिद्धिः । बलीयस्त्वे हेतुमाह—अनवकाश इति । एवं चेदं वचनं न्यायसिद्धमिति भावः, तेन यत्र सप्तमीनिर्देशस्यैवानवकाशत्वं तत्र सप्तमीनिर्देश एव बलीयान् । अत एव ‘शितुगि’त्यत्र शे परे इत्यर्थलाभः । एतेन ‘उभयनिर्देशे पञ्चमीनिर्देशो बलवानि’ति बलवत्त्वे परत्वादित्येव हेतुरिति वदन्तः परास्ताः । परत्वादिति । विप्रतिषेधाभावेन विप्रतिषेध इति सूत्रविषयाभावेऽपि ‘अणुरपि विशेष’ इति न्यायेन ‘तस्मादि’ति सूत्रस्यै- वात्र प्रवृत्तिसिद्धिः ॥ ७१ ॥ ॥ इति भूतितिलके बाधबीजनामकं द्वितीयं प्रकरणम् ॥