परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 291, कुल 373 में से
संदर्भ में पढ़ें३प्रकरणे, ७२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २६१ अथ शास्त्रशेषनामकं तृतीयं प्रकरणम् -: ❖ :- ननु ‘अतः कृकमी’ति सत्वम् ‘अयस्कुम्भी’त्यत्र न स्यात् कुम्भशब्द- स्यैवोपादानात्; अत आह— प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् ॥ ७२ ॥ -: ❖ :- सामान्यरूपेण विशेषरूपेण वा प्रातिपदिकबोधकशब्दग्रहणे सति लिङ्गबोधकप्रत्ययविशिष्टस्यापि तेन ग्रहणं बोध्यम् । अपिना केवलस्या- पीत्यर्थः । अस्याश्च ज्ञापकं समानाधिकरणाधिकारस्थे ‘कुमारः श्रमणादिभि’- रिति सूत्रे स्त्रीलिङ्गश्रमणादिशब्दपाठः । स्त्रीप्रत्ययविशिष्टश्रमणादिभिश्च कुमारीशब्दस्यैव सामानाधिकरण्यं न तु कुमारशब्दस्येति तदेतज्ज्ञापकम् । अथ भूतितिलके तृतीयं प्रकरणम् -: ❖ :- कुम्भशब्दस्यैवोपादानादिति । न च ‘एकदेशविकृत’न्यायेन ‘कुम्भी’त्यत्र तत्त्वमिति वाच्यम् ; तस्याक्तपरिमाणत्वेन परिभाषाया अप्रवृत्तेः, एकदेशविकृतत्वाभावाच्च । . कुम्भान्ते कुम्भादावुत्तरपदे इत्यर्थोऽपि नात्र, उत्तरपदाधिकारे प्रातिपदिकग्रहण इति निषेधात् , कुम्भशब्दस्य वर्णत्व-धातुत्वव्याप्यधर्मावच्छिन्नबोधकत्वाभावेन तदादिविध्य- प्रसक्तेश्च । अत एव ‘अयःकुम्भजलम्’त्यादौ सत्वं न । सामान्यरूपेणेति । प्रातिपदिकत्वेनेत्यर्थः । विशेषरूपेणेति । प्रातिपदिकत्वव्याप्य- कुम्भशब्दत्वादिनेत्यर्थः । ज्ञापकमिति । ननु कुमारशब्दत्वस्य ‘कुमारक्रीडायाम्’त्यत्र धातावपि सत्त्वात् प्रातिपदिकत्वव्याप्यत्वाभावेन कथं परिभाषाप्रवृत्तिः । यदि च प्रातिपदिकत्वव्याप्ये- त्यस्य प्रातिपदिकमात्रवृत्तिविषयताप्रयोजक-पदप्रतिपाद्यतावच्छेदकधर्मेत्यर्थः, ‘कुमार- श्रमणादिभिर्’त्यत्रत्य-कुमारशब्दस्य प्रातिपदिकमात्रवृत्तिविषयताप्रयोजकत्वेन तत्प्रति- पाद्यतावच्छेदककुमारशब्दत्वस्यातिदेशसम्भव इत्युच्यते; तदा ‘अत इनी’त्यादौ अच्छब्द- अथ तत्त्वप्रकाशिकायां शास्त्रशेषनामकं तृतीयं प्रकरणम् -: ❖ :- कुम्भशब्दस्यैवोपादानादितीति । समासाक्षिप्तोत्तरपदत्वेन इति शेषः । एतेन यस्येति लोपोत्तरम् ‘एकदेशविकृत’न्यायेन कुम्भशब्दत्वात् सत्वं स्यादिति शङ्काऽपि निरस्ता वेदितव्या । प्रातिपदिकत्वेनेत्यर्थ इति । अत एव ‘ङ्याप् प्रातिपदिकात्’ इति सूत्रे प्रातिपदिक- ग्रहणेनैव सिद्धे ङ्याब्ग्रहणेन ङ्याबन्तात् तद्धितोत्पत्तिर्ज्ञापिता भाष्ये । विशेषरूपेणेतीति । धर्मिग्राहकमानादिति भावः ।