परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 292, कुल 373 में से
संदर्भ में पढ़ेंइयञ्च द्विषत्परयोरित्याद्युपपदविधौ समासान्तविधौ महदात्त्वे ञ्नित्- स्यापि प्रातिपदिकमात्रवृत्तिविषयताप्रयोजकत्वेन तत्प्रतिपाद्यतावच्छेदकादन्तत्वस्य स्त्री- प्रत्ययान्तेऽतिदेशापत्त्या 'रमा, गौरी'त्यादावपि इनिप्रत्ययापत्तेरिति चेन्न । प्रातिपदिक- मात्रवृत्तिविषयताप्रयोजकेत्यनेन प्रातिपदिकवृत्तिविषयताप्रयोजकं प्रातिपदिकेतरवृत्ति- विषयताप्रयोजकत्वाभाववच्च यत्तस्य ग्रहणम् । तत्राभावश्च सामानाधिकरण्यसम्बन्धेन पदार्थान्तरान्वयप्रयोज्यो गृह्यते । 'अत इनि'त्यत्र अत्पदस्य प्रातिपदिकपदार्थेन सह सामानाधिकरण्येनान्वयादेव प्रातिपदिकेतरवृत्तिविषयताप्रयोजकत्वाभाववत्त्वेन प्राति- पदिकमात्रवृत्तिविषयताप्रयोजकत्वाभावात् तत्प्रतिपाद्यतावच्छेदकाऽदन्तत्वस्यातिदेशा- सम्भवात् । 'कुमारश्रमणे'त्यत्र सुप्पदसम्बन्धात् कुमारधातुप्रकृतिक-सुपोऽसम्भवादेव कुमारपदस्य प्रातिपदिकेतरवृत्तिविषयताऽप्रयोजकत्वं न तु सामानाधिकरण्यसम्बन्धेन पदार्थान्तरान्वयप्रयोज्यम्, अतः कुमारपदस्य प्रातिपदिकमात्रवृत्तिविषयताप्रयोजकत्वेन ज्ञापकत्वस्य निष्प्रत्यूहत्वात् । केचित्तु - 'युवाखलती'ति सूत्रे जरतीति स्त्रीलिङ्गनिर्देशोऽस्या ज्ञापकः ; अन्यथा युवशब्देन जरतीशब्दस्य सामानाधिकरण्यासम्भवात् तदसङ्गतिः स्यादिति वदन्ति । द्विषत्परयोरिति । 'द्विषतीताप' इत्यत्र न खश् । समासान्तविधाविति । 'मद्रराज्ञी'- त्यत्र न टच् । महदात्त्व इति । 'महतीप्रिय' इत्यत्र नाऽऽत्त्वम् । ञ्नित्स्वर इति । 'औत्सी'त्यत्र नाऽऽद्युदात्तः । राजस्वरे ब्राह्मणकुमारयोरिति । 'राजकुमारी, राज- विषयताप्रयोजकेति । विषयताऽत्र शाब्दबोधीया ग्राह्या, न तु उपस्थितीया, तस्याः सङ्कुचिताया असम्भवात् । निष्प्रत्यूहत्वादिति । नन्वेवं 'ञ्नित्यादिर्नित्यम्'ति सूत्रस्थभाष्यविरोधः, तत्र हि प्रकृतपरिभाषया लिङ्गबोधकप्रत्ययविशिष्टस्यापि प्राप्तग्रहणवारणाय अस्या अनित्यत्वमभ्युपेयते तन्न सङ्गच्छेत ; भवद्रीत्या प्रातिपदिकग्रहणाभावेन तत्प्राप्तेरभावात्, सामानाधिकरण्येनान्वयादेव प्रातिपदिकेतरवृत्तिविषयताप्रयोजकत्वाभाववत्त्वादिति चेत् - सत्यम् । 'प्रातिपदिकमात्रवृत्ति- विषयताप्रयोजके'त्यादेः प्रातिपदिकविशिष्टधर्मावच्छिन्नविषयताप्रयोजक-पदप्रतिपाद्यतावच्छेदक- धर्म इत्यर्थकरणेनादोषात् । वैशिष्ट्यञ्च - स्ववृत्तित्व-स्वेतरीभूतधात्वितरावृत्तित्वैतदुभयसम्बन्धेन । अदन्तत्वस्य प्रातिपदिकेतरधात्वितरः प्रत्ययादिः, तद्वृत्तित्वमेवेति न दोषः । न टजिति । न चात्र टचि कृते यस्येति लोपेन ङीपो निवृत्तौ तच्छिष्टत्वेन तदन्तात् ङीपि यस्येति लोपेन टचो निवृत्तौ रूपसिद्धिर्भवत्येवेति वाच्यम् ; टजुत्तरं 'भस्याढ' इति पुंवद्भावेन 'नस्तद्धिते' इति टिलोपे टजन्तात् ङीपि 'मद्रराजी' इत्यस्यैवापत्तेः । नाऽऽत्त्वमिति । तस्मिन् सति प्रियादिपरत्वेन पुंवद्भावाप्राप्त्या 'महतीप्रियः' इति स्यात् । 'ञ्नित्स्वरे प्राचामवृद्धात्' इति फिञन्तल्लुचुकायनिशब्दात् 'इतो मनुष्यजातेः' इति ङीषि ग्लुचुकायनीशब्दे नाऽऽद्युदात्तः ।