भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 293, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 293

स्वरे राजस्वरे ब्राह्मणकुमारयोः बहोर्नञ्वदुत्तरपदभूम्नि इत्यादौ समास- सङ्घातग्रहणेषु च न प्रवर्तत इति 'ङ्याप्'सूत्रे भाष्ये स्पष्टम् । विभक्ति- निमित्तककार्ये च नेत्यपि तत्रैव । तत्र समासान्तविधौ अवयवग्रहणं एव न ; समाससङ्घातग्रहणे तु प्रवर्तत एव, स्वरविधावेव समाससङ्घातग्रहणे तत्र ब्राह्मणी'त्यत्र पूर्वपदप्रकृतिस्वरो न । बहोर्नञ्वदुत्तरपदभूम्नीति । 'बहवो गोमन्तोऽस्यां सा बहुगोमती'त्यत्र नञ्वत्स्वरोऽन्तोदात्तो न । समाससङ्घातग्रहणेष्विति । इदं पूर्वान्वयि न तु पृथक् , तेन अवयवीभूतपूर्वोत्तरग्रहणे राजस्वरव्यतिरिक्ते तु एतत्परिभाषा- प्रवृत्तिरिष्टैव । तेन 'कुसूलकूपकुम्भशालं बिल' इत्यनेन बिलशब्दे परतो विधीयमानं कुसूलादीनां प्रकृतिस्वरत्वं यथा 'कुसूलबिलम्'त्यत्र भवति तथा 'कुसूलीबिलम्'- त्यत्रापि भवति ।

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक) · पृष्ठ 293, कुल 373 में से · BharatKosha