परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
DevanagariHindipublished373 पृष्ठ
पृष्ठ 294, कुल 373 में से
संदर्भ में पढ़ेंपृष्ठ 294
२६४ परिभाषेन्दुशेखरः [ ३ प्रकरणे- दोषोक्तेः, 'बहुव्रीहेरूधस' इति सूत्रस्थभाष्याच्च । एतावत्स्वेव अनित्यत्वात्प्रवृत्तिदोषाः खल्वपि साकल्येन परिगणिता इति भाष्योक्तेः । नन्वेवं 'बहुव्रीहेरूधसो ङीषि'ति सूत्रस्थभाष्यासङ्गतिः, तत्र हि 'कुण्डो- ध्नी'त्यत्र 'नद्यृतश्चे'ति कबापादितो नद्यन्तबहुव्रीहेरित्यर्थात् नद्यन्तस्य बहु- व्रीहित्वाभावात्तदसङ्गतिः, नद्यन्तानां यः समास इत्यर्थेन च परिहृतम्। नद्यन्त- प्रकृतिकसुबन्तोत्तरपदकः समास इति चेत्-न; अनया परिभाषया स्त्रीप्रत्यय- समभिव्याहारे तद्रहिते दृष्टानां प्रातिपदिकत्व-तद्व्याप्यधर्माणां विशिष्टेऽपि यस्ये'त्यत्र भ्रातृशब्दान्तबहुव्रीहित्वातिदेशेन 'वन्दिते भ्रातुरि'ति कब्निषेधसिद्ध्या '