परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
स्वरे राजस्वरे ब्राह्मणकुमारयोः बहोर्नञ्वदुत्तरपदभूम्नि इत्यादौ समास- सङ्घातग्रहणेषु च न प्रवर्तत इति 'ङ्याप्'सूत्रे भाष्ये स्पष्टम् । विभक्ति- निमित्तककार्ये च नेत्यपि तत्रैव । तत्र समासान्तविधौ अवयवग्रहणं एव न ; समाससङ्घातग्रहणे तु प्रवर्तत एव, स्वरविधावेव समाससङ्घातग्रहणे तत्र ब्राह्मणी'त्यत्र पूर्वपदप्रकृतिस्वरो न । बहोर्नञ्वदुत्तरपदभूम्नीति । 'बहवो गोमन्तोऽस्यां सा बहुगोमती'त्यत्र नञ्वत्स्वरोऽन्तोदात्तो न । समाससङ्घातग्रहणेष्विति । इदं पूर्वान्वयि न तु पृथक् , तेन अवयवीभूतपूर्वोत्तरग्रहणे राजस्वरव्यतिरिक्ते तु एतत्परिभाषा- प्रवृत्तिरिष्टैव । तेन 'कुसूलकूपकुम्भशालं बिल' इत्यनेन बिलशब्दे परतो विधीयमानं कुसूलादीनां प्रकृतिस्वरत्वं यथा 'कुसूलबिलम्'त्यत्र भवति तथा 'कुसूलीबिलम्'- त्यत्रापि भवति ।
२६४ परिभाषेन्दुशेखरः [ ३ प्रकरणे- दोषोक्तेः, 'बहुव्रीहेरूधस' इति सूत्रस्थभाष्याच्च । एतावत्स्वेव अनित्यत्वात्प्रवृत्तिदोषाः खल्वपि साकल्येन परिगणिता इति भाष्योक्तेः । नन्वेवं 'बहुव्रीहेरूधसो ङीषि'ति सूत्रस्थभाष्यासङ्गतिः, तत्र हि 'कुण्डो- ध्नी'त्यत्र 'नद्यृतश्चे'ति कबापादितो नद्यन्तबहुव्रीहेरित्यर्थात् नद्यन्तस्य बहु- व्रीहित्वाभावात्तदसङ्गतिः, नद्यन्तानां यः समास इत्यर्थेन च परिहृतम्। नद्यन्त- प्रकृतिकसुबन्तोत्तरपदकः समास इति चेत्-न; अनया परिभाषया स्त्रीप्रत्यय- समभिव्याहारे तद्रहिते दृष्टानां प्रातिपदिकत्व-तद्व्याप्यधर्माणां विशिष्टेऽपि यस्ये'त्यत्र भ्रातृशब्दान्तबहुव्रीहित्वातिदेशेन 'वन्दिते भ्रातुरि'ति कब्निषेधसिद्ध्या '
७२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २६५ पर्याप्तत्वमतिदिश्यत इत्याशयात् ॥ ७२ ॥ स्वविशिष्टवर्त्तिनः प्रातिपदिकमात्रवृत्ति-विषयताप्रयोजक-पदप्रतिपाद्यतावच्छेदकधर्मस्य अनयाऽतिदेश इत्याशयः । उभयत्र वैशिष्ट्यञ्च—स्वाव्यवहितपूर्वत्व-स्वनिष्ठविधेयता- निरूपितोद्देश्यताश्रयघटकत्वोभयसम्बन्धेनेति एकरूपमेव, तेन 'अयस्कर्णी'त्यत्र 'पाक- कर्णे'ति सूत्रेण अयस्कर्णशब्दात्ङीष्यपि कर्णशब्दस्य ङीब्विशिष्टत्वेन तद्वृत्त्यर्थवत्त्वस्य कर्णीशब्दे स्वविशिष्टेऽतिदेशेन 'अतः कृकमी'ति सत्वसिद्धिः । अत एव 'दर्शनीय- मानिनी'त्यादौ 'क्यङ्मानिनोश्चे'ति पुंवद्भाव एतस्या प्रयोजनमित्युक्तं भाष्ये । अन्यथाऽत्र 'गतिकारके'ति परिभाषया ङीबुत्पत्तेः प्राक् समासे दर्शनीयामानिन्- शब्दात्ङीपि मानिनीशब्दस्य उत्तरपदत्वाभावात्तदसङ्गतिः स्यादिति बोध्यम् । 'यतो यो विहितस्तदादेरेव तेन ग्रहणम्' इति नियमे तु न मानमिति स्पष्टं 'स्वाङ्गाच्चेत' इत्यत्र शेखरे । न च विशेषरूपेण प्रातिपदिकग्रहणे परिभाषाप्रवृत्तेः पूर्वमुक्तत्वेन बहुव्रीहित्वस्यापि तद्विशेषरूपत्वाच्छङ्काया अनुत्थितिरिति वाच्यम् ; विशेषरूपपदेन प्रातिपदिकत्वव्याप्यस्य आनुपूर्वीरूपस्य कुम्भशब्दत्वादेरेव ज्ञापकसाजात्यात् ग्रहण- मित्याशयेन शङ्कायाः सुवचत्वात् । केचित्तु—'अतः कृकमी'त्यत्र 'विश्वदेवयोर्लोहितादिडाज्भ्य' इत्यादिषु 'कुम्भश्च कुम्भी चे'त्यादिविग्रहेण 'पुमान्स्त्रिये'त्येकशेषकल्पनात् कुम्भीदेवीलोहिन्यादि- शब्देष्वपि तत्तत्कार्यप्रवृत्त्येष्टसिद्धेः 'कुमारश्रमणादिभिरि'त्यत्र कृतपुंवत्क-कुमारी- शब्दस्यैव निर्देशेन तत्सामार्थक्यपत्तेर्विशेषरूपेण ग्रहणेऽस्याः प्रवृत्तौ न किञ्चित्फलम् । न च 'अतः कृकमी'त्यादौ कुम्भशब्दस्य शब्दपरतया 'पुमान् स्त्रिये'त्यस्याप्रवृत्तिः, अत एव 'शक्तिकाङ्गले'त्यत्र 'घटघटी'त्येकशेषाभावः सङ्गच्छत इति वाच्यम् ; प्रकृतिवदनुकरणमित्यतिदेशेन कुम्भोशब्दस्य स्त्रीवाचकत्वातिदेशेन 'पुमान् स्त्रिये', त्यस्य प्रवृत्तेः सुवचत्वात् । 'घटघटी'त्यादौ तु प्रकृतिवदनुकरणमित्यस्य अनित्यत्वा- न्नैकशेषः । एवं सामान्यग्रहणेऽपि नास्याः फलम् , रमा, गौरी'त्यादौ स्वाद्युत्पत्तिस्तु
इत्युक्त्यैव सामञ्जस्ये अव्यवहितपूर्वत्वस्य घटकत्वस्य च प्रवेशश्चिन्त्यः, फलाभावात्, गौरवाच्च । उभयत्र उद्देश्यताऽऽश्रयता च अपर्याप्त्याऽपि गृह्यते, 'स्वाङ्गाच्चेतः' इति सूत्रभाष्यादिति न दोषः । अर्थवत्त्वस्य कर्णीशब्द इति । न चात्र कर्णीशब्दस्य प्रातिपदिकग्रहणत्वाभावात् अस्या अप्रवृत्तिरेव स्यादिति वाच्यम् ; 'अयःकुम्भजलम्' इत्यत्र सत्ववारणाय समासेन उत्तर- पदे इत्यस्याऽऽक्षेपेण अदोषात् , तस्य प्रातिपदिकमात्रवृत्तिविषयताप्रयोजकत्वाच्च प्रातिपदिक- ग्रहणं सूपपादम् । एवञ्च कर्णवृत्त्युत्तरपदत्वं कर्णीशब्दे आरोप्यत इति तत्त्वम् । यत्तु—अर्थवत्त्वं न सुलभम्, कर्णीशब्दस्य अर्थवत्त्वासम्भवात् । तन्न ; 'कर्णस्य स्त्री, कर्णी' ( 'पुंयोगादाख्यायाम्' इति ङीष् ) इत्यर्थवतः कर्णीशब्दस्य सम्भवात् । मानिनीशब्दस्योत्तरपदत्वाभावादिति । वस्तुतस्तु—स्वैरिणीवत् ङीपः प्राग्भाग- मादाय नात्र दोषः । ३४
२६६ परिभाषेन्दुशेखरः [ ३ प्रकरणे- नन्वेवं 'यूनः पश्ये'त्यत्रेव 'युवतीः पश्ये'त्यत्रापि 'श्वयुवे'ति सम्प्रसा- रणं स्यादत आह— विभक्तौ लिङ्गविशिष्टाग्रहणम् ॥ ७३ ॥ —: ✤ :— स्पष्टा चेयं 'युवोरनाको' इत्यत्र भाष्ये । घटघटीग्रहणेन लिङ्गविशिष्ट- ङ्याब्ग्रहणादेव भविष्यति । ङ्याबन्तात् क्विबादेस्त्वनभिधानमेव । अत एव सूत्रकृन्मते 'प्राचां ष्फः तद्धिते' इत्यत्र तद्धितग्रहणं चरितार्थम् ; अन्यथा ष्फान्तस्य अनयैव प्रातिपदिकपदेन ग्रहणे सिद्धेस्तद्वैयर्थ्यापत्तिरिति वदन्ति ।। ७२ ।। युवतीः पश्येति । 'सुपथी'त्यादौ आत्वादेरुपलक्षणमिदम् । 'युवतीरि'त्यत्र तु अन्नन्तानां श्वादीनामित्यर्थकरणेन सम्प्रसारणव्यावृत्तेर्भाष्यकृतोक्तत्वात् । केचित्तु — सूत्रे श्वन्नादीनां तदन्तपरत्वेन अन एकदेशान्वयासम्भवादन इत्यस्य अन्नन्तश्वन्नाद्यन्ते लक्षणायां तात्पर्यग्राहकत्वेन अन्नन्तयुवन्शब्दत्वस्य तथात्वेन तदतिदेशे बाधकाभाव इति वदन्ति । विभक्ताविति । विषयसप्तमी, तेन विभक्त्युद्देश्यके तन्निमित्तके सर्वविध- विभक्तिसम्बन्धिनि कार्य इत्यर्थः । तेन 'शुन्ये'त्यादौ गौरादिङीषो यणि कृते उदात्त- यणो 'हल्पूर्वादि'ति विभक्त्युदात्तत्वस्याऽनया 'शुनी'त्यत्र श्वनशब्दत्वमादाय 'न गोश्वन्त्साववर्णे'ति न निषेधः, अस्य विभक्त्युद्देश्यकत्वेन तत्सम्बन्धित्वात् । एवं 'सख्यौ' इत्यत्र णिद्भावोऽपि नेति बोध्यम् । न च 'चित्रगवीणामि'त्यत्र 'कुमति चे'ति णत्वानापत्तिः, विभक्त्युद्देश्यककार्यत्वेन अनया निषेधेन ङ्यन्ते समासत्वानतिदेशात्, 'कुमतिचे'त्यस्य कवर्गवदुत्तरपदघटितसमासप्रकृतिकविभक्ति- नकारे एव प्रवृत्तेः । अत एव 'पूर्वं पापानां विपाक' इत्यत्र 'षष्ठ्या आक्रोश' इत्यलुकि वदन्तीति । न च 'अतिशयितो भ्राता यस्याः सा अतिभ्रात्री, अस्य अतिभ्रात्री आति- भ्रात्री' इति तत्पुरुषसमासे कृते ङीबन्तेऽनया बहुव्रीहित्वारोपेण परादिवद्भावेन च समुदाये आरोपात् 'नघृतश्च' इति कप्रवृत्तये इयमावश्यकीति वाच्यम्; प्रागुक्तरीत्या बहुव्रीह्यर्थालौकिक- विग्रहवाक्यत्वाभावेन सिद्धान्तेऽपि कपोऽप्राप्त्या तदर्थं तस्या अनावश्यकत्वादिति तात्पर्यम् ।।७२।। सर्वविधेति । यथाकथञ्चिदिति तदर्थः, साक्षात् पदत्वादिकारकपरम्परया वा इति यावत् । विभक्त्युद्देश्यककार्यत्वेनेति । साक्षात् परम्परया वा विभक्त्युद्देश्यककार्यत्वेन इति तदर्थः । शेखरकृन्मते तु साक्षादेव विभक्त्युद्देश्यके विभक्तिनिमित्तके वा कार्ये एव अस्याः प्रवृत्तिः, विभक्तेश्चाश्रयणं येन केनापि रूपेण भवतु । अत एव 'चित्रगवीणाम्' इत्यादौ णत्वं भवत्येव, लिङ्गविशिष्टपरिभाषया विभक्तिप्रकृतौ समासत्वात् । 'णत्वरहितपाठस्तु लेखकप्रमादात्' इति 'कुमति च' इति सूत्रस्थशेखरग्रन्थः, 'चित्रगवीणाम्' इति प्रतीकमुपादाय 'कुमति चे'ति नित्यं णत्वं न्याय्यम्' इति शब्दरत्नग्रन्थश्च सङ्गच्छते
[७३-७४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २६७ परिभाषाया अनित्यत्वात् तन्मूलेषा इत्यन्ये ॥ ७३ ॥ ननु 'तस्यापत्यम्' इत्येकवचन-नपुंसकाभ्यां निर्देशाद् 'गार्ग्यो गार्ग्यौ' इत्याद्ययुक्तमत आह— सूत्रे लिङ्गवचनमतन्त्रम् ॥ ७४ ॥ —: ✿ :— 'अर्धं नपुंसकम्'ति नपुंसकग्रहणमस्या ज्ञापकम् । नित्यनपुंसकत्वार्थं तु न तदित्यन्यत्र निरूपितम् । विभक्तिकारस्य णत्वं नेति वाच्यम् ; 'अट्कुप्वाङि'ति णत्वेनेष्टसिद्धेः । 'दीर्घाह्नो'- त्यत्र 'अहन्नि'ति रुत्वस्यापि पदत्वद्वारा विभक्तिनिमित्तकत्वेन विभक्तिसम्बन्धिकार्यत्वा- दनया अहन्शब्दत्वातिदेशासम्भवान्न रुत्वमिति दिक् ॥ ७३ ॥ अयुक्तमिति । न च द्वित्व-बहुत्वयोः पुंस्त्व-स्त्रीत्वयोश्चाविवक्षायामेकवचन- नपुंसकलिङ्गप्रयुक्तकार्यप्रवृत्तिः, अत एव स्तोकादिशब्देभ्यो नपुंसकैकवचनामादि- सिद्धिरिति न प्रकृतप्रयोगासङ्गतिरिति वाच्यम् ; समवायान्पक्षमत्स्यमृगानि- त्यादिप्रयोगोपलक्षणत्वेनैतस्य 'मृगं हन्ति मार्गिक' इत्यादिप्रयोगानुपपत्तिरित्या- शयेन अदोषात् । अतन्त्रमिति । असति यत्ने अविवक्षितमित्यर्थः । अत एव 'पदात्स्वैरी'त्यादौ नपुंसकनिर्देशेन सिद्धौ बाह्या इति स्त्रीलिङ्गनिर्देशो विवक्षार्थः, तेन पुंन्नपुंसकयोः क्यबभावसिद्धिः । न च तस्याविवक्षितत्वे 'मृगानि'त्यादौ नत्वाद्यनापत्तिः, 'तस्मा- च्छस' इत्यस्य पुंस्त्वे विवक्षिते इत्यर्थादिति वाच्यम् ; पक्षिमत्स्येत्यादिशब्दैः पुंस्त्वादेर्विवक्षितत्वेऽपि तद्धितवाच्यतावच्छेदककुक्षौ अविवक्षितमित्यर्थेन अदोषा- दित्यन्यत्र विस्तरः । नित्यनपुंसकत्वार्थं तु नेति । पूर्वापराधरोत्तरार्धमित्येकयोगेन सिद्धे पृथग्योगकरणे- नैव तत्सिद्ध्या नपुंसकग्रहणवैय्यर्थ्यस्य सूपपादत्वादिति भावः । अट्कुप्वाङिति णत्वेनेति । निमित्तानधिकरण-निमित्तिमत्पदाघटितत्वरूपाखण्डपदत्व- सत्त्वादिति भावः । विभक्तौ लिङ्गविशिष्टाग्रहणात् प्रातिपदिकान्तत्वस्याप्यप्राप्तेः । तत्रापि पूर्व- पदेना आक्षिप्तसमासरूपप्रातिपदिकप्रकृतिकविभक्तेरेव ग्रहणादिति भावः । 'माषं वपतीति या माषवापी' कर्मण्यण्, तदन्तात् ङीपि आम्विभक्तौ 'माषवापीनाम्' इत्यत्र शेखरकृन्मते विकल्पेन णत्वं भविष्यति, टीकाकृन्मते तु नित्यं णत्वमिति फलभेदश्चिन्तनीयः । न रुत्वमिति । अत्र शेखरकृन्मतेऽपि 'अह्न' इति वक्तव्ये 'अहन्' इति नान्तानु- करणसामर्थ्यात् नान्ताहन्शब्दस्यैव रुत्वविधानान्न दोषः ॥ ७३ ॥ तद्धितवाच्यतावच्छेदककुक्षौ अविवक्षितमिति । बुद्धिस्थत्ववदुपलक्षणम्, न तु विशेषणमिति भावः । तथा च आश्रयत्वसम्बन्धावच्छिन्न-बोधविषयतातावच्छेदकप्रकारतानिरू-
धान्यपलालन्यायेन नान्तरीयकतया तयोरुपादानमिति 'तस्यापत्यम्' इत्यत्र भाष्ये स्पष्टम् । वस्तुतस्तु—तन्न युक्तमित्यत्र प्रमाणमाह—अन्यत्रेति । 'एओङ्, ऐच्' इति सूत्रयोरर्धं एकारोऽर्धं ओकार इति भाष्ये समांशवाचिनाऽपि पुंस्त्वाभिधानेन नित्य- नपुंसकत्वस्याप्रामाणिकतया न तद्ग्रहणार्थं नपुंसकग्रहणमिति तत्रैव सूत्रे प्रति- पादितमित्यर्थः । केचित्तु—भाष्येऽर्धंशब्दः खण्डत्वेन वस्तुतः समांशवाचक इति न तद्विरोध इति प्राहुः । नान्तरीयकतयेति । नान्तरीयकत्वं चाविनाभावः । विनार्थकादन्तराशब्दात् गहादित्वाच्छप्रत्यये नञ्तत्पुरुषे भाष्यप्रयोगान्नलोपाभावे स्वार्थिके कन्प्रत्यये नान्तरीयक'शब्दः साधुरिति कैयटे स्पष्टम् । एतेन नान्तरीयकतया यस्य यस्यो- पादानं तस्य सर्वस्याविवक्षितत्वमिति सूचितम्, तेन 'तदधीते' इत्यादौ कालस्य, 'तत्करोति तदाचष्टे' इत्यादौ काल-कारकयोश्चैवमेवाऽविवक्षा सिद्धयतीति भावः । भाष्ये स्पष्टमिति । तत्र हि यथा कश्चिद्धान्यार्थी शालिकलापं सतुषं सपलालमाहरति नान्तरीयकत्वात्, स यावदादेयं तावदादाय तुषपलालान्युत्सृजति, तथा कश्चिन् मत्स्यार्थी मत्स्यान् सशल्कान् सकण्टकानाहरति नान्तरीयकत्वात्, स यावदादेयं पितविशेष्यताश्रयविशेषणानां येषां बोधविषयतायां धर्मपारतन्त्र्येण विशेषणत्वं तानि विशेषणानि इत्युच्यन्ते, येषां बोधविषयतासामानाधिकरण्यमात्रं तान्युपलक्षणान्युच्यन्ते । यथा तत्पदशक्तौ बुद्धिविषयतावच्छेदकत्वम् । एवञ्च “एकत्वविशिष्टनपुंसकत्वविशिष्टापत्यत्वावच्छिन्नम् अण्पदाद् [L2
७४-७५ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २६९ अत एव ‘आकडार’सूत्रे एकेति चरितार्थमित्यन्यत्र विस्तरः ॥७४॥ ननु ‘भृशादिभ्यो भुव्यच्वेर्’त्यादौ विधीयमानः क्यङ् ‘क्व दिवा भूशा भवन्तो'त्यत्रापि स्यादत आह— नञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः ॥ ७५ ॥ —: ❀ :— नञ्युक्तमिवयुक्तं च यत्किञ्चिद् दृश्यते तत्र तस्माद् भिन्ने तत्सदृशे अधिकरणे द्रव्ये कार्यं विज्ञायते हि यतस्तथाऽर्थगतिरस्ति । नहि ‘अब्राह्मण- मानये’त्युक्ते लोष्टमानीय कृती भवति । अतश्च्व्यन्तभिन्ने च्व्यन्तसदृशे अभूततद्भावविषये क्यङिति नोक्तदोषः । ‘ओषधेश्च विभक्तावप्रथमायामि’त्यादौ विभक्तिग्रहणमेतन्न्यायसिद्धा- र्थानुवाद एव । एतेन विभक्तावित्याद्यस
२७० परिभाषेन्दुशेखरः [ ३ प्रकरणे- परास्ताः, अनित्यत्वे भाष्यसम्मतफलाभावात् । अत एव 'अकर्तरि चे'ति सूत्रे कारकग्रहणं भाष्ये प्रत्याख्यातमिति बोध्यम् । स्पष्टा चेयं 'भृशादिभ्य' इति सूत्रे भाष्ये । अत्र 'अन्यसदृशे'त्युक्त्या सादृश्यस्य भेदाघटितत्वं सूचयति । निरू- पितं चैतन्मञ्जूषायाम् ॥ ७५ ॥ ननु 'व्याघ्री, कच्छपी'त्यादौ सुबन्तेन समासात् ततोऽप्यन्तरङ्गत्वाट् टाप्यदन्तत्वाभावाज्जातिलक्षणो ङीष् न स्यादत आह— अनित्यत्वे फलम् 'असूर्यंपश्यानि मुखानी'त्यादि सम्भवत्येवेत्यत आह—भाष्येति । शब्द- शक्तिस्वभावात्तादृशस्थले सादृश्याप्रतीतिर्लोके प्रसिद्धा, न तु तत्र ज्ञापकापेक्षेति भावः । अत एवेति । अनित्यत्वस्य भाष्यानभिमतत्वादेवेत्यर्थः । सूचयतीति । तथा च भेद-सादृश्ययोः पार्थक्येन नञर्थत्वं पूर्वोक्तं स्वरसत उपपद्यत इति भावः ॥ ७५ ॥ ननु व्याघ्रीति । ननु 'उपसञ्जनिष्यमाण'न्यायेनैव सिद्धे इदमवतरणदान- मयुक्तम् । वस्तुतस्तु 'साङ्कुटिनमि'त्यत्र संशब्देन समासात्पूर्वं स्वार्थेऽणि 'सङ्कौटन- मि'ति स्यात् , एवं 'माषवापिणी'त्यत्र माषशब्देन समासात्पूर्वं ङीपि उत्तरपदप्राति- पदिकान्तनकाराभावाद् 'गर्गभगिनी'त्यत्रेव णत्वानापत्तिरत आहेत्यवतरणं दातुं युक्तमिति—राघवेन्द्राचार्याः । तन्न मनोरमम् ; उक्तन्यायेन हि भविष्यदपवाद- विषयातिरिक्तत्वेन सङ्कोचात् केवलाद् घ्रादिशब्दाट्टाबापत्तेर्दुर्वारत्वात् । न च तेन न्यायेन भविष्यदपवादविषयघटकातिरिक्तत्वेन सङ्कोच आवश्यकः, अत एव 'क्रीतात्करणपूर्वादि'ति चरितार्थम् , अन्यथा क्रीतशब्दस्य भविष्यदपवादविषयाश्व- मूले—निरूपितं चैतन्मञ्जूषायामिति । तत्र हि सादृशादिपदशक्यतावच्छेदकतया सदृशदर्शने संस्कारोद्बोधकत्वस्य सर्वसम्मततया तत्कारणतावच्छेदकतया च सादृश्यमतिरिक्तो- ऽखण्डपदार्थश्च साधितः ॥ ७५ ॥ मूले—ततोऽपीति । सुपोऽपीति तदर्थः । मूले—अन्तरङ्गत्वादिति । स्वार्थादि- प्रयुक्तकार्याणां क्रमिकत्वस्वीकारादिति भावः । समासात्पूर्वमिति । समासस्य सुबपेक्षत्वेन बहिरङ्गत्वादिति भावः । तद्धितस्य स्वार्थिकत्वेन सुबन्तात् तद्धितोत्पत्तिरित्येतद्बीजस्य स्वार्थे परिपूर्णमिति न्यायस्य तद्विषयेऽप्रवृत्ते- रिति भावः । दुर्वारत्वादिति । नन्वेवं 'स्वाङ्गाच्चोपसर्जनात्' इति सूत्र-भाष्यविरोधः ; तत्र हि भाष्ये “स्वाङ्गात् किम् ? अशिखा "इत्युक्तम् । तत्र भवद्रीत्या 'अशिखे'त्यस्य अपवादविषयत्वेऽपि तदेकदेशस्य 'शिखे'त्यस्य अपवादविषयातिरिक्तादन्तप्रातिपदिकत्वेन अन्तरङ्गत्वात् आपि तत्सिद्धौ भाष्यासङ्गतिः स्पष्टैव इति चेन्न । 'शिखे'त्यस्यैव प्रत्युदाहरणत्वेन भाष्यतात्पर्यात् । स्पष्टञ्चेदं शेखरे उद्योते च ।
७६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २७१ गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः ॥ ७६ ॥ —: ❀ :— ‘उपपदम’ति सूत्रेऽतिङ्ग्रहणेन ‘कुगती’त्यत्र तदपकर्षणेनातिङन्तश्च समास इत्यर्थस्तयोः सूत्रयोः ‘सुप्सुपे’त्यस्य निवृत्त्यैकदेशानुमत्या कारकांशे च सिद्धेयम्, तेन ‘अश्वक्रीती’ति सिद्धा ; अन्यथा पूर्वं टाप्यदन्तत्वाभावात् ‘क्रीतात्करणपूर्वादि’ति ङीष् न स्यात् । अस्या अनित्यत्वात् क्वचित् सुबुत्पत्त्यनन्तरमपि समासः । यथा सा क्रीतातिरिक्तत्वेन तेन टाब्विधायकशास्त्रे सङ्कोचेऽपि टापो दुर्वारत्वापत्तिः, मम तु क्रीतशब्दस्य भविष्यदपवादविषयघटकत्वेनानेन न्यायेन टाब्बाधसिद्धिरिति वाच्यम् ; तथा सति ‘अजाक्रीती’त्यादौ अजशब्दस्य भविष्यदपवादविषयघटकत्वेन टाबनापत्तेः । न च अनेन न्यायेन भविष्यदपवादविषयान्तातिरिक्तत्वेन सङ्कोचान्न ‘अजाक्रीती’त्यादौ दोषो वाच्यम् ; ‘घन इव कपिला घनकपिले’त्यादौ ‘अन्यतो ङीषि’ति ङीषापत्तेः । कपिलशब्दस्य ‘तत्पुरुषे तुल्यार्थे’ति पूर्वपदप्रकृतिस्वरेणानुदात्ता- न्तत्वेन भविष्यदपवादविषयान्तत्वात् । सिद्धान्ते भविष्यदपवादविषयातिरिक्तत्वेन सङ्कोचे तु ‘घनकपिले’त्यस्य भविष्यदपवादविषयत्वेऽपि कपिलशब्दस्य तदभावेन टाप् सिद्ध्यति । ‘अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते’ इति परिभाषया टापेक्षया लुक्प्रयोजक समासस्य प्राबल्यं तु नेति ‘अकृतव्यूह’परिभाषान्ते प्राक् प्रदर्शितमेव । सुबुत्पत्तेरिति । सुप्पदं प्रत्ययमात्रोपलक्षणम् । अत एव साङ्कूटिनसिद्धिः । सुप्सुपेत्यस्य निवृत्त्येति । अत्र च तृतीयान्तस्य निवृत्तिर्न तु प्रथमान्तस्य । एकदेशानुमत्येति । कारकांशे ‘स्थालीपुलाक’न्यायेनेयं सिद्धेति भावः । वस्तुतस्तु—कारकांशे ज्ञापकं क्रीतात्करणपूर्वादिति बोध्यम् ; तदेवानुवदति— अन्यथेति । एतस्या अभाव इत्यर्थः । ङीष् न स्यादिति । तथा च सूत्रं व्यर्थं स्यादित्यत्र शेषो बोध्यः । अनित्यत्वादिति । एतच्च ‘कर्तृकरणे कृता बहुलम्’ति सूत्रस्थाद् बहुलग्रहण- ल्लभ्यत इति ‘उपपदमतिङि’ति सूत्रे कैयटः । प्रत्ययमात्रेति । तेन तद्धिताट्टापश्च प्राग् समास एव । साङ्कूटिनसिद्धिरिति । अन्यथा समास-तद्धितयोर्युगपत्प्राप्तौ पूर्वं तद्धित एव स्यात्, कूटन्मात्रापेक्षत्वेन अन्तरङ्गत्वात् । न च ‘कृद्ग्रहणे०’ इति परिभाषया समुदायापेक्षत्वमेव तस्येति वाच्यम् ; तस्यामवस्थायां समु- दायस्य अप्रातिपदिकत्वात् ।
२७२ परिभाषेन्दुशेखरः [ ३ प्रकरणे- हि तस्य धनक्रीतेति । अन्ये तु अनित्यत्वे न मानम्, तत्राजादित्वाट् टाबित्याहुः । अत एव 'कुम्भकार' इत्यादौ षष्ठीसमासोऽपि सुबुत्पत्तेः पूर्वमेव । षष्ठीसमासाभावे चोपपदसमासकृत एकार्थीभाव इति न तत्र वाक्यमिति भाष्ये स्पष्टम् । तत्र हि 'षष्ठीसमासादुपपदसमासो विप्रतिषेधेने'ति वार्ति- कम् । 'अथवा विभाषा षष्ठीसमासो यदा न षष्ठीसमासतदा उपपदसमास' इति तत्प्रत्याख्यानञ्च । केचित्तु - 'अम्बाऽम्बे'त्यनेन इणन्तात् परस्य षत्वविधानमत्र मानम् ; अन्यथा 'गोष्ठे'त्यत्र सुबुत्पत्तेः पूर्वं समासे पदत्वाभावेन 'सात्पदाद्योः'ति षत्वनिषेधाप्राप्त्या तद्वैयर्थ्यं स्पष्टमेवेत्याहुः । तन्न ; 'दधिसेचवि'त्यत्र सुबुत्पत्तेः पूर्वं समासे षत्वनिषेधा- प्राप्त्या सिद्धान्तेऽपि 'पदादादिरि'ति पञ्चमीसमासस्याऽऽवश्यकत्वेन 'गोष्ठ' इत्यत्र षत्व- निषेधप्राप्त्या अम्बाऽम्बगोभूमिसव्यापद्वित्रीणन्तात् षत्वविधानस्याऽऽवश्यकत्वात् ; तदाह- न मानमिति । फलाभावमप्याह - तत्रेति । 'गोष्ठे'त्यत्र तु 'न पदान्ते'त्यत्र पदपदस्य पदत्वयोग्यपरत्वेन स्थानिवत्त्वनिषेधसिद्धिरिति तत्रैव शेखरे स्पष्टम् । अत एवेति । परिभाषास्वीकारादेवेत्यर्थः । षष्ठीसमासोऽपीति । परिभाषायां सामान्यतः कारकोपादानेनास्यापि तत्त्वादिति भावः । अत्र प्रमाणं दर्शयति - षष्ठीत्यादि । 'यदि सुबन्ते। षष्ठीसमासतदा उपपदसमास एवान्तरङ्गत्वान् भविष्यति" भाष्यविरोध , स्पष्ट एव । एवं 'व्याघ्री'त्यत्र समासात्पूर्व टाबपि न । न च प्रकृतपरिभाषया पूर्वं समासे ततः समुदायघटक-घ्राशब्दात् अन्तरङ्गत्वान् टाब् स्यादिति वाच्यम् ; वृत्तिघटकपर्याप्तस्त्रीत्वमादाय स्त्रीप्रत्ययो न भवतीत्यभ्युपगमेन अदोषान् । अत एव 'कुककुटादीनामण्डादिषु इति वार्तिक- प्रत्याख्यानपरम्, अनुपसर्जनाधिकारसामर्थ्यात् स्त्रीप्रत्यये तदन्तविधिज्ञापकपरञ्च भाष्यं सङ्गच्छते । लिङ्गसामान्ये नपुंसकत्वविवक्षां कृत्वा 'कुक्कुटस्य अण्डम्' इति समासे कृते 'कुक्कुटाण्डम्' इत्यादि- रूपसिद्धौ निर्बाधायां वार्तिकं न कर्तव्यमिति भाष्ये प्रत्याख्यातम् । भवन्मते समासोत्तरमपि तदेकदेशे कुक्कुटशब्दे स्त्रीत्वविवक्षायां सत्यां प्रत्याख्यानकल्पे स्त्रीप्रत्ययः स्यात्, आरम्भकल्पे पुंवद्भाव- विधानेन न तस्य श्रवणमिति फलभेदः । एवमेव 'उत्से भवमिति औत्सम्, तदन्तान्तः अत्यौत्सः' इत्यत्र समासवृत्तिघटकपर्याप्तस्त्रीत्वविवक्षया प्राप्तस्य 'टिड्ढाणञ्०' इत्यादिना ङीपो वारणाय 'अनुपसर्जनादि'त्यस्य चारितार्थ्यसम्भवे तदन्तविधिज्ञापनपरं भाष्यमसङ्गतमेव स्यात् । अत्र केचित्- 'सुप्'पदं न प्रत्ययमात्रोपलक्षकम्, ज्ञापकात्तदलाभात्, फलाभावात्, राम- शब्दप्रकरण-शब्देन्दुशेखरग्रन्थविरोधाच्च । 'विआ'रूपगतिसंज्ञकसमभिव्याहारेणैव घ्राशब्दस्य अर्थ- वत्त्वेन टापोऽपि समुदायापेक्षत्वेन स्त्रीत्वस्य अधिकस्य अपेक्षत्वेन च बहिरङ्गतया समासस्य टापः पूर्वं प्रवृत्तेः सिद्धत्वात् । एवं 'साङ्कतिनम' इत्यत्र इणुगन्तत्वरूपाधिकसापेक्षत्वेन समासापेक्षया
७६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २७३ यद्यपि उपपदसमासस्य अन्तरङ्गत्वाभिप्रायकं 'न वा षष्ठीसमासाभावा- दुपपदसमास' इति वार्तिककृतोक्तम् ; तथापि तदुभयप्रत्याख्यानपरम् 'अथ- वे'त्यादिभाष्यं परिभाषायां सामान्यतः कारकोपादानेन कारकविभ- क्त्यन्तेन कृद्भिः समासमात्रस्य सुबुत्पत्तेः पूर्वमेव लाभात् । एतेनैषा कारक-तद्विशेषयोरुपादान एवेति परास्तम् ; अस्या विधेयक- समासमात्रस्येति । ननु सामान्यतः कारकोपादानेनात्रैतत्प्रवृत्तौ 'प्राप्तापन्ने'त्य- नेन द्वितीयाया अ इति च्छित्त्वा अकारविधानं भाष्योक्तं व्यर्थं तत्र टाबुत्पत्तेः पूर्वं समासेन सिद्धेः ; एवम् 'अपां स्रष्ट्री'त्यत्र 'षष्ठी'ति प्राप्तसमासस्य 'तृजकाभ्या'मिति निषेधो 'लिङ्गविशिष्ट'परिभाषयेति ङ्याप्सूत्रे भाष्ये उक्तं तत्राप्यनया पूर्वं समास- प्राप्त्या निषेधसिद्धिरिति 'लिङ्गविशिष्ट'परिभाषया समाधानं भाष्योक्तमसङ्गतमिति चेन्न । आद्ये टाबुत्पत्तेः पूर्वं समासेऽपि तदुत्तरं प्राप्तटापोऽकारविधानमावश्यकमिति न भाष्यविरोधः । द्वितीयेऽपि ङीपः पूर्वं तृजन्तत्वेन समासनिषेधेऽपि ङीबुत्तरं तृजन्तत्वा- भावान्न स्यादित्याशङ्क्य लिङ्गविशिष्टपरिभाषया समाधानं सुस्थमेवेत्यदोषात् । परास्तमिति । परे तु—कारकतद्विशेषोपादाने एवैषा परिभाषा प्रवर्तते । अस्या अणिणुन इत्यस्य बहिरङ्गतया पूर्वं समासे कृते ततस्तद्धित इति दोषाभावादित्याहुः । तन्न ; टाब्विधौ प्रातिपदिकत्वस्य अपेक्षितत्वेऽपि अर्थवत्त्वस्यानपेक्षितत्वात् परम्परयाऽपि सापेक्षत्वमादाय परिभाषाप्रवृत्तौ मानाभावात्, बह्वपेक्षत्व-विशेषापेक्षत्वरूपबहिरङ्गत्वस्य नव्यैस्तिरस्कृतत्वात् पूर्व- पदोत्तरपदरूपसमुदायसापेक्षत्वरूपशब्दकृतबहिरङ्गत्वस्य समासविधायकेऽपि सत्त्वेन बहिरङ्गत्वा- समानाधिकरणान्तरङ्गत्वस्य बलवत्त्वप्रयोजकस्य तत्राविद्यमानत्वाच्च दोषतादवस्थ्यात् । यत्तु—रामशब्दप्रकरणे शब्देन्दुशेखरे इनुणन्तत्वरूपाधिकसापेक्षत्वेन 'अणिणुन' इत्यस्य बहिरङ्गत्वमुक्तम्, तत् प्राचामनुरोधेन । अत एव "सुबुत्पत्तेः प्रागित्युपलक्षणम्, लिङ्गबोधक- प्रत्ययोत्पत्तेः प्रागपि बोध्यम्" इति 'उपपदमतिङ्' इति सूत्रस्थोद्योतग्रन्थः, 'प्राक् सुबुत्पत्तेः' इति प्रतीकमुपादाय "स्त्रीप्रत्ययोत्पत्तेः प्रागित्यपि बोध्यम्" इति तत्पुरुषसमासप्रकरणस्थ- शब्देन्दुशेखरग्रन्थश्च सङ्गच्छते । 'अतिङ्' इत्यनेन सामान्यतः प्रत्ययोत्पत्तेः प्रागित्थस्य ज्ञापना- सम्भवेऽपि 'क्रीतात् करणपूर्वात्' इत्यनेन सामान्यतस्तज्ज्ञापनं सम्भवत्येव ; अन्यथा पूर्वं टाबुत्पत्तौ तदसङ्गतिः । एवञ्च कारकांशे ज्ञापनेन एकदेशानुमत्या सर्वांशे च तत्सिद्ध्यतीति बोध्यम् । एतेन "केचित्तु 'प्राक् सुबुत्पत्तेः' इत्यत्र सुब्ग्रहणं प्रत्ययमात्रोपलक्षणमित्याहुः । तन्न ; ज्ञापकात्तदलाभात्, उक्तशब्देन्दुशेखरविरोधाच्च" इति विजयाकारोक्तिः परास्ता वेदितव्या । सामान्यतः कारकोपादानेनेति । परिभाषायां ग्रहणपदोपादानाभावेन समासशास्त्रे कारकग्रहणाभावेऽपि यत्र लक्ष्ये पूर्वपदं कारकं दृश्यते तत्र सुबुत्पत्तेः पूर्वं कृद्भिः सह समासो भवति इत्येव परिभाषार्थाङ्गीकारादिति भावः ॥ ७६ ॥ ३५
२७४ परिभाषेन्दुशेखरः [ ३ प्रकरणे— वाक्यत्वाभावेन विप्रतिषेधादिशास्त्रवत् कार्यव्यवस्थापकत्वेन उपादान एवेत्यर्थलाभाच्च ॥ ७६ ॥ ननु 'उगिदचामि'त्यत्र धातोश्चेदुगित्कार्यं तर्ह्यञ्चतेरेवेति नियमेन अधातोरेव नुमि सिद्धेऽधातुग्रहणं व्यर्थमत आह— साम्प्रतिकाभावे भूतपूर्वगतिः ॥ ७७ ॥ —: ✿ :— तत्तद्वचनसामर्थ्यन्यायसिद्धेयम् । तत्सामर्थ्यादधातुभूतपूर्वस्यापीत्यर्थेन विध्येकवाक्यत्वाभावेऽपि यत्र कारकत्वव्याप्यधर्मावच्छिन्नबोधकं पदं तत्र शास्त्रे सुपेति नानुवर्तते इत्यस्य वक्तुं शक्यत्वात् । न च 'षष्ठी'ति सूत्रे कारकतद्विशेषो- पादानाभावेनैतदप्रवृत्त्या “अथवा विभाषा षष्ठीसमासो यदा न षष्ठीसमासस्तदा उप- पदसमास” इति भाष्यासङ्गतिरिति वाच्यम् ; विभाषाधिकारस्य पाक्षिकैकार्थीभाव
७७-७८ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २७५ गोमत्यतेः क्विपि 'गोमानि'त्यादौ नुम्सिद्धिः 'नामी'त्यादिसूत्रेषु भाष्ये स्पष्टा ॥ ७७ ॥ बहुव्रीहौ तद्गुणसंविज्ञानमपि ॥ ७८ ॥ —: ✤ :— अपिना अतद्गुणसंविज्ञानम् । तेषां गुणानामवयवपदार्थानां संविज्ञानं विशेष्यान्वयित्वमिति तदर्थः । यत्र समवायसम्बन्धेन सम्बन्ध्यन्यपदार्थस्तत्र प्रायस्तद्गुणसंविज्ञानम्, अन्यत्र प्रायोऽन्यत् । 'लम्बकर्णचित्रगू' उदाहरणे, 'सर्वादीनि, जक्षित्यादय' इति चोदाहरणे । सर्वनामसंज्ञासूत्रे भाष्ये स्पष्टा ॥ ७८ ॥ नामीत्यादिसूत्रेषु भाष्य इति । तत्र हि आमीति न्यासे 'राम+आमि'त्यादौ दीर्घेऽपि ह्रस्वान्तान्नुडित्येतद्वचनसामर्थ्यादनया नुडित्युक्तम् ॥ ७७ ॥ समवायेति । संयोगस्याप्युपलक्षणम् । तथा च संयोग-समवायान्यतरसम्बन्धेन सम्बन्धीत्यर्थः । संयोगेन सम्बन्धित्वं 'नागयज्ञोपवीतिनमानय' इत्यत्र । समवायेन सम्बन्धित्वं 'लम्बकर्णमानये'त्यत्र । प्रायग्रहणाद् 'नागयज्ञोपवीतिनं भोजये'त्यादौ संयोगेन तत्त्वेऽपि न तद्गुणत्वम् । अन्यत्रेति । 'चित्रगुदृष्टसागर' इत्यादावित्यर्थः । अत्र प्रायग्रहण- फलं तु यदि 'चित्रगुरि'त्यत्रैव गवानयनेऽपि तात्पर्यं तदा तद्गुणत्वमेवेति बोध्यम् । केचित्तु — यत्र वर्तिपदार्थविशिष्टस्यान्यपदार्थस्य समभिव्याहृतपदार्थे वैशिष्ट्यं तत्र तद्गुणत्वम्, यत्र तदुपलक्षितस्य वैशिष्ट्यं तत्रातद्गुणत्वमित्यनुगतं तल्लक्षणमाहुः । अन्ये तु — यत्र समभिव्याहृतपदार्थे वर्तिपदार्थानां धर्मिपारतन्त्र्येणान्वयस्तत्र तद्- गुणत्वमेव, अन्यत्रातद्गुणत्वमेवेत्याहुः । परे तु — यत्र समभिव्याहृतपदार्थेऽन्यपदार्थान्वयो वर्तिपदार्थान्वयनान्तरीयकस्तत्र तद्गुणत्वम्, यथा 'लम्बकर्णमानये'त्यत्र अन्यपदार्थानयनं कर्णं विना न सम्भवतीति । 'नागयज्ञोपवीतिनमानय, भोजये'त्यादौ तु समभिव्याहृत क्रियान्वयोऽन्यपदार्थस्य नाग- यज्ञोपवीतसम्बन्धं विनाऽपि सम्भवतीत्यतद्गुणत्वम् । एवं 'चित्रगुरि'त्यत्र गवानयन- तात्पर्येऽपि सर्वत्रातद्गुणत्वं बोध्यम् । 'सर्वादीनी'त्यत्र आदिशब्दोऽवयवत्वविशिष्टपूर्वत्व- विशिष्टवाचक इत्यन्यपदार्थगणान्वयः समभिव्याहृतपदार्थे सर्वशब्दान्वयनान्तरीयक इति तत्र तद्गुणत्वमेव । 'जक्षित्यादय' इत्यत्र आदिशब्दः केवलपूर्वत्वविशिष्टवाचीति न तत्र तद्गुणत्वम् । आदिशब्दस्य अवयवत्वविशिष्टवाचकत्वं कुत्रेत्यत्र तु व्याख्यानमेव शरणम् ; यथा 'हलि सर्वेषामि'त्यत्र सुड्दर्शनेन सर्वादीत्यत्र आदिशब्दोऽवयवत्वविशिष्टवाचीति ज्ञायत इत्याहुः ।
ननु ‘वदः सुपि क्यप् चे’ति चेनानुकृष्टस्य यतो ‘भुवो भावे’ इत्यत्रापि अनुवृत्तिः स्यादत आह— चानुकृष्टं नोत्तरत्र ॥ ७९ ॥ —: ❀ :— णमुल्यनुवर्त्तमाने ‘अव्ययेऽयथाभिप्रेते’ति सूत्रे पुनर्णमुल्रहणमस्या ज्ञापकम् ; अन्यथा क्त्वा चेति वदेत् । तद्धि उत्तरत्र उभयोः सम्बन्धार्थम् । उदाहरणानि स्फुटानि । इदमनित्यम् । अत एव ‘तृतीया च होरि’त्यत्र चानुकृष्टाया अपि द्वितीयाया ‘अन्तराऽन्तरेणे’त्यत्र सम्बन्धः । अपरे तु—अत्र चित्रगु-लम्बकर्णादौ तद्गुणत्वातद्गुणत्वविचारस्य काकदन्तपरी- क्षावन्निष्फलत्वेन तदनुरोधेन तद्गुणत्वादिलक्षणस्यानुपयोगात् केवलमाद्यादिशब्दघटित- बहुव्रीहिस्थले एव तत्फलसत्त्वेन तदनुरोधात् यत्र वर्त्तिपदार्थानामन्यपदार्थेन सह घटक- घटितभावस्तत्र तद्गुणत्वमन्यत्रान्यदित्येवं तल्लक्षणं बोध्यम् । भाष्ये सर्वादीत्यादौ तद्- गुणसंविज्ञानोऽतद्गुणसंविज्ञानो वेति सन्देहस्तु अत्राऽऽदिशब्दः शुद्धपूर्वत्वविशिष्टपूर्वत्व- विशिष्टवाची उत अवयवत्वविशिष्टपूर्वत्वविशिष्टवाचीत्येतत्सन्देहप्रयुक्त एव । तथा च ‘सर्वादी’त्यत्र आदिशब्दस्य अवयवत्वादिविशिष्टवाचकतया तद्गुणसंविज्ञान एव । ‘जक्षि- त्यादय’ इत्यत्र तदभावेनातद्गुणसंविज्ञान एवेत्याहुः ॥ ७८ ॥ चानुकृष्टमिति । चकारेणानुवर्त्तमानं परत्र सम्बध्यते इति परिभाषार्थः । इदमनित्यमिति । केचित्तु—अनित्यत्वे न मानम्, नापि फलम् । अत्र शास्त्रे चानु- वृत्तिनिवृत्तिसूचकौ चकारौ स्तः । तत्राव्यवहितसूत्रे चशब्दोऽनुवृत्तिसूचकः, व्यवहितसूत्रे तु निवृत्तिसूचकः । ‘चानुकृष्टमि’त्यत्र चशब्दो निवृत्तिसूचकपरः । तथा च निवृत्तिसूचक- शब्देनानुवर्त्तमानमुत्तरत्र न सम्बद्ध्यत इत्यर्थः, तेन ‘तृतीया च होरि’त्यत्र चशब्दस्य ‘कर्मणि द्वितीये’त्येतदव्यवहितसूत्रस्थितत्वेन निवृत्तिसूचकत्वाभावात् तेनानुवर्त्तमान- द्वितीयापदस्य ‘अन्तराऽन्तरेणे’त्यत्र सम्बन्धे बाधकाभावः । तथा च एतत्परिभाषाविषय- त्वाभाववतामनुवृत्तिसूचकानामन्यव्यवहितोत्तरसूत्रवर्त्तिनां सर्वचकाराणां प्रत्याख्याने च न भाष्यविरोधोऽपि । एवमव्यवहितपूर्वसूत्रस्थस्य ‘छोऽन्यतरस्यामि’त्यस्य चोत्तरसूत्रे ‘द्विगोः ष्ठंश्चे’त्यत्र चेनानुकृष्टस्योत्तरत्रानुवृत्तावपि तस्य निवर्त्तकत्वाभावेन उक्तपरिभाषाऽविषय- तया भाष्यविरोधाभावः स्फुट एवेति प्राहुः । अन्ये तु—अव्यवहितोत्तरसूत्रघटक-चशब्दः समुच्चायको विप्रकृष्टसूत्रस्थश्चानु- कर्षकः । तत्र समुच्चायकचशब्देन समुच्चितशब्दः स्वरितत्वादिनोत्तरत्र गन्तुमर्हति, चानुकृष्टस्तु तावत्सूत्रगमनयोग्यस्वरितत्वाभावेऽपि चकारबलादाकृष्टस्तत्र कार्यं सम्पा-
७९ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २७७ 'लुटि च क्लृप' इति सूत्रस्थेन अनुवृत्त्यर्थकसकलचकारप्रत्याख्यानेन विरुद्धयम् । व्याख्यानादेवानुवृत्तिनिवृत्त्योर्निर्वाह इति तदाशयः । 'कुलि- जाल्लुक्खौ चे'ति सूत्रस्थभाष्यविरुद्धा च । तत्र हि 'द्विगोः ष्ठंश्चे'ति सूत्रात् ष्ठनस्तत्र चेनाप्यनुकृष्टस्य 'खोऽन्यतरस्यामि'त्यस्य चानुवृत्तिं स्वीकृत्य लुक्खौ चेति भाष्ये प्रत्याख्यातम् ॥ ७९ ॥ दयन्नप्युत्तरत्राकर्षकाभावान्न सम्बद्ध्यते । गन्तुमसमर्थस्य परेण बलान्नयने एव कृषधातो, र्लोके प्रयोगः । अत एव परिभाषायां चानुवृत्तमित्यनुक्त्वा चानुकृष्टमित्युक्तम् । भाष्यकृता च चसमुच्चितस्यापि स्वरितत्वादेवोत्तरत्रानुवृत्तिर्वाच्या । तथा च स्वरि- तत्वादेव अव्यवहितोत्तरसूत्रेऽपि तस्यानुवृत्तिसम्भवेन वैयर्थ
२७८ परिभाषेन्दुशेखरः [ ३ प्रकरणे- ननु अनुदात्तादेरन्तोदात्ताच्च यदुच्यते तद्व्यञ्जनादेर्व्यञ्जनान्ताच्च न प्राप्नोतीत्यत आह- स्वरविधौ व्यञ्जनमविद्यमानवत् ॥ ८० ॥ —: ✤ :— स्वरोद्देश्यके विधावित्यर्थः । 'नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूष- मन्थिष्वि'ति सूत्रे पृथिव्यादिपर्युदासोऽस्या ज्ञापकः ; अन्यथा पृथिव्यादीना- मनुदात्तादित्वाभावादप्राप्तौ तद्वैयर्थ्यं स्पष्टमेव । धर्मिग्राहकमनादेव च स्वरोद्देश्यकविधिविषयमिदम् । अत एव ‘शतुर्नुमो नद्यजादी’ , ‘अचः कर्तृयकी’त्यादौ अजादौ अच इत्यादेश्चारि- तार्थ्यम् । अत एव ‘राजवती’त्यादौ नलोपस्यासिद्धत्वान्नवतीशब्दत्वात् ‘अन्तोऽवत्या’ इति स्वरो न, ‘उदश्वित्वानि’त्यत्र ‘ह्रस्वनुड्भ्यामि’ति मतु- बुदात्तत्वं च नेत्याकरः । स्पष्टं चेदं ‘समासस्ये’ति सूत्रे भाष्ये । स्वरोद्देश्यके विधाविति । स्वरत्वव्याप्यधर्मघटितधर्मनिमित्ताके विधावित्यर्थः, व्याप्यत्वानिवेशे तु नोत्तरपद इत्यस्य स्वरोद्देश्यकत्वाभावात्तदसङ्गतिः स्यात् । अत एवेति । स्वरोद्देश्यकेति निवेक्षादेवेत्यर्थः । चारितार्थ्यमिति । तद्धि ‘तुद- द्भ्यामित्यत्र भ्याम उदात्तत्ववारणार्थम्, सामान्यतोऽविद्यमानवद्भावे तु अत्रापि विभक्तेरजादित्वादजादीति विशेषणं व्यर्थमेव स्यादिति भावः । न च ‘अभ्यस्ताना- मादिरि'त्याद्युदात्तके ‘दधती'त्यत्रोदात्तत्ववारणाय अत्रान्तोदात्तादित्यनुवृत्तेरावश्यक- तयाऽस्यापि स्वरोद्देश्यकत्वेन उक्ताजादिग्रहणवैयर्थ्यं तदवस्थमेवेति वाच्यम् ; ‘स्वरत्व- व्याप्यधर्मघटितधर्मावच्छिन्नविषयतायाः प्रतिबन्धकं व्यञ्जनं न भवती’ति परिभाषार्थ- स्वीकारेण ‘तुदद्द्भ्या' मित्यत्र दान्तेऽन्तोदात्तत्वबुद्धिप्रतिबन्धकत्वाभावेऽपि व्यञ्जनस्य भ्यामादौ अजादित्वबुद्धप्रतितबन्धकत्वे मानाभावात् । एवं ‘ह्रस्वनुड्भ्यामि'त्यत्र अन्तोदात्तादित्यनुवृत्त्या तस्य स्वरोद्देश्यकत्वेऽपि उदश्विच्छब्दे ह्रस्वान्तत्वबुद्धेः असम्भवो बोध्यः । तस्य व्याख्यानं तत्र भवो वा चात्वैर्भषिकम्' इत्यत्र, हलन्तत्वेन अन्तोदात्तत्वाभावादत आह मूले- नन्वित्यादि । परिभाषायां 'स्वरविधौ' इत्यस्य 'स्वरकर्मकविधौ' इत्यर्थाङ्गीकारे 'स्वरोद्देश्यकविधौ' इत्यर्थाङ्गीकारे वा 'नोत्तरपदे' इति ज्ञापकासङ्गतिः, तस्य स्वरनिषेधविधित्वेन स्वरकर्मक- विधित्वाभावात् स्वरोद्देश्यकत्वाभावाच्च ; अत आह-स्वरत्वव्याप्येति ।
? No! Wait, look at line 12: "उदात्तगुणविशिष्टान्तरतमाऽऽरूपोऽस्त्विति" - wait, let's zoom in! "विशिष्टान्तरतम" Then there is a vertical line with a top hook: wait, it's "ा"? Then "ऽ"? Wait, compare "ऽ" with avagraha in:
- "यतोऽनाव" (line 9)
- "हलोऽप्युदात्तादिवदवभासात्" (line 3) In line 3, "हलोऽप्यु": the avagraha is 'ऽ'. In line 12: "उदात्तगुणविशिष्टान्तरतम" Wait, after 'तम': There is 'ा'? No, it's 'ो'? Wait, look at: वि शि ष्टा न्त र त म Then: an avagraha 'ऽ'? Wait, there are TWO shapes like 'ऽ': Wait, no! That is: 'ा' then 'ज'? No! Wait, look at footnote line 27: "उदात्तादेः स्थानित्वेन अच एव क्लृप्तत्वात् नकारस्य अतथात्वात् स्वराप्राप्त्या..." Now look at line 12 again: "न चाऽऽदिरेव नकार उदात्तगुणविशिष्टान्तरतम..." What does the Vivarana say in line 23?
has:
स्तम्भु...? Yes, ‘स्तम्भु...’!
Look at the single quote before स्तम्भु:
It's ‘स्तम्भु’!
Let's look at the character before स्तम्भु:
It is an opening single quote: ‘!
Wait, look at it: श्व्योः then ‘ then स्तम्भु’!
Wait, what is the mark above? There's a dot? No, it's the quote mark ‘!
Wait, is there an anusvara on स्तम्भु?
Wait, the sutra starts with स्तम्भु: स्तम्भुस्तुञ्चु... (P. 3.1.58).
So the commentator abbreviated it as:
‘स्तम्भु...’ or ‘स्तम्भु’ इति सूत्राभ्यां चङङोर्विधानात् ।
Let's verify:
Sutra 1: विभाषा धेट्श्व्योः (3.1.49) -> prescribes चङ् (चङ्-विधायकम्)!
Sutra 2: स्तम्भु... (3.1.58) -> prescribes अङ् (अङ्-विधायकम्)!
Hence: सूत्राभ्यां चङङोर्विधानात् (चङ् + अङ् = चङङ्)!
Brilliant! That makes 100% perfect grammatical sense!
Let
८२-८४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २८१ एते च प्रत्ययाऽप्रत्ययसाधारणे, 'दिव औदि'त्यादौ सञ्चारितत्वात् । वर्णग्रहणे चानयोरप्रवृत्तिरिति स्पष्टम् 'ओङ आप' इत्यत्र भाष्ये । येनानुबन्धेन सानुबन्धकत्वं द्व्यनुबन्धकत्वादि वा तदनुच्चारणे एवैषा धर्मिग्राहकमानात्, तेन 'जश्शसोरि'त्यत्र नैषेति निरनुबन्धकत्वात् तद्धितशस एवात्र ग्रहणं स्यादिति न शङ्क्यम् । एवमन्त्याऽन्यतरानुबन्धोच्चारणे एव, तेन 'वनो र चे'त्यादौ ङ्वनिप्- क्वनिपोग्रहणसिद्धिः । एकानुबन्धकग्रहणे सम्भवतीति त्वर्थो न भाष्यादिसम्मत इत्यन्यत्र विस्तरः ॥ ८२-८३ ॥ ननु 'कुटीर' इत्यादौ स्वार्थिकत्वात् स्वार्थिकानां प्रकृतितो लिङ्ग- वचनानुवृत्तेरन्यथाप्राप्तत्वात् पुंस्त्वानुपपत्तिः, 'अपकल्पमि'त्यत्र नपुंसकैक- वचनयोरनुपपत्तिश्चेत्यत आह— दिव औदित्यादाविति । तत्र हि 'दिव औत्वे धातुप्रतिषेध' इति वार्तिकं प्रथम- परिभाषया प्रत्याख्यातम् । दिवुधातुरुदित्त्वात् सानुबन्धकः । प्रातिपदिकं त्वव्युत्प- न्नत्वान्निरनुबन्धकमिति तदाशयः । अप्रवृत्तिरिति । अत एव 'अधीते' इत्यत्रेङः सानुबन्धकत्वेऽपि सवर्णदीर्घसिद्धिः । ओङ आप इत्यत्र भाष्य इति । तत्र हि निरनुबन्धकपरिभाषया प्रथमाद्विवचनस्यैव ग्रहणं प्राप्नोतीत्याशङ्क्य "नैषा वर्णग्रहणेषु प्रवर्तते" इत्युक्तम् । न शङ्क्यमिति । न चात्र उक्तरीत्या परिभाषाप्रवृत्त्यभावे कुतो न तद्धितशसोः ग्रहणमिति वाच्यम्; साहचर्यपरिभाषया तदग्रहणसिद्धेः । न भाष्यादिसम्मत इति । अत एव 'अणिगुण' इत्यत्र घिणुणोऽग्रहणम्; अन्यथा एकानुबन्धकस्यासम्भवेन उक्तपरिभाषाया अप्रवृत्तौ घिणुणो ग्रहणं दुर्वारं स्यादिति भावः । एवं 'झय' इत्यत्र मतुब्शब्देन ड्मतुपोऽग्रहणसिद्धिरिति दिक् । परे तु—उक्तपरिभाषाद्वयस्थाने स्वाघटकानुबन्धाघटितस्य ग्रहणे स्वाघट- कानुबन्धघटितस्य ग्रहणं नेति एका परिभाषा स्वीकार्या, स्वपदेन बोधको ग्राह्यः । 'वनो र चे'त्यादौ तु असम्भवादेव सर्वेषां ग्रहणसिद्धिः । एवञ्च 'जश्शसोरि'त्यादौ धर्मिग्राहकमानादिना अर्थविशेषकल्पनाऽपि नेति महालाघव- मित्याहुः ॥ ८२-८३ ॥ कुटीर इति । ह्रस्वा कुटीत्यर्थे 'कुटीशमी'ति रप्रत्ययः । ३६
२८२ परिभाषेन्दुशेखरः [ ३ प्रकरणे- क्वचित्स्वाथिकाः प्रकृतिताे लिङ्गवचनान्यतिवर्तन्ते ॥ ८४ ॥ —: ❖ :— ‘णचः स्त्रियाम्’ इति सूत्रे स्त्रियामित्युक्तिरस्या ज्ञापिका ; अन्यथा ‘कर्मव्यतिहारे णच् स्त्रियाम्’ इति स्त्रियामेव विधानात् किं तेन । स्पष्टा चेयं बहुज्विधायके भाष्ये ॥ ८४ ॥ ननु ‘सुपथी नगरी’ ति ‘युवोरनाकावि’ति सूत्राभाव्योदाहृत ‘इनः स्त्रियामि’ति कप् स्यादत आह— समासान्तविधिरनित्यः ॥ ८५ ॥ —: ❖ :— ‘प्रतेरंशवादयस्तत्पुरुषे’ इत्यन्तोदात्ततायांश्वादिषु राजञ्शब्दपाठो- ऽस्या ज्ञापकः ; अन्यथा टचैवान्तोदात्तत्वे सिद्धे किं तेन । प्रकृतित इति । षष्ठ्यन्ताद्दाद्यादित्वात्तसिः । स्वार्थिकानां प्रकृत्यर्थबोधकत्वेन प्रत्ययत्वात् प्रकृत्यर्थलिङ्गसंख्याबोधकत्वस्य न्याय्यतया सर्वत्र स्वार्थिकत्वेन तद्द्वा- नस्याऽऽवश्यकत्वेऽपि तयोरर्थयोः खण्डशक्तिस्वीकारेण सति गमके एतत्त्यागाल्लोक- सिद्धत्वाच्च तत्तल्लिङ्गभानमित्यत उक्तम्—क्वचिदिति । न च स्वार्थिकानां प्रकृत्यर्थे- तरार्थबोधकत्वेन कथमेकार्थीभावसम्भव इति वाच्यम् ; स्वार्थिकानां प्रमेयत्वा- वच्छिन्नबोधकत्वस्य कल्पनेन तेन सह प्रकृत्यर्थनामभेदान्वयस्वीकारेण तत्त्वस्य सुवचत्वात्, शब्दस्यापि शाब्दबोधे भानन्नैत्येन तत्तत्प्रत्ययरूपार्थस्य प्रकृत्यर्थेतरत्वेन एकार्थीभावस्य सूपपादत्वात्, क्विबन्तलिडादिशब्देषु अनेकपदघटितत्वाभावेऽपि एकार्थीभावोपपत्तये स्ववृत्तित्व-स्वपर्याप्तशक्तिक्ज्ञानप्रयोज्यज्ञानविषयत्वोभयसम्बन्धेन पदविशिष्टशक्तिपर्याप्त्यधिकरणत्वरूपैकार्थीभावस्य अभ्युपेयतया स्वार्थिकप्रत्ययान्तेषु तत्सत्त्वेन अदोषश्चेति दिक् । ज्ञापकमाह—णच इति । बहुज्विधायके इति । तत्रत्येन तुशब्देनैव अयमर्थो भाष्ये निरूपित इति बोध्यम् ॥ ८४ ॥ टचैवेति । ननु ‘प्रतेरंशवादय’ इत्यस्य ‘प्रतेः परीभूतास्तत्पुरुषघटका अन्तो- दात्ता’ इत्यर्थात् टिलोपोत्तरमवशिष्टस्य जान्तभागस्य ‘एकदेशविकृत’न्यायेन राजन्- शब्दत्वेन सतिशिष्टतया रेफाकारस्योदात्तविधानाय सार्थक्यात् कथं वैयर्थ्यमिति वाच्यम् ; ‘प्रतेः पराश्वाद्युत्तरपदकस्य तत्पुरुषस्यान्त उदात्तः’ इति तदर्थेन उक्तरेफा- कारस्य स्वरप्राप्त्यभावात् । टचो नित्यत्वे तु प्रतिराजशब्दे चित्त्वादेवान्तोदात्तत्व- सिद्धेस्तद्वैयर्थ्यस्य सूपपादत्वात् । नागेशनये अक्तपरिमाणत्वेन राजन्शब्दत्वस्य जान्ते तेन न्यायेनातिदेशासम्भवाच्च । ३६