परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 308, कुल 373 में से
संदर्भ में पढ़ें२७८ परिभाषेन्दुशेखरः [ ३ प्रकरणे- ननु अनुदात्तादेरन्तोदात्ताच्च यदुच्यते तद्व्यञ्जनादेर्व्यञ्जनान्ताच्च न प्राप्नोतीत्यत आह- स्वरविधौ व्यञ्जनमविद्यमानवत् ॥ ८० ॥ —: ✤ :— स्वरोद्देश्यके विधावित्यर्थः । 'नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूष- मन्थिष्वि'ति सूत्रे पृथिव्यादिपर्युदासोऽस्या ज्ञापकः ; अन्यथा पृथिव्यादीना- मनुदात्तादित्वाभावादप्राप्तौ तद्वैयर्थ्यं स्पष्टमेव । धर्मिग्राहकमनादेव च स्वरोद्देश्यकविधिविषयमिदम् । अत एव ‘शतुर्नुमो नद्यजादी’ , ‘अचः कर्तृयकी’त्यादौ अजादौ अच इत्यादेश्चारि- तार्थ्यम् । अत एव ‘राजवती’त्यादौ नलोपस्यासिद्धत्वान्नवतीशब्दत्वात् ‘अन्तोऽवत्या’ इति स्वरो न, ‘उदश्वित्वानि’त्यत्र ‘ह्रस्वनुड्भ्यामि’ति मतु- बुदात्तत्वं च नेत्याकरः । स्पष्टं चेदं ‘समासस्ये’ति सूत्रे भाष्ये । स्वरोद्देश्यके विधाविति । स्वरत्वव्याप्यधर्मघटितधर्मनिमित्ताके विधावित्यर्थः, व्याप्यत्वानिवेशे तु नोत्तरपद इत्यस्य स्वरोद्देश्यकत्वाभावात्तदसङ्गतिः स्यात् । अत एवेति । स्वरोद्देश्यकेति निवेक्षादेवेत्यर्थः । चारितार्थ्यमिति । तद्धि ‘तुद- द्भ्यामित्यत्र भ्याम उदात्तत्ववारणार्थम्, सामान्यतोऽविद्यमानवद्भावे तु अत्रापि विभक्तेरजादित्वादजादीति विशेषणं व्यर्थमेव स्यादिति भावः । न च ‘अभ्यस्ताना- मादिरि'त्याद्युदात्तके ‘दधती'त्यत्रोदात्तत्ववारणाय अत्रान्तोदात्तादित्यनुवृत्तेरावश्यक- तयाऽस्यापि स्वरोद्देश्यकत्वेन उक्ताजादिग्रहणवैयर्थ्यं तदवस्थमेवेति वाच्यम् ; ‘स्वरत्व- व्याप्यधर्मघटितधर्मावच्छिन्नविषयतायाः प्रतिबन्धकं व्यञ्जनं न भवती’ति परिभाषार्थ- स्वीकारेण ‘तुदद्द्भ्या' मित्यत्र दान्तेऽन्तोदात्तत्वबुद्धिप्रतिबन्धकत्वाभावेऽपि व्यञ्जनस्य भ्यामादौ अजादित्वबुद्धप्रतितबन्धकत्वे मानाभावात् । एवं ‘ह्रस्वनुड्भ्यामि'त्यत्र अन्तोदात्तादित्यनुवृत्त्या तस्य स्वरोद्देश्यकत्वेऽपि उदश्विच्छब्दे ह्रस्वान्तत्वबुद्धेः असम्भवो बोध्यः । तस्य व्याख्यानं तत्र भवो वा चात्वैर्भषिकम्' इत्यत्र, हलन्तत्वेन अन्तोदात्तत्वाभावादत आह मूले- नन्वित्यादि । परिभाषायां 'स्वरविधौ' इत्यस्य 'स्वरकर्मकविधौ' इत्यर्थाङ्गीकारे 'स्वरोद्देश्यकविधौ' इत्यर्थाङ्गीकारे वा 'नोत्तरपदे' इति ज्ञापकासङ्गतिः, तस्य स्वरनिषेधविधित्वेन स्वरकर्मक- विधित्वाभावात् स्वरोद्देश्यकत्वाभावाच्च ; अत आह-स्वरत्वव्याप्येति ।