भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 307, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 307

७९ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २७७ 'लुटि च क्लृप' इति सूत्रस्थेन अनुवृत्त्यर्थकसकलचकारप्रत्याख्यानेन विरुद्धयम् । व्याख्यानादेवानुवृत्तिनिवृत्त्योर्निर्वाह इति तदाशयः । 'कुलि- जाल्लुक्खौ चे'ति सूत्रस्थभाष्यविरुद्धा च । तत्र हि 'द्विगोः ष्ठंश्चे'ति सूत्रात् ष्ठनस्तत्र चेनाप्यनुकृष्टस्य 'खोऽन्यतरस्यामि'त्यस्य चानुवृत्तिं स्वीकृत्य लुक्खौ चेति भाष्ये प्रत्याख्यातम् ॥ ७९ ॥ दयन्नप्युत्तरत्राकर्षकाभावान्न सम्बद्ध्यते । गन्तुमसमर्थस्य परेण बलान्नयने एव कृषधातो, र्लोके प्रयोगः । अत एव परिभाषायां चानुवृत्तमित्यनुक्त्वा चानुकृष्टमित्युक्तम् । भाष्यकृता च चसमुच्चितस्यापि स्वरितत्वादेवोत्तरत्रानुवृत्तिर्वाच्या । तथा च स्वरि- तत्वादेव अव्यवहितोत्तरसूत्रेऽपि तस्यानुवृत्तिसम्भवेन वैयर्थ

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक) · पृष्ठ 307, कुल 373 में से · BharatKosha