परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 306, कुल 373 में से
संदर्भ में पढ़ेंननु ‘वदः सुपि क्यप् चे’ति चेनानुकृष्टस्य यतो ‘भुवो भावे’ इत्यत्रापि अनुवृत्तिः स्यादत आह— चानुकृष्टं नोत्तरत्र ॥ ७९ ॥ —: ❀ :— णमुल्यनुवर्त्तमाने ‘अव्ययेऽयथाभिप्रेते’ति सूत्रे पुनर्णमुल्रहणमस्या ज्ञापकम् ; अन्यथा क्त्वा चेति वदेत् । तद्धि उत्तरत्र उभयोः सम्बन्धार्थम् । उदाहरणानि स्फुटानि । इदमनित्यम् । अत एव ‘तृतीया च होरि’त्यत्र चानुकृष्टाया अपि द्वितीयाया ‘अन्तराऽन्तरेणे’त्यत्र सम्बन्धः । अपरे तु—अत्र चित्रगु-लम्बकर्णादौ तद्गुणत्वातद्गुणत्वविचारस्य काकदन्तपरी- क्षावन्निष्फलत्वेन तदनुरोधेन तद्गुणत्वादिलक्षणस्यानुपयोगात् केवलमाद्यादिशब्दघटित- बहुव्रीहिस्थले एव तत्फलसत्त्वेन तदनुरोधात् यत्र वर्त्तिपदार्थानामन्यपदार्थेन सह घटक- घटितभावस्तत्र तद्गुणत्वमन्यत्रान्यदित्येवं तल्लक्षणं बोध्यम् । भाष्ये सर्वादीत्यादौ तद्- गुणसंविज्ञानोऽतद्गुणसंविज्ञानो वेति सन्देहस्तु अत्राऽऽदिशब्दः शुद्धपूर्वत्वविशिष्टपूर्वत्व- विशिष्टवाची उत अवयवत्वविशिष्टपूर्वत्वविशिष्टवाचीत्येतत्सन्देहप्रयुक्त एव । तथा च ‘सर्वादी’त्यत्र आदिशब्दस्य अवयवत्वादिविशिष्टवाचकतया तद्गुणसंविज्ञान एव । ‘जक्षि- त्यादय’ इत्यत्र तदभावेनातद्गुणसंविज्ञान एवेत्याहुः ॥ ७८ ॥ चानुकृष्टमिति । चकारेणानुवर्त्तमानं परत्र सम्बध्यते इति परिभाषार्थः । इदमनित्यमिति । केचित्तु—अनित्यत्वे न मानम्, नापि फलम् । अत्र शास्त्रे चानु- वृत्तिनिवृत्तिसूचकौ चकारौ स्तः । तत्राव्यवहितसूत्रे चशब्दोऽनुवृत्तिसूचकः, व्यवहितसूत्रे तु निवृत्तिसूचकः । ‘चानुकृष्टमि’त्यत्र चशब्दो निवृत्तिसूचकपरः । तथा च निवृत्तिसूचक- शब्देनानुवर्त्तमानमुत्तरत्र न सम्बद्ध्यत इत्यर्थः, तेन ‘तृतीया च होरि’त्यत्र चशब्दस्य ‘कर्मणि द्वितीये’त्येतदव्यवहितसूत्रस्थितत्वेन निवृत्तिसूचकत्वाभावात् तेनानुवर्त्तमान- द्वितीयापदस्य ‘अन्तराऽन्तरेणे’त्यत्र सम्बन्धे बाधकाभावः । तथा च एतत्परिभाषाविषय- त्वाभाववतामनुवृत्तिसूचकानामन्यव्यवहितोत्तरसूत्रवर्त्तिनां सर्वचकाराणां प्रत्याख्याने च न भाष्यविरोधोऽपि । एवमव्यवहितपूर्वसूत्रस्थस्य ‘छोऽन्यतरस्यामि’त्यस्य चोत्तरसूत्रे ‘द्विगोः ष्ठंश्चे’त्यत्र चेनानुकृष्टस्योत्तरत्रानुवृत्तावपि तस्य निवर्त्तकत्वाभावेन उक्तपरिभाषाऽविषय- तया भाष्यविरोधाभावः स्फुट एवेति प्राहुः । अन्ये तु—अव्यवहितोत्तरसूत्रघटक-चशब्दः समुच्चायको विप्रकृष्टसूत्रस्थश्चानु- कर्षकः । तत्र समुच्चायकचशब्देन समुच्चितशब्दः स्वरितत्वादिनोत्तरत्र गन्तुमर्हति, चानुकृष्टस्तु तावत्सूत्रगमनयोग्यस्वरितत्वाभावेऽपि चकारबलादाकृष्टस्तत्र कार्यं सम्पा-