परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 305, कुल 373 में से
संदर्भ में पढ़ें७७-७८ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २७५ गोमत्यतेः क्विपि 'गोमानि'त्यादौ नुम्सिद्धिः 'नामी'त्यादिसूत्रेषु भाष्ये स्पष्टा ॥ ७७ ॥ बहुव्रीहौ तद्गुणसंविज्ञानमपि ॥ ७८ ॥ —: ✤ :— अपिना अतद्गुणसंविज्ञानम् । तेषां गुणानामवयवपदार्थानां संविज्ञानं विशेष्यान्वयित्वमिति तदर्थः । यत्र समवायसम्बन्धेन सम्बन्ध्यन्यपदार्थस्तत्र प्रायस्तद्गुणसंविज्ञानम्, अन्यत्र प्रायोऽन्यत् । 'लम्बकर्णचित्रगू' उदाहरणे, 'सर्वादीनि, जक्षित्यादय' इति चोदाहरणे । सर्वनामसंज्ञासूत्रे भाष्ये स्पष्टा ॥ ७८ ॥ नामीत्यादिसूत्रेषु भाष्य इति । तत्र हि आमीति न्यासे 'राम+आमि'त्यादौ दीर्घेऽपि ह्रस्वान्तान्नुडित्येतद्वचनसामर्थ्यादनया नुडित्युक्तम् ॥ ७७ ॥ समवायेति । संयोगस्याप्युपलक्षणम् । तथा च संयोग-समवायान्यतरसम्बन्धेन सम्बन्धीत्यर्थः । संयोगेन सम्बन्धित्वं 'नागयज्ञोपवीतिनमानय' इत्यत्र । समवायेन सम्बन्धित्वं 'लम्बकर्णमानये'त्यत्र । प्रायग्रहणाद् 'नागयज्ञोपवीतिनं भोजये'त्यादौ संयोगेन तत्त्वेऽपि न तद्गुणत्वम् । अन्यत्रेति । 'चित्रगुदृष्टसागर' इत्यादावित्यर्थः । अत्र प्रायग्रहण- फलं तु यदि 'चित्रगुरि'त्यत्रैव गवानयनेऽपि तात्पर्यं तदा तद्गुणत्वमेवेति बोध्यम् । केचित्तु — यत्र वर्तिपदार्थविशिष्टस्यान्यपदार्थस्य समभिव्याहृतपदार्थे वैशिष्ट्यं तत्र तद्गुणत्वम्, यत्र तदुपलक्षितस्य वैशिष्ट्यं तत्रातद्गुणत्वमित्यनुगतं तल्लक्षणमाहुः । अन्ये तु — यत्र समभिव्याहृतपदार्थे वर्तिपदार्थानां धर्मिपारतन्त्र्येणान्वयस्तत्र तद्- गुणत्वमेव, अन्यत्रातद्गुणत्वमेवेत्याहुः । परे तु — यत्र समभिव्याहृतपदार्थेऽन्यपदार्थान्वयो वर्तिपदार्थान्वयनान्तरीयकस्तत्र तद्गुणत्वम्, यथा 'लम्बकर्णमानये'त्यत्र अन्यपदार्थानयनं कर्णं विना न सम्भवतीति । 'नागयज्ञोपवीतिनमानय, भोजये'त्यादौ तु समभिव्याहृत क्रियान्वयोऽन्यपदार्थस्य नाग- यज्ञोपवीतसम्बन्धं विनाऽपि सम्भवतीत्यतद्गुणत्वम् । एवं 'चित्रगुरि'त्यत्र गवानयन- तात्पर्येऽपि सर्वत्रातद्गुणत्वं बोध्यम् । 'सर्वादीनी'त्यत्र आदिशब्दोऽवयवत्वविशिष्टपूर्वत्व- विशिष्टवाचक इत्यन्यपदार्थगणान्वयः समभिव्याहृतपदार्थे सर्वशब्दान्वयनान्तरीयक इति तत्र तद्गुणत्वमेव । 'जक्षित्यादय' इत्यत्र आदिशब्दः केवलपूर्वत्वविशिष्टवाचीति न तत्र तद्गुणत्वम् । आदिशब्दस्य अवयवत्वविशिष्टवाचकत्वं कुत्रेत्यत्र तु व्याख्यानमेव शरणम् ; यथा 'हलि सर्वेषामि'त्यत्र सुड्दर्शनेन सर्वादीत्यत्र आदिशब्दोऽवयवत्वविशिष्टवाचीति ज्ञायत इत्याहुः ।