परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 304, कुल 373 में से
संदर्भ में पढ़ें२७४ परिभाषेन्दुशेखरः [ ३ प्रकरणे— वाक्यत्वाभावेन विप्रतिषेधादिशास्त्रवत् कार्यव्यवस्थापकत्वेन उपादान एवेत्यर्थलाभाच्च ॥ ७६ ॥ ननु 'उगिदचामि'त्यत्र धातोश्चेदुगित्कार्यं तर्ह्यञ्चतेरेवेति नियमेन अधातोरेव नुमि सिद्धेऽधातुग्रहणं व्यर्थमत आह— साम्प्रतिकाभावे भूतपूर्वगतिः ॥ ७७ ॥ —: ✿ :— तत्तद्वचनसामर्थ्यन्यायसिद्धेयम् । तत्सामर्थ्यादधातुभूतपूर्वस्यापीत्यर्थेन विध्येकवाक्यत्वाभावेऽपि यत्र कारकत्वव्याप्यधर्मावच्छिन्नबोधकं पदं तत्र शास्त्रे सुपेति नानुवर्तते इत्यस्य वक्तुं शक्यत्वात् । न च 'षष्ठी'ति सूत्रे कारकतद्विशेषो- पादानाभावेनैतदप्रवृत्त्या “अथवा विभाषा षष्ठीसमासो यदा न षष्ठीसमासस्तदा उप- पदसमास” इति भाष्यासङ्गतिरिति वाच्यम् ; विभाषाधिकारस्य पाक्षिकैकार्थीभाव