परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
७७-७८ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २७५ गोमत्यतेः क्विपि 'गोमानि'त्यादौ नुम्सिद्धिः 'नामी'त्यादिसूत्रेषु भाष्ये स्पष्टा ॥ ७७ ॥ बहुव्रीहौ तद्गुणसंविज्ञानमपि ॥ ७८ ॥ —: ✤ :— अपिना अतद्गुणसंविज्ञानम् । तेषां गुणानामवयवपदार्थानां संविज्ञानं विशेष्यान्वयित्वमिति तदर्थः । यत्र समवायसम्बन्धेन सम्बन्ध्यन्यपदार्थस्तत्र प्रायस्तद्गुणसंविज्ञानम्, अन्यत्र प्रायोऽन्यत् । 'लम्बकर्णचित्रगू' उदाहरणे, 'सर्वादीनि, जक्षित्यादय' इति चोदाहरणे । सर्वनामसंज्ञासूत्रे भाष्ये स्पष्टा ॥ ७८ ॥ नामीत्यादिसूत्रेषु भाष्य इति । तत्र हि आमीति न्यासे 'राम+आमि'त्यादौ दीर्घेऽपि ह्रस्वान्तान्नुडित्येतद्वचनसामर्थ्यादनया नुडित्युक्तम् ॥ ७७ ॥ समवायेति । संयोगस्याप्युपलक्षणम् । तथा च संयोग-समवायान्यतरसम्बन्धेन सम्बन्धीत्यर्थः । संयोगेन सम्बन्धित्वं 'नागयज्ञोपवीतिनमानय' इत्यत्र । समवायेन सम्बन्धित्वं 'लम्बकर्णमानये'त्यत्र । प्रायग्रहणाद् 'नागयज्ञोपवीतिनं भोजये'त्यादौ संयोगेन तत्त्वेऽपि न तद्गुणत्वम् । अन्यत्रेति । 'चित्रगुदृष्टसागर' इत्यादावित्यर्थः । अत्र प्रायग्रहण- फलं तु यदि 'चित्रगुरि'त्यत्रैव गवानयनेऽपि तात्पर्यं तदा तद्गुणत्वमेवेति बोध्यम् । केचित्तु — यत्र वर्तिपदार्थविशिष्टस्यान्यपदार्थस्य समभिव्याहृतपदार्थे वैशिष्ट्यं तत्र तद्गुणत्वम्, यत्र तदुपलक्षितस्य वैशिष्ट्यं तत्रातद्गुणत्वमित्यनुगतं तल्लक्षणमाहुः । अन्ये तु — यत्र समभिव्याहृतपदार्थे वर्तिपदार्थानां धर्मिपारतन्त्र्येणान्वयस्तत्र तद्- गुणत्वमेव, अन्यत्रातद्गुणत्वमेवेत्याहुः । परे तु — यत्र समभिव्याहृतपदार्थेऽन्यपदार्थान्वयो वर्तिपदार्थान्वयनान्तरीयकस्तत्र तद्गुणत्वम्, यथा 'लम्बकर्णमानये'त्यत्र अन्यपदार्थानयनं कर्णं विना न सम्भवतीति । 'नागयज्ञोपवीतिनमानय, भोजये'त्यादौ तु समभिव्याहृत क्रियान्वयोऽन्यपदार्थस्य नाग- यज्ञोपवीतसम्बन्धं विनाऽपि सम्भवतीत्यतद्गुणत्वम् । एवं 'चित्रगुरि'त्यत्र गवानयन- तात्पर्येऽपि सर्वत्रातद्गुणत्वं बोध्यम् । 'सर्वादीनी'त्यत्र आदिशब्दोऽवयवत्वविशिष्टपूर्वत्व- विशिष्टवाचक इत्यन्यपदार्थगणान्वयः समभिव्याहृतपदार्थे सर्वशब्दान्वयनान्तरीयक इति तत्र तद्गुणत्वमेव । 'जक्षित्यादय' इत्यत्र आदिशब्दः केवलपूर्वत्वविशिष्टवाचीति न तत्र तद्गुणत्वम् । आदिशब्दस्य अवयवत्वविशिष्टवाचकत्वं कुत्रेत्यत्र तु व्याख्यानमेव शरणम् ; यथा 'हलि सर्वेषामि'त्यत्र सुड्दर्शनेन सर्वादीत्यत्र आदिशब्दोऽवयवत्वविशिष्टवाचीति ज्ञायत इत्याहुः ।
ननु ‘वदः सुपि क्यप् चे’ति चेनानुकृष्टस्य यतो ‘भुवो भावे’ इत्यत्रापि अनुवृत्तिः स्यादत आह— चानुकृष्टं नोत्तरत्र ॥ ७९ ॥ —: ❀ :— णमुल्यनुवर्त्तमाने ‘अव्ययेऽयथाभिप्रेते’ति सूत्रे पुनर्णमुल्रहणमस्या ज्ञापकम् ; अन्यथा क्त्वा चेति वदेत् । तद्धि उत्तरत्र उभयोः सम्बन्धार्थम् । उदाहरणानि स्फुटानि । इदमनित्यम् । अत एव ‘तृतीया च होरि’त्यत्र चानुकृष्टाया अपि द्वितीयाया ‘अन्तराऽन्तरेणे’त्यत्र सम्बन्धः । अपरे तु—अत्र चित्रगु-लम्बकर्णादौ तद्गुणत्वातद्गुणत्वविचारस्य काकदन्तपरी- क्षावन्निष्फलत्वेन तदनुरोधेन तद्गुणत्वादिलक्षणस्यानुपयोगात् केवलमाद्यादिशब्दघटित- बहुव्रीहिस्थले एव तत्फलसत्त्वेन तदनुरोधात् यत्र वर्त्तिपदार्थानामन्यपदार्थेन सह घटक- घटितभावस्तत्र तद्गुणत्वमन्यत्रान्यदित्येवं तल्लक्षणं बोध्यम् । भाष्ये सर्वादीत्यादौ तद्- गुणसंविज्ञानोऽतद्गुणसंविज्ञानो वेति सन्देहस्तु अत्राऽऽदिशब्दः शुद्धपूर्वत्वविशिष्टपूर्वत्व- विशिष्टवाची उत अवयवत्वविशिष्टपूर्वत्वविशिष्टवाचीत्येतत्सन्देहप्रयुक्त एव । तथा च ‘सर्वादी’त्यत्र आदिशब्दस्य अवयवत्वादिविशिष्टवाचकतया तद्गुणसंविज्ञान एव । ‘जक्षि- त्यादय’ इत्यत्र तदभावेनातद्गुणसंविज्ञान एवेत्याहुः ॥ ७८ ॥ चानुकृष्टमिति । चकारेणानुवर्त्तमानं परत्र सम्बध्यते इति परिभाषार्थः । इदमनित्यमिति । केचित्तु—अनित्यत्वे न मानम्, नापि फलम् । अत्र शास्त्रे चानु- वृत्तिनिवृत्तिसूचकौ चकारौ स्तः । तत्राव्यवहितसूत्रे चशब्दोऽनुवृत्तिसूचकः, व्यवहितसूत्रे तु निवृत्तिसूचकः । ‘चानुकृष्टमि’त्यत्र चशब्दो निवृत्तिसूचकपरः । तथा च निवृत्तिसूचक- शब्देनानुवर्त्तमानमुत्तरत्र न सम्बद्ध्यत इत्यर्थः, तेन ‘तृतीया च होरि’त्यत्र चशब्दस्य ‘कर्मणि द्वितीये’त्येतदव्यवहितसूत्रस्थितत्वेन निवृत्तिसूचकत्वाभावात् तेनानुवर्त्तमान- द्वितीयापदस्य ‘अन्तराऽन्तरेणे’त्यत्र सम्बन्धे बाधकाभावः । तथा च एतत्परिभाषाविषय- त्वाभाववतामनुवृत्तिसूचकानामन्यव्यवहितोत्तरसूत्रवर्त्तिनां सर्वचकाराणां प्रत्याख्याने च न भाष्यविरोधोऽपि । एवमव्यवहितपूर्वसूत्रस्थस्य ‘छोऽन्यतरस्यामि’त्यस्य चोत्तरसूत्रे ‘द्विगोः ष्ठंश्चे’त्यत्र चेनानुकृष्टस्योत्तरत्रानुवृत्तावपि तस्य निवर्त्तकत्वाभावेन उक्तपरिभाषाऽविषय- तया भाष्यविरोधाभावः स्फुट एवेति प्राहुः । अन्ये तु—अव्यवहितोत्तरसूत्रघटक-चशब्दः समुच्चायको विप्रकृष्टसूत्रस्थश्चानु- कर्षकः । तत्र समुच्चायकचशब्देन समुच्चितशब्दः स्वरितत्वादिनोत्तरत्र गन्तुमर्हति, चानुकृष्टस्तु तावत्सूत्रगमनयोग्यस्वरितत्वाभावेऽपि चकारबलादाकृष्टस्तत्र कार्यं सम्पा-
७९ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २७७ 'लुटि च क्लृप' इति सूत्रस्थेन अनुवृत्त्यर्थकसकलचकारप्रत्याख्यानेन विरुद्धयम् । व्याख्यानादेवानुवृत्तिनिवृत्त्योर्निर्वाह इति तदाशयः । 'कुलि- जाल्लुक्खौ चे'ति सूत्रस्थभाष्यविरुद्धा च । तत्र हि 'द्विगोः ष्ठंश्चे'ति सूत्रात् ष्ठनस्तत्र चेनाप्यनुकृष्टस्य 'खोऽन्यतरस्यामि'त्यस्य चानुवृत्तिं स्वीकृत्य लुक्खौ चेति भाष्ये प्रत्याख्यातम् ॥ ७९ ॥ दयन्नप्युत्तरत्राकर्षकाभावान्न सम्बद्ध्यते । गन्तुमसमर्थस्य परेण बलान्नयने एव कृषधातो, र्लोके प्रयोगः । अत एव परिभाषायां चानुवृत्तमित्यनुक्त्वा चानुकृष्टमित्युक्तम् । भाष्यकृता च चसमुच्चितस्यापि स्वरितत्वादेवोत्तरत्रानुवृत्तिर्वाच्या । तथा च स्वरि- तत्वादेव अव्यवहितोत्तरसूत्रेऽपि तस्यानुवृत्तिसम्भवेन वैयर्थ
२७८ परिभाषेन्दुशेखरः [ ३ प्रकरणे- ननु अनुदात्तादेरन्तोदात्ताच्च यदुच्यते तद्व्यञ्जनादेर्व्यञ्जनान्ताच्च न प्राप्नोतीत्यत आह- स्वरविधौ व्यञ्जनमविद्यमानवत् ॥ ८० ॥ —: ✤ :— स्वरोद्देश्यके विधावित्यर्थः । 'नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूष- मन्थिष्वि'ति सूत्रे पृथिव्यादिपर्युदासोऽस्या ज्ञापकः ; अन्यथा पृथिव्यादीना- मनुदात्तादित्वाभावादप्राप्तौ तद्वैयर्थ्यं स्पष्टमेव । धर्मिग्राहकमनादेव च स्वरोद्देश्यकविधिविषयमिदम् । अत एव ‘शतुर्नुमो नद्यजादी’ , ‘अचः कर्तृयकी’त्यादौ अजादौ अच इत्यादेश्चारि- तार्थ्यम् । अत एव ‘राजवती’त्यादौ नलोपस्यासिद्धत्वान्नवतीशब्दत्वात् ‘अन्तोऽवत्या’ इति स्वरो न, ‘उदश्वित्वानि’त्यत्र ‘ह्रस्वनुड्भ्यामि’ति मतु- बुदात्तत्वं च नेत्याकरः । स्पष्टं चेदं ‘समासस्ये’ति सूत्रे भाष्ये । स्वरोद्देश्यके विधाविति । स्वरत्वव्याप्यधर्मघटितधर्मनिमित्ताके विधावित्यर्थः, व्याप्यत्वानिवेशे तु नोत्तरपद इत्यस्य स्वरोद्देश्यकत्वाभावात्तदसङ्गतिः स्यात् । अत एवेति । स्वरोद्देश्यकेति निवेक्षादेवेत्यर्थः । चारितार्थ्यमिति । तद्धि ‘तुद- द्भ्यामित्यत्र भ्याम उदात्तत्ववारणार्थम्, सामान्यतोऽविद्यमानवद्भावे तु अत्रापि विभक्तेरजादित्वादजादीति विशेषणं व्यर्थमेव स्यादिति भावः । न च ‘अभ्यस्ताना- मादिरि'त्याद्युदात्तके ‘दधती'त्यत्रोदात्तत्ववारणाय अत्रान्तोदात्तादित्यनुवृत्तेरावश्यक- तयाऽस्यापि स्वरोद्देश्यकत्वेन उक्ताजादिग्रहणवैयर्थ्यं तदवस्थमेवेति वाच्यम् ; ‘स्वरत्व- व्याप्यधर्मघटितधर्मावच्छिन्नविषयतायाः प्रतिबन्धकं व्यञ्जनं न भवती’ति परिभाषार्थ- स्वीकारेण ‘तुदद्द्भ्या' मित्यत्र दान्तेऽन्तोदात्तत्वबुद्धिप्रतिबन्धकत्वाभावेऽपि व्यञ्जनस्य भ्यामादौ अजादित्वबुद्धप्रतितबन्धकत्वे मानाभावात् । एवं ‘ह्रस्वनुड्भ्यामि'त्यत्र अन्तोदात्तादित्यनुवृत्त्या तस्य स्वरोद्देश्यकत्वेऽपि उदश्विच्छब्दे ह्रस्वान्तत्वबुद्धेः असम्भवो बोध्यः । तस्य व्याख्यानं तत्र भवो वा चात्वैर्भषिकम्' इत्यत्र, हलन्तत्वेन अन्तोदात्तत्वाभावादत आह मूले- नन्वित्यादि । परिभाषायां 'स्वरविधौ' इत्यस्य 'स्वरकर्मकविधौ' इत्यर्थाङ्गीकारे 'स्वरोद्देश्यकविधौ' इत्यर्थाङ्गीकारे वा 'नोत्तरपदे' इति ज्ञापकासङ्गतिः, तस्य स्वरनिषेधविधित्वेन स्वरकर्मक- विधित्वाभावात् स्वरोद्देश्यकत्वाभावाच्च ; अत आह-स्वरत्वव्याप्येति ।
? No! Wait, look at line 12: "उदात्तगुणविशिष्टान्तरतमाऽऽरूपोऽस्त्विति" - wait, let's zoom in! "विशिष्टान्तरतम" Then there is a vertical line with a top hook: wait, it's "ा"? Then "ऽ"? Wait, compare "ऽ" with avagraha in:
- "यतोऽनाव" (line 9)
- "हलोऽप्युदात्तादिवदवभासात्" (line 3) In line 3, "हलोऽप्यु": the avagraha is 'ऽ'. In line 12: "उदात्तगुणविशिष्टान्तरतम" Wait, after 'तम': There is 'ा'? No, it's 'ो'? Wait, look at: वि शि ष्टा न्त र त म Then: an avagraha 'ऽ'? Wait, there are TWO shapes like 'ऽ': Wait, no! That is: 'ा' then 'ज'? No! Wait, look at footnote line 27: "उदात्तादेः स्थानित्वेन अच एव क्लृप्तत्वात् नकारस्य अतथात्वात् स्वराप्राप्त्या..." Now look at line 12 again: "न चाऽऽदिरेव नकार उदात्तगुणविशिष्टान्तरतम..." What does the Vivarana say in line 23?
has:
स्तम्भु...? Yes, ‘स्तम्भु...’!
Look at the single quote before स्तम्भु:
It's ‘स्तम्भु’!
Let's look at the character before स्तम्भु:
It is an opening single quote: ‘!
Wait, look at it: श्व्योः then ‘ then स्तम्भु’!
Wait, what is the mark above? There's a dot? No, it's the quote mark ‘!
Wait, is there an anusvara on स्तम्भु?
Wait, the sutra starts with स्तम्भु: स्तम्भुस्तुञ्चु... (P. 3.1.58).
So the commentator abbreviated it as:
‘स्तम्भु...’ or ‘स्तम्भु’ इति सूत्राभ्यां चङङोर्विधानात् ।
Let's verify:
Sutra 1: विभाषा धेट्श्व्योः (3.1.49) -> prescribes चङ् (चङ्-विधायकम्)!
Sutra 2: स्तम्भु... (3.1.58) -> prescribes अङ् (अङ्-विधायकम्)!
Hence: सूत्राभ्यां चङङोर्विधानात् (चङ् + अङ् = चङङ्)!
Brilliant! That makes 100% perfect grammatical sense!
Let
८२-८४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २८१ एते च प्रत्ययाऽप्रत्ययसाधारणे, 'दिव औदि'त्यादौ सञ्चारितत्वात् । वर्णग्रहणे चानयोरप्रवृत्तिरिति स्पष्टम् 'ओङ आप' इत्यत्र भाष्ये । येनानुबन्धेन सानुबन्धकत्वं द्व्यनुबन्धकत्वादि वा तदनुच्चारणे एवैषा धर्मिग्राहकमानात्, तेन 'जश्शसोरि'त्यत्र नैषेति निरनुबन्धकत्वात् तद्धितशस एवात्र ग्रहणं स्यादिति न शङ्क्यम् । एवमन्त्याऽन्यतरानुबन्धोच्चारणे एव, तेन 'वनो र चे'त्यादौ ङ्वनिप्- क्वनिपोग्रहणसिद्धिः । एकानुबन्धकग्रहणे सम्भवतीति त्वर्थो न भाष्यादिसम्मत इत्यन्यत्र विस्तरः ॥ ८२-८३ ॥ ननु 'कुटीर' इत्यादौ स्वार्थिकत्वात् स्वार्थिकानां प्रकृतितो लिङ्ग- वचनानुवृत्तेरन्यथाप्राप्तत्वात् पुंस्त्वानुपपत्तिः, 'अपकल्पमि'त्यत्र नपुंसकैक- वचनयोरनुपपत्तिश्चेत्यत आह— दिव औदित्यादाविति । तत्र हि 'दिव औत्वे धातुप्रतिषेध' इति वार्तिकं प्रथम- परिभाषया प्रत्याख्यातम् । दिवुधातुरुदित्त्वात् सानुबन्धकः । प्रातिपदिकं त्वव्युत्प- न्नत्वान्निरनुबन्धकमिति तदाशयः । अप्रवृत्तिरिति । अत एव 'अधीते' इत्यत्रेङः सानुबन्धकत्वेऽपि सवर्णदीर्घसिद्धिः । ओङ आप इत्यत्र भाष्य इति । तत्र हि निरनुबन्धकपरिभाषया प्रथमाद्विवचनस्यैव ग्रहणं प्राप्नोतीत्याशङ्क्य "नैषा वर्णग्रहणेषु प्रवर्तते" इत्युक्तम् । न शङ्क्यमिति । न चात्र उक्तरीत्या परिभाषाप्रवृत्त्यभावे कुतो न तद्धितशसोः ग्रहणमिति वाच्यम्; साहचर्यपरिभाषया तदग्रहणसिद्धेः । न भाष्यादिसम्मत इति । अत एव 'अणिगुण' इत्यत्र घिणुणोऽग्रहणम्; अन्यथा एकानुबन्धकस्यासम्भवेन उक्तपरिभाषाया अप्रवृत्तौ घिणुणो ग्रहणं दुर्वारं स्यादिति भावः । एवं 'झय' इत्यत्र मतुब्शब्देन ड्मतुपोऽग्रहणसिद्धिरिति दिक् । परे तु—उक्तपरिभाषाद्वयस्थाने स्वाघटकानुबन्धाघटितस्य ग्रहणे स्वाघट- कानुबन्धघटितस्य ग्रहणं नेति एका परिभाषा स्वीकार्या, स्वपदेन बोधको ग्राह्यः । 'वनो र चे'त्यादौ तु असम्भवादेव सर्वेषां ग्रहणसिद्धिः । एवञ्च 'जश्शसोरि'त्यादौ धर्मिग्राहकमानादिना अर्थविशेषकल्पनाऽपि नेति महालाघव- मित्याहुः ॥ ८२-८३ ॥ कुटीर इति । ह्रस्वा कुटीत्यर्थे 'कुटीशमी'ति रप्रत्ययः । ३६
२८२ परिभाषेन्दुशेखरः [ ३ प्रकरणे- क्वचित्स्वाथिकाः प्रकृतिताे लिङ्गवचनान्यतिवर्तन्ते ॥ ८४ ॥ —: ❖ :— ‘णचः स्त्रियाम्’ इति सूत्रे स्त्रियामित्युक्तिरस्या ज्ञापिका ; अन्यथा ‘कर्मव्यतिहारे णच् स्त्रियाम्’ इति स्त्रियामेव विधानात् किं तेन । स्पष्टा चेयं बहुज्विधायके भाष्ये ॥ ८४ ॥ ननु ‘सुपथी नगरी’ ति ‘युवोरनाकावि’ति सूत्राभाव्योदाहृत ‘इनः स्त्रियामि’ति कप् स्यादत आह— समासान्तविधिरनित्यः ॥ ८५ ॥ —: ❖ :— ‘प्रतेरंशवादयस्तत्पुरुषे’ इत्यन्तोदात्ततायांश्वादिषु राजञ्शब्दपाठो- ऽस्या ज्ञापकः ; अन्यथा टचैवान्तोदात्तत्वे सिद्धे किं तेन । प्रकृतित इति । षष्ठ्यन्ताद्दाद्यादित्वात्तसिः । स्वार्थिकानां प्रकृत्यर्थबोधकत्वेन प्रत्ययत्वात् प्रकृत्यर्थलिङ्गसंख्याबोधकत्वस्य न्याय्यतया सर्वत्र स्वार्थिकत्वेन तद्द्वा- नस्याऽऽवश्यकत्वेऽपि तयोरर्थयोः खण्डशक्तिस्वीकारेण सति गमके एतत्त्यागाल्लोक- सिद्धत्वाच्च तत्तल्लिङ्गभानमित्यत उक्तम्—क्वचिदिति । न च स्वार्थिकानां प्रकृत्यर्थे- तरार्थबोधकत्वेन कथमेकार्थीभावसम्भव इति वाच्यम् ; स्वार्थिकानां प्रमेयत्वा- वच्छिन्नबोधकत्वस्य कल्पनेन तेन सह प्रकृत्यर्थनामभेदान्वयस्वीकारेण तत्त्वस्य सुवचत्वात्, शब्दस्यापि शाब्दबोधे भानन्नैत्येन तत्तत्प्रत्ययरूपार्थस्य प्रकृत्यर्थेतरत्वेन एकार्थीभावस्य सूपपादत्वात्, क्विबन्तलिडादिशब्देषु अनेकपदघटितत्वाभावेऽपि एकार्थीभावोपपत्तये स्ववृत्तित्व-स्वपर्याप्तशक्तिक्ज्ञानप्रयोज्यज्ञानविषयत्वोभयसम्बन्धेन पदविशिष्टशक्तिपर्याप्त्यधिकरणत्वरूपैकार्थीभावस्य अभ्युपेयतया स्वार्थिकप्रत्ययान्तेषु तत्सत्त्वेन अदोषश्चेति दिक् । ज्ञापकमाह—णच इति । बहुज्विधायके इति । तत्रत्येन तुशब्देनैव अयमर्थो भाष्ये निरूपित इति बोध्यम् ॥ ८४ ॥ टचैवेति । ननु ‘प्रतेरंशवादय’ इत्यस्य ‘प्रतेः परीभूतास्तत्पुरुषघटका अन्तो- दात्ता’ इत्यर्थात् टिलोपोत्तरमवशिष्टस्य जान्तभागस्य ‘एकदेशविकृत’न्यायेन राजन्- शब्दत्वेन सतिशिष्टतया रेफाकारस्योदात्तविधानाय सार्थक्यात् कथं वैयर्थ्यमिति वाच्यम् ; ‘प्रतेः पराश्वाद्युत्तरपदकस्य तत्पुरुषस्यान्त उदात्तः’ इति तदर्थेन उक्तरेफा- कारस्य स्वरप्राप्त्यभावात् । टचो नित्यत्वे तु प्रतिराजशब्दे चित्त्वादेवान्तोदात्तत्व- सिद्धेस्तद्वैयर्थ्यस्य सूपपादत्वात् । नागेशनये अक्तपरिमाणत्वेन राजन्शब्दत्वस्य जान्ते तेन न्यायेनातिदेशासम्भवाच्च । ३६
८५८-६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २८३ 'द्वित्रिभ्यां पाद्मूर्धस्वि'ति स्वरविधायके भाष्ये स्पष्टेयम् ॥ ८५ ॥ ननु 'शतानी'त्यादौ नुमि कृते षट्संज्ञा प्राप्नोति, ततश्च लुक् स्यात्, तथा 'उपादास्ते' त्यत्राऽऽत्त्वे कृते 'स्थाध्वोरिच्च' इतीत्त्वं प्राप्नोतीत्यत आह- सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य ॥ ८६ ॥ — ❀ — ननु 'राज्ञीं प्रतिगतः प्रतिराज्ञिरि'त्यत्र अन्तोदात्तत्त्वायांश्वादिषु राजन्शब्द- पाठश्चरितार्थः, समासान्तविधौ लिङ्गविशिष्टपरिभाषाया अनित्यत्वेन टचो प्राप्त्या- ऽन्तोदात्ताप्राप्तेः। न चात्र स्वरविधौ कर्तव्येऽपि लिङ्गविशिष्टपरिभाषाया अनित्यत्व- मिति वाच्यम् ; अस्याः स्वरविधौ सङ्घातग्रहणे एव भाष्ये दोषकथनेन अवयव- ग्रहणेऽप्रवृत्तौ मानाभावादित्यरुचेराह- द्वित्रिभ्यामिति । तथा च 'द्वित्रिभ्यां पाद्न्- मूर्धस्वि'ति कृतसमासान्तमूर्धशब्दपाठेन द्व्यादिभ्यः परस्य कृतसमासान्तमूर्धशब्दस्य बहुव्रीहावेव सत्त्वेनार्थत एव तल्लाभाद् बहुव्रीहिग्रहणमस्यां मानम् । परिभाषासत्त्वे तु समासान्तस्यानित्यत्वेन 'द्विमूर्धा' इत्यत्र उक्तस्वरप्रवृत्तये अकृतसमासान्तमूर्धशब्दपाठस्य आवश्यकतया बहुव्रीहीतरसमासे एतदप्रवृत्तये बहुव्रीहिग्रहणं चरितार्थम् । केचित्तु - 'ऋक्पूरब्धूंः पथामि'ति अकृतसमासान्तनिर्देशोऽस्या ज्ञापक इत्याहुः । अन्ये तु- 'राजस्वरे' इत्यावर्त्त्य 'प्रतिराज्ञिरि'त्यत्रापि राजस्वरत्वेन 'प्रतेरंश्वादय' इत्यस्याप्रवृत्त्या मूलोक्तज्ञापकमपि युक्तमेवेत्याहुः । परे तु- 'राजस्वरे' इति पृथक्कोटिः, तेन 'राज्ञीकुमार' इत्यत्र 'राजा चे'ति स्वरो न । ब्राह्मणकुमार्योर्लिङ्गविशिष्टपरिभाषाया अनित्यत्वात् 'राजब्राह्मणी, राजकुमारी' इत्यत्र उक्तस्वरो नेत्यविशेषात् 'प्रतिराज्ञिरि'त्यत्रापि राजस्वरसत्त्वात् मूलोक्तज्ञापकसङ्गतिरित्याहुः ॥ ८५ ॥ लुक् स्यादिति । ननु 'ष्णान्ता' इत्यत्र उपदेशे ष्णान्ता इत्यर्थेन नात्र दोष इति चेन्न । उपदेशे इत्यस्य नकार षकारयोरन्वये सापेक्षत्वेन समासासम्भवादित्यादि- दूषणस्य मनोरमायामुक्तत्वेन तेन वारणासम्भवात्, अन्यार्थमावश्यकया उक्तपरिभाषया निर्वाह उपदेशे इत्यपूर्वकथने गौरवेण तदनादरणाच्च । न च 'प्रियपञ्चान' इत्यत्र लुगभावाय 'षड्भ्य' इत्यत्र विहितविशेषणत्वस्वीकारान्नात्र लुक्प्राप्तिरिति वाच्यम्; 'षड्भ्यो विहिते'त्यस्य जसादिनिरूपिततदाद्यभिन्नषड्भ्यः परेत्यर्थकत्वेन उक्तदोषताद- वस्थ्यात् । न च विभक्तिसापेक्षत्वेन नुमः षट्संज्ञादृष्ट्याऽसिद्धत्वेन तदप्राप्तिरिति वाच्यम्; संज्ञाशास्त्रस्य विधिनिमित्तनिमित्तकत्वेन लुगर्थसंज्ञाया अपि विभक्तिसापेक्षत्वेन नुमो बहिरङ्गत्वायोगात् । नुम्निमित्तविभक्तेर्विनाशोन्मुखत्वेन 'अकृतव्यूह'परिभाषया नुमभावस्त्वत्र न शङ्क्यः; लुको बहिरङ्गत्वाभावेन बहिरङ्गेणान्तरङ्गनिमित्तविनाश- सम्भावनाया असत्त्वेन तस्या नुम्प्रवृत्त्यभावसम्भावनाप्रयोज्यत्वाभावेन च तत्प्रवृत्तेः सर्वथैव असम्भवात् ।
१८४ परिभाषेन्दुशेखरः [ ३ प्रकरणे- सन्निपातः = द्वयोः सम्बन्धस्तन्निमित्तो विधिस्तं सन्निपातं यो विहन्ति तस्यानिमित्तम् । उपजीव्यविरोधस्यायुक्तत्वमिति । उपजीव्येति । तथा च 'उपादास्ते'त्यत्र एज्विषयत्वमुपजीव्य जायमानात्त्वस्य घुसंज्ञाद्वारा स्वोपजीव्यैज्विषयत्वविघातकं 'स्थाध्वोरि'त्येतद्विहित-सिज्धर्मिकत्त्वं प्रति निमित्तत्वे उपजीव्यविरोधः स्पष्ट एवेति तदप्रवृत्तिरिति भावः । एवं 'शतानी'- त्यत्रापि बोध्यम् । न च उपादास्ते'त्यत्र अनया आत्त्वोपजीव्यविघातककित्त्वस्याप्रवृत्ता- वपि इत्त्वस्याप्रवृत्तौ मानाभाव इति वाच्यम् ; 'सन्नियोगशिष्टानामि'त्युत्तरपरिभाषया प्रधानीभूतकित्त्वस्याप्रवृत्त्या तत्सन्नियोगशिष्टेत्त्वस्य अप्रवृत्तिरित्याशयात् । इदमत्रावधेयम्—'इको यणची'त्यादिविधिशास्त्रैः तादृशस्वविधेयघटितस्य साधुत्वमितरस्य तदर्थकस्यासाधुत्वं बोध्यते, तेनैक्यरूपेण 'सुधी+उपास्य, सुध्यु- पास्ये'त्यादीनामसाधुत्वं सिद्ध्यति । एवं गोशब्दस्य साधुत्वबोधनाद् गाव्यादीना- मसाधुत्वं भवति । तथा च परिनिष्ठितस्यापि 'सुद्ध्युपास्यः' इति विसर्गान्तस्य उपजीव्येतीति । उपजीवयतीति उपजीव्यः, ण्यन्तात् कर्तरि बाहुलकात् यत् ; येन स्वस्योपकृतं तस्य विरोधोऽन्याय्य इति भावः । ननु परिभाषायां सन्निपातलक्षणविधेः तद्विघातकशास्त्रं प्रति अनिमित्तत्वबोधनेऽपि स्वीयोद्देश्यतावच्छेदकाक्रान्ततया सन्निपातविघातकशास्त्रस्य प्रवृत्तिर्वारयितुमशक्या, विधेये तत्सं- सर्गे वा स्वीयोद्देश्यतावच्छेदकव्यापकत्वस्य भाननियमात् ; अतस्तत्तात्पर्यं स्फोटयन्नाह – इद- मत्रावधेयमिति । अयम्भावः—परिभाषायां यदि तद्विघातशब्दो भावव्युत्पन्नः, विधिशब्दश्च कर्म- क्तिप्रत्ययान्तो विधेयपरः ; तदा सन्निपातविघातकशास्त्रीयविधेये सङ्कोचो भवति । येन स्वस्यो- पकृतं तस्य विघातोऽयुक्त इति हि धर्मशास्त्रम्, तद्रीत्याऽयं सङ्कोचः । अमुमेव पक्षं "यदि तु लाघवात् भावव्युत्पन्न" इत्यादिना ग्रन्थेन व्याख्याकारो वक्ष्यति । यथा केनचित् अधिकारिणा राजपुरोहितेन राजसभायां प्रवेशितः कश्चित् तदतिशायिपाण्डित्यवानपि धर्मशास्त्रज्ञः तद्विघातो मा भूदिति तद्विरोधं परिहरन्नेव व्यवहरति, तथा पूर्वप्रवृत्तशास्त्रेण साधुत्वार्थमभ्यनुज्ञातमपि शास्त्रं पूर्वशास्त्रीयस्वोपजीव्यनिमित्तसन्निपातविघातमकुर्वदेव तत्र तन्न प्रवर्तते । यदि तु परिभाषायां तद्विघातपदे कर्मण्यण्, विधिपदञ्च करणक्तिप्रत्ययेन शास्त्रपरम्, तदा सन्निपातलक्षण- शास्त्रीयाभ्यनुज्ञादानवाक्ये एव सङ्कोचः । अयमेव नीतिशास्त्रप्रयुक्तः सङ्कोचः कथ्यते । नीतिशास्त्रज्ञो हि राज्याधिकारी स्वापेक्षया गुणवत्तरं विद्वांसं न प्रवेशयि'यति स्वोन्मूलनभिया इति भावः । तत्रादौ तत्तच्छास्त्रैश्च स्वोत्तरप्रवृत्तिमच्छास्त्रस्य अभ्यनुज्ञानमपि विधीयते इत्यत्र प्रमाणमाह—इको यणचीत्यादिविधीत्यादि । विसर्गान्तस्य असाधुत्वापत्तिरिति । ननु "साधुत्वानुशासनेऽस्मिन् शास्त्रे" इति भाष्य- प्रामाण्येन शास्त्रैः साधुत्वमेव विधीयताम्, तथा सति न तस्यासाधुत्वापत्तिरिति चेन्न । लुग्विधायक- शास्त्रे बोधितसाधुत्वस्यापि 'सुधी+उपास्यः' इत्यस्य साधुत्वापत्त्या याज्ञे कर्मणि प्रयोगापत्तेः ।
८६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २८५ असाधुत्वापत्तिः, 'उदिते जुहोति, अनुदिते जुहोती'तिवत् शास्त्रद्वयप्रामाण्यात् पर्यायापत्तिर्वा स्यादिति 'इको यणची'त्यादीनां मदुत्तरप्रवृत्तिमत्ता शास्त्रेण यस्य साधुत्वं बोध्यते, तदपि साध्विति स्वोत्तरप्रवृत्तिमच्छास्त्रस्य अभ्यनुज्ञादानमपि विधेयम् । तत्तच्छास्त्रैः साधुत्वविधानफलं च 'अष्टाध्यायीस्थसाधुत्वविधायकशास्त्रं साधुशब्दघटके- ष्वेव प्रवर्तते' इति नियमपरिरक्षणमेव, तेन 'गगरी'शब्दघटकेकारादिषु 'इको यणची'त्यादी- नामप्रवृत्तिः सिद्ध्यति । स्वोत्तरप्रवर्तमानशास्त्रान्तरबोधितासाधुत्वासमानाधिकरणं साधुत्वं पुण्यजनकतावच्छेदकमिति वैयाकरणसमयः । एवञ्चानया तत्तच्छास्त्रस्थाभ्य- नुज्ञावाक्यीय-स्वोत्तरप्रवृत्तिमत्पदार्थे मदीयसन्निपातविघातकातिरिक्तेनेति सङ्कोचः क्रियते, तेन 'बुद्धावि'त्यत्र 'अच्च घेरि'ति शास्त्रेण स्वसन्निपातविघातक-टाब्बिघेरभ्य- नुज्ञादानाभावेन तदप्रवृत्तिसिद्धिः । अनित्यत्वविषये तु एतत्परिभाषाप्रयोज्यसङ्कोचघटक- स्वसन्निपातविघातकशास्त्रे तत्तच्छास्त्रातिरिक्तत्वेन सङ्कोचः; यथा 'कष्टाये'ति निर्देशेनास्या अनित्यत्वेन 'ङेर्यं' इत्यस्य अभ्यनुज्ञावाक्यघटक-सन्निपातविघातकपदार्थे 'सुपि चे'त्यतिरिक्तत्वेन सङ्कोचाद् 'रामाये'त्यत्र तस्य 'ङेर्यं' इत्येतत्सन्निपातविघात- कत्वेऽपि दीर्घसिद्धिः । माधवानुयायिनस्तु—'ङेर्यं' इत्यस्य अभ्यनुज्ञावाक्ये एतत्परिभाषाप्रयुक्तसङ्कोचे तत्तच्छास्त्रातिरिक्तत्वेन सङ्कोचकरणापेक्षया अनित्यत्वविषये अभ्यनुज्ञावाक्ये 'सन्नि- पात'परिभाषाप्रयोज्यसङ्कोचाभाव एव क्रियते, तेन 'नामी'ति सूत्रारम्भसामर्थ्ये- नैतस्या अनित्यत्वात् 'ह्रस्वनद्याप' इत्यस्याभ्यनुज्ञावाक्ये सन्निपातपरिभाषाप्रयोज्य- सङ्कोचाभावेन अविशेषात् 'रायो हली'त्यस्याप्यभ्यनुज्ञादानसत्त्वेन 'प्रराणामि'त्यत्रा- ऽऽत्त्वसिद्धिः । 'ह्रस्वनद्याप' इत्येतदभ्यनुज्ञावाक्ये सन्निपातपरिभाषाप्रयुक्तसङ्कोचा- भावादेव 'रामाणामि'त्यत्र परत्वात् 'सुपि चे'ति दीर्घस्यैव प्रवृत्त्या 'नामी'त्यस्य 'अग्नीनामिन्दूनामि'ति अनकारान्तोदाहरणदानं भाष्यकृतः स्वरसत उपपद्यते । न च 'इनान्नलोप' इति सूत्रस्थभाष्यविरोधेन ईदृशप्रकारस्यायुक्तत्वम्, तत्र हि 'नान्नलोप' इति न्यासे 'यज्ञानाम् यत्नानामि'त्यत्र लोपमाशङ्क्य “इदमिह सम्प्रधार्यं लोपः क्रियतां दीर्घो वा” इत्युक्त्वा “परत्वान्न लोप” इत्युक्तम्, 'नामी'त्यपेक्षया लोपस्य परत्वेऽपि 'सुपि चे'त्यपेक्षया परत्वाभावेन त्वदुक्तरीत्या नुडुत्तरं 'सुपि चे'त्यस्य प्रवृत्तौ बाधकाभावात् नलोपापेक्षयाऽपि तस्य परत्वात्प्रवृत्त्यापत्त्या भाष्यविरोधः स्पष्ट एवेति वाच्यम् ; सुपि चे'त्यपेक्षया लोपस्य नित्यत्वेन प्रतिपदोक्तत्वेन च पूर्वं प्रवृत्तिरिति भाष्याशयकल्पनेनादोषादिति प्राहुः । तन्न ; 'ह्रस्वो नपुंसक' इत्युत्तरं
नियमपरिरक्षणमेवेति । अयम्भावः—साधुत्वं द्विविधम्, एकं शास्त्रप्रवृत्त्यर्हत्वरूपं शास्त्र- प्रक्रियानिर्वाहाय परिकल्पितं प्रकृतिप्रत्ययादिगतार्थवत्त्वमिव, अपरं पुण्यजनकतावच्छेदकीभूतो व्याकरणशास्त्रज्ञानाभिव्यङ्ग्यो शब्दनिष्ठो जातिविशेषो मुख्यमेव । तच्च 'यदिह परिनिष्ठितत्वेन ज्ञाप्यं तत्साधु' इत्यर्थापत्तिकल्पितवाक्येन बोध्यत इति । तदुक्तं मञ्जूषायाम्—'साधूनामेव प्रत्ययविधावुद्देश्यत्वेन प्रकृतित्वम्, खण्डसाधुत्वबोधनद्वारा समुदायसाधुत्वबोधकं व्याकरणमर्थ- वत्त्वबोधनवत्' इति । एतेन साधुत्वाऽसाधुत्वरूपविरुद्धधर्मविच्छिन्नस्य बोधनादिदं शास्त्र- मप्रमाणमेवेति अपास्तम् ।
सर्वत्रैव तत्सन्निपातविघातकस्य 'इकोऽचि विभक्तावि'ति नुमः प्राप्त्या तत्सूत्रारम्भ- सामर्थ्येन सन्निपातपरिभाषाया अनित्यत्वावश्यकत्वेनात्रापि 'ह्रस्वो नपुंसक' इत्यस्याभ्यनुज्ञावाक्ये सङ्कोचसामान्याभावे ह्रस्वविधायकशास्त्रेण 'इकोऽची'ति शास्त्र- स्येव 'ह्रस्वस्य पिति कृति'ति शास्त्रस्याप्यभ्यनुज्ञाततया सुल्वादिशब्देषु तुगापत्तेर्दुर्वा- रत्वात् । मन्मते तु 'ह्रस्वो नपुंसके'त्यस्याभ्यनुज्ञावाक्ये 'इकोऽची'त्यतिरिक्तं यन्म- त्सन्निपातविघातकं तदतिरिक्तनेति विशेषरूपेण सङ्कोचात् 'ह्रस्वस्य पिती'त्यस्या- भ्यनुज्ञादानाभावेन तदप्रवृत्तेः । एवं 'ह्रस्वनद्यांप' इत्यस्याभ्यनुज्ञावाक्येऽपि 'नामी'- त्येतदतिरिक्तं यन्मत्सन्निपातविघातकं तदतिरिक्तनेत्येवंविशेषरूपेण सङ्कोचात् 'नामी'त्यस्याभ्यनुज्ञादानेऽपि 'रायो हली'त्यस्य तदभावेन तदप्रवृत्त्या 'प्रराणामि'- त्यस्य साधुत्वाभावात् । एवं 'श्रीपाये'त्यत्र 'सुपि चे'त्यनेन ह्रस्वा
८६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २८७ न्यायमूलेषा । 'ह्रस्वनद्याप' इत्येतदतिरिक्तं यत्स्वसन्निपातसम्पादकं शास्त्रं तत्सन्निपातविघातकातिरिक्तौ दीर्घौ भवतीत्यर्थान्न दोषः । अत्र पक्षेऽपि 'प्ररीणामि'त्यत्र आत्त्वस्य 'ह्रस्वनद्याप' इत्येतत्सन्निपातविघातकत्वेन 'रायो हली'त्यस्याप्रवृत्तिः । 'नामी'त्यत्र सूत्रारम्भसामर्थ्येन उक्तरूपेण सङ्कोचेऽप्यत्र तथासङ्कोचे मानाभावः । वस्तुतस्तु—अयं द्वितीयप्रकार एव युक्तः । प्रथमकल्पे च 'बुद्धौ' इत्यादौ 'अच्च घेरि'ति शास्त्रेण स्वनििमत्तसन्निपातविघातक-टाब्विधेयः, उक्तन्यायसहकारेण अभ्यनुज्ञादानाभावेऽपि उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयस्यौत्सर्गिकतया तदीयो- द्देश्यतावच्छेदके सङ्कोचं विना टाप्प्रवृत्तेर्दुर्वारत्वपत्तिः । किञ्चैवं 'नाव्यमि'- त्यत्र उक्तदिशाऽनया दोषवारणासम्भवेन नौप्रतिषेधस्य 'हल्स्वरप्राप्तावि'ति परिभाषा- ज्ञापकत्वासम्भवः । किञ्च—पूर्वनिर्दिष्टपरिभाषार्थे एव ग्रन्थकर्तुः सामञ्जस्ये 'स्वप्रवृत्तेः प्राक् स्वनििमत्तभूत' इति वक्ष्यमाणग्रन्थेन परिभाषया अर्थान्तरोपवर्णनस्य नैर्थ- क्यापत्तिः । किञ्च—संज्ञाशास्त्रस्य साधुत्वविधायकत्वाभावेन पूर्वशास्त्राभ्यनुज्ञाया अभावात् 'कुम्भकारेभ्य' इत्यादौ अनयाऽव्ययसंज्ञाया वारणपरभाष्यासङ्गतिः । किञ्च परिभाषायां विघातपदस्याणन्तत्वकल्पनया सन्निपातलक्षणविधेस्तद्विघातकशास्त्रप्रवृत्ति- निरोधकत्वकल्पनेन अल्पदोषप्रयोजक्योपजीव्यविरोधनिवारकत्वेऽपि महादोषप्रयोजकस्य स्वेन स्वोपजीव्यवियातकरणस्यान्याय्यत्वबोधने शास्त्रकारस्याविवेकित्वापत्तिः । विघातपदे भावघञ्कल्पनेन सन्निपातलक्षणविधेः स्वनििमत्तभूतसन्निपातविघात- नििमत्तत्वसामान्याभावबोधकत्वकल्पने तु स्वरसत एवोभयं सिद्ध्यतीति दिक् । न्यायमूलेषेति । केचित्तु—'न तिसृ'ति सूत्रमत्र ज्ञापकम्; अन्यथा 'तिसृ- णामि'त्यत्र तत्परिभाषाभावे 'तिसृ+नामि'त्यवस्थायामन्तरङ्गत्वात् ङीपि तद्वैयर्थ्या- पत्तिः । एतत्सत्त्वे तु प्रकृतिप्रत्ययसन्निपातप्रयोज्य-तिस्रादेशस्य ङीपं प्रत्यनिमित्त- टाप्प्रवृत्तेर्दुर्वारत्वापत्तिरिति । टापः प्रवृत्तावपि तद्धटितस्य साधुत्वाभ्यनुज्ञाभावेन लोके प्रयोगाभावाददोष इत्यरुचेराह—किञ्चैवमिति । ज्ञापकत्वासम्भव इति । गुणविधानपक्षे तदसम्भवेऽपि लाघवात् गुणमात्रविधानपक्षे तत्सम्भवोऽस्त्येव, फलमुखगौरवन्तु न दोषावहमित्यरुचेराह—किञ्चेति । नैरर्थक्यापत्ति- रिति । इष्टापत्त्या आह—किञ्चेति । वारणपरभाष्यासङ्गतिरिति । एतत्समाधानन्तु 'तदुदाहरणपरभाष्यप्रामाण्येन' इत्यादिना मूले एव स्फुटमत आह—किञ्चेति । वस्तुतस्तु—उभयविधरूपेण तत्तद्विधेये धर्मशास्त्रप्रयुक्तसङ्कोचापेक्षया अभ्यनुज्ञातवाक्ये एव नीतिशास्त्रप्रयुक्तसङ्कोच एव लाघवात् दोषाभावाच्च प्रथमप्रकारोऽपि निर्दुष्ट एवेति बोध्यम् । अत्र कल्पे नीतिशास्त्रमूलको “विरोधिंन नोपजीवयेत्” इति न्यायो मूलम् । सन्निपात- लक्षणविधित्वमस्या लिङ्गम् । द्वितीयकल्पे “धर्मशास्त्रमूलकः उपजीव्यविरोधो न न्याय्यः” इति हि न्यायोऽस्य लिङ्गम् । सन्निपातविघातकशास्त्रत्वञ्च अस्या लिङ्गमिति तात्पर्यम् ।
२८८ परिभाषेन्दुशेखरः [ ३ प्रकरणे- अत एवात्र सन्निपातशब्देन न पूर्वपरयोः सम्बन्ध एव, किन्तु विशेष्य- विशेषणसन्निपातोऽपि गृह्यते । अत एव 'ग्रामणिकुलमि'त्यादौ नपुंसकह्रस्व- त्वेऽपि 'पिति कृती'ति तुग् न ; प्रातिपदिकाजन्तत्वसन्निपातेन जातस्य ह्रस्वस्य तद्विघातकत्वात् । तुक्यजन्तत्वविघातः स्पष्ट एव । त्वेन तदप्रवृत्त्या सूत्रसार्थक्यं स्पष्टमेव । न च 'न षडि'ति निषेधः शङ्क्यः ; स्वस्रादिगणे तिसृ-चतसृपाठस्यानार्षत्वेन तन्निषेधायोगात् । अत एव 'कृन्मेजन्तः' इति सूत्रे भाष्ये 'तिस्रश्चतस्र' इत्यत्र ङीपमाशङ्क्य "आचार्यप्रवृत्तिर्ज्ञापयति न तिसृ- चतसृभावे ङीब् भवतीति । "यदयं न तिसृचतस्रिति नामि दीर्घत्वप्रतिषेधं शास्ती"- त्युक्तमिति । तन्न युक्तम् ; 'तिस्रोऽतिक्रान्तानामति तिस्रिणामि'त्यत्र ङीपि 'लिङ्गविशिष्ट'- परिभाषया ङीबन्ते उपसर्जनत्वात् 'गोस्त्रियोरिति ह्रस्वे 'नामी'ति दीर्घे च प्राप्ते न्यूनसमुदायापेक्षत्वेन अन्तरङ्गत्वात्पूर्वं ह्रस्वे कृते प्राप्तदीर्घवारणाय उक्तसूत्रस्य आवश्यकत्वेन ज्ञापकत्वासम्भवात् । परे तु-'अतितिस्री + नामि'ति स्थिते 'नामी'त्यस्यापि प्रतिपदोक्तत्वरूपा- न्तरङ्गत्वेन नित्यत्वेन चोभयोः समत्वात् परत्वाद्दीर्घोत्तरं ह्रस्वे 'लक्ष्ये लक्षण'न्यायेन पुनर्दीर्घाप्राप्त्या उक्तसूत्रस्य वैयर्थ्येन ज्ञापकत्वं सुस्थमेवेति प्राहुः । यत्तु-'वाचि ह्रस्वश्चे'ति न्यासेनैव 'श्रियाम्, श्रीणामि'त्यादीष्टरूपसिद्धौ 'वामि, ङिति ह्रस्वश्चे'ति योगद्वयकरणमस्यां ज्ञापकम् । ज्ञापिते तु 'श्रीणामि'त्यत्र अजादित्वमुपजीव्य जायमानेन नदीत्वेन नुट्द्वारा अजादित्वविघातेनानया नुड्- प्राप्त्या 'वामी'त्यस्याऽऽवश्यकत्वम् । तत्सत्त्वे तु नुड्विशिष्टे आम्त्वेन सन्निपात- विघाताभावः स्पष्ट एव । तव तु अजादित्वस्य वर्णत्वव्याप्यधर्मघटितत्वेन 'यदागम'- परिभाषायाऽऽनयनाभावेन तद्विरोधः स्पष्ट एव । न च 'मतिश्चोमा चे'ति द्वन्द्वेऽच्- परत्वेन मतिशब्दस्य नदीत्वेन घित्वाभावात् पूर्वनिपातानापत्त्या ईदृशन्यासस्य वक्तु- मशक्यत्वमिति वाच्यम् ; 'मतिश्च चित्रश्चे'ति द्वन्द्वे सिद्धान्ते ङित्परत्वेऽपि नदीत्वा- भावार्थं प्रत्ययाक्षेपस्याऽऽवश्यकत्वेन उक्तदोषासम्भवादिति प्राहुः । तन्न ; 'वापि ह्रस्वश्चे'ति न्यासेन सिद्धेः सिद्धान्तेऽप्युक्तयोगविभागवैयर्थ्येन तस्योक्तांशज्ञापकत्वा- सम्भवात्, 'ङिति ह्रस्वश्चे'त्यत्र नित्यस्त्रीत्वसम्बन्धो 'वामी'त्यत्र च 'अतिश्रियामति- श्रीणाम्, ब्राह्मणानामि'ति सिद्धयर्थं तदसम्बन्ध इति भाष्यसम्मतसिद्धान्तस्य असिद्धया तथाविधैकयोगस्य कर्तुमशक्यत्वाच्च । स्पष्टं चेदं तत्रैव सूत्रे शब्देन्दुशेखरटिप्पणे । अत एवेति । न्यायमूलत्वादैवेत्यर्थः । विशेष्यविशेषणसन्निपात इति । अभेद इत्यर्थः । अत एवेति । अभेदस्यापि ग्रहणादेवेत्यर्थः । तुक्यजन्तत्वविघात इति । इदं अभेद इत्यर्थ इति । तस्याप्युपजीव्यत्वात्, परिभाषाया सन्निपातपदेन उपजीव्यमात्रस्य ग्रहणात् । ज्ञापकसिद्धत्वाङ्गीकारे तु तत्साजात्यात् पौर्वापर्यलक्षणसन्निपात एव गृह्येतेति भावः ।
८६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २८९ न च अर्थाश्रयत्वेन ह्रस्वस्य बहिरङ्गतयाऽसिद्धत्वम् ; अर्थकृतबहि- रङ्गतवानाश्रयणस्योक्तत्वात् । किञ्च ‘षत्वतुकोरसिद्ध’ इत्येतद्बलात् कृति- तुग्ग्रहणाच्च तुग्विधौ बहिरङ्गपरिभाषाया अप्रवृत्तेः । सर्वविधसन्निपातग्रहणादेव वर्णाश्रयः प्रत्ययो वर्णविचालस्यानिमित्तं स्यादित्येतत् परिभाषादोषनिरूपणावसरे वार्तिककृतोक्तम् । नहि प्रत्ययः पूर्वपरसन्निपातनिमित्तकः, स एव च सन्निपातशब्देन गृह्यत इति मत्वा न प्रत्ययः सन्निपातनिमित्तक इति शङ्कायां तदभ्युपेत्याङ्गसंज्ञा तर्ह्यनिमित्तं स्यादित्येकदेशिनोक्तमिति न तद्भाष्यविरोधः । किञ्चैवं ‘शैवो गार्ग्यो वैनतेय’ इत्यादावपि अङ्गसंज्ञाया लोपनिमित्तत्वानापत्त्या वर्णाश्रय इत्यस्य वैयर्थ्यम् । ह्रस्वस्यैव तुगागम इत्यभिप्रायेण । तत्पक्षे ह्यागमसन्निधाने तद्विशिष्टेऽच्त्वेऽपि तकारस्य समुदायावयवत्वम् अवयवावयवन्यायगम्यं पाश्चात्यमिति आगमविधानकालिकाजन्तत्व- विघातो दुर्वार एव । ह्रस्वान्तस्य तुगागमे तु यदागमन्यायेन विधानवेलायामेव अव- यवत्वंग्रह इति नास्त्यजन्तविघात इति बोध्यम् । वार्तिककृतोक्तमिति । अन्यथा पूर्वपरसन्निपाताभावादेतद्विरोधः स्पष्ट एव । एक- देशिनोक्तमिति । ननु विशेष्यविशेषणसन्निपातं बुद्ध्वा प्रवृत्तं भाष्यं कुतो नैकदेशीति चेन्न । मानाभावात्, 'जराया जरस्'त्यादिसूत्रारम्भसामर्थ्येन आतिदेशिकसन्निपात- विघाताभावमादाय तदप्रवृत्तिर्नेत्यत्र अतिदेशपदेन एकदेशविकृतन्यायातिरिक्तस्य ग्रहणेन अङ्गत्वस्य विघाताभावादङ्गसंज्ञा तर्ह्यनिमित्तमिति भाष्ये एवैकदेश्युक्तिकथनस्य युक्तत्वात् । अत एव ‘अजरांसी’त्यत्र जरसादेशोत्तरं नुम् भाष्ये उक्तः ; अन्यथा अङ्गत्व- स्याऽऽदेशेन विघातेन नुमोऽप्राप्त्या तदसङ्गतिः । अत एव च ‘वर्णाश्रयः प्रत्यय’ इति प्रत्युक्तम् ; अन्यथा ‘शैव’ इत्यत्रापि अङ्गत्वविघातेन वर्णाश्रय इति कथनमयुक्तमेव स्यात् । अत एव कतेर्नामीति वक्तव्ये सामान्येन नामीति दीर्घविधानेन सन्निपातपरिभाषाया अनित्यत्वोपवर्णनं शेखरोक्तं सङ्गच्छते ; अन्यथा ‘कतीनामि’त्यत्र तेन दीर्घे षट्त्वविघातः स्पष्ट एवेति दिक् । ननु विशेष्य-विशेषणसन्निपातग्रहणादेव ‘ग्रामणिपुत्रे’त्यादौ तुग्वारणसम्भवेऽन्त- तद्विशिष्टेऽच्त्वेऽपीति । इदमग्रिमञ्च नव्यमतेन बोध्यम् । सूत्रारम्भसामर्थ्येनेति । अङ्गत्वमुपजीव्य जायमान आदेशोऽङ्गत्वस्य विघातकः कथं भवेदिति सूत्रमेव व्यर्थं स्यादिति भावः । एकदेशविकृतन्यायेति । इदमुपलक्षणम्—स्थानि- वद्भावस्य, अन्यथा न्यायस्य सर्वविकारतया अप्राप्तेः । नुमोऽप्राप्त्येति । जरसोऽप्राप्त्येति युक्तः पाठः । वस्तुतः—‘गौरी’त्यादौ अतिव्याप्ति- परक-‘कृन्मेजन्त’भाष्यासङ्गत्या स्थानिवद्भावोपलक्षकत्वं वक्तुमशक्यमिति चिन्त्यमेतत् ॥ ८६ ॥ ३७
२१० परिभाषेन्दुशेखरः ३ प्रकरणे- 'ग्रामणिकुलम्, ग्रामणिपुत्र' इत्यादौ उत्तरपदनिमित्तके ह्रस्वत्वे यथाकथञ्चिद् बहिरङ्गपरिभाषयाऽपि वारणं सम्भवतीति 'कृन्मेजन्त' इत्यत्र 'ह्रस्वस्य पिती'ति सूत्रे चैकदेशिना तया परिभाषया तुग्वारितो भाष्ये। अत एव परिभाषाफलत्वेनेदमुक्तं 'कृन्मेजन्त' इति सूत्रे वार्तिक- कृतेति केचित् । सन्निपातलक्षणविधित्वमस्या लिङ्गम् । स्वप्रवृत्तेः प्राक् स्वनिमित्त- भूतो यः सन्निपातस्तद्विघातस्य स्वातिरिक्तशास्त्रस्य स्वयमनिमित्तमिति फलति । नन्वेवं 'रामाये'त्यादौ 'सुपि चे'ति दीर्घानापत्तिः, अदन्ताङ्ग-ङेसन्नि- पातेन जातस्य यादेशस्य तद्विघातकत्वात् । न च यजादिवत्सापेक्षदीर्घस्य बहिरङ्गतयाऽसिद्धत्वान्नात्र सन्निपातविघात इति वाच्यम् ; आरोपिता- रङ्गपरिभाषया तुग्वारणं भाष्योक्तमसङ्गतमित्यत आह—उत्तरपदनिमित्तके ह्रस्वत्वे यथाकथञ्चिदिति । ईधातोः क्विपि ह्रस्वे 'इ+कुलमि'त्यत्र बहिरङ्गत्वभावात् तुग्वारणा- यास्य आवश्यकत्वमिति तदाशयः । एकदेशिनेति । 'नाजानन्तर्य'परिभाषाऽज्ञानेन प्रवृत्त- त्वादस्य एकदेश्युक्तित्वमिति भावः । अत एवेति । अस्यैकदेश्युक्तित्वादेवेत्यर्थः । परिभाषा- फलत्वेनेति । सन्निपातपरिभाषाफलत्वेनेत्यर्थः । सन्निपातलक्षणविधित्वमिति । सन्निपातलक्षणशास्त्रत्वमित्यर्थः । विधिशब्दे करणे क्तिप्प्रत्ययात् । एवं चास्या 'न तिसृ'ति शास्त्रदेशीयत्वेन सापादिकतया त्रिपाद्यास्तादृश- शास्त्रत्वप्रकारकज्ञानाभावात् तत्रेयं न प्रवर्तते । अत्र मानं च 'मय उञो वो वा' इत्यनेन वकारविधानमेव । तस्यास्त्रिपाद्यां विधानं वत्वस्यासिद्धत्वादनुस्वाराभावार्थम् । अस्याः त्रिपाद्यां प्रवृत्तौ तु तयैवानुस्वारवारणे 'इको यणची'त्युत्तरं 'मय उञो वो वे'ति पाठेन यणोऽनुवृत्त्या चेष्टसिद्धौ तद्वैयर्थ्यं स्पष्टमेव । अत एव च 'नर्तिष्यती'त्यत्रेष्टः सकार- निमित्तकत्वेऽपि षत्वम्, 'धुक्षीष्टे'त्यत्र धत्वस्य दादित्वनिमित्तकत्वेऽपि भष्भावः, 'जग्ध- मि'त्यत्र जग्धादेशस्य तकारनिमित्तत्वेऽपि धत्वम्, 'द्रक्ष्यतो'त्यत्र 'षढोरि'ति कत्वस्य सकारनिमित्तत्वेऽपि षत्वम्, 'सञ्छम्भुरि'त्यत्र तुकः शकारनिमित्तकत्वेऽपि 'शश्छोऽटी'ति च्छत्वं चेत्यादि सिद्ध्यतीति भावः । स्वप्रवृत्तेः प्रागिति । अत्र तद्विघातकेति कान्तपाठस्त्वयुक्तः, किन्तु तद्विघातस्येति घञन्तपाठ एव युक्तः; अन्यथाऽनन्वयापत्तेः । स्वातिरिक्तशास्त्रस्य = 'सुपि चे'त्याद्यति- रिक्तस्य 'ङेर्य' इत्यादिशास्त्रस्य । स्वप्रवृत्तेः प्राक् = 'सुपि चे'त्यादिप्रवृत्तेः प्राक् । स्वनिमित्त- भूत = 'सुपि चे'त्यादिशास्त्रनिमित्तभूतः । तथा च स्वनिमित्तभूतः सन्निपातः स्वनिमित्त- भूतसन्निपातसम्पादकस्य स्वातिरिक्तशास्त्रस्य निमित्तभूतः सन्निपातश्चेत्युभयविधोऽपि गृह्यते इति सूचितम् । एतदुभयविधसन्निपातसङ्ग्रहायैव 'स्वप्रवृत्तेः प्राक् स्वनिमित्त- भूत' इत्युभयोपादानम् । एतद्ग्रन्थबोधितसङ्कोचप्रकारः प्राक् प्रदर्शित एवेति बोध्यम् ।
८६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २९१ सिद्धत्वेऽपि वस्तुतस्तद्विघातस्य जायमानत्वेनैतत्प्रवृत्तेः । किञ्च अन्तरङ्गे कर्तव्ये बहिरङ्गस्यासिद्धत्वेऽपि तत्र कृते तस्यासिद्धत्वे मानाभावः । किञ्च आतिदेशिकसन्निपातविघाताभावमादाय एतत्प्रवृत्तौ ‘गौरी’त्यादौ सम्बुद्धि- लोपेऽपि स्थानिवत्त्वेन ह्रस्वनिमित्तसन्निपातविघाताभावात् तत्रैतस्य अति- व्याप्तिपर-‘कृन्मेजन्त’-इतिसूत्रस्थभाष्यासङ्गतिः । सन्निपातस्य अशास्त्रीयत्वा- त्रात्र स्थानिवत्त्वमिति चेत् ; तर्ह्यत्रासिद्धत्वमपि कथमिति विभावय, अशास्त्रीयेऽसिद्धत्वाप्रवृत्तेः, ‘ईदूदेदि’ति सूत्रे कैयटेन स्पष्टमुक्तत्वात् । एवञ्च पूर्वत्रासिद्धीयेऽपि कार्ये एतत्परिभाषाप्रवृत्तिर्भवत्येवेति चेन्न । ‘कष्टाये’ति निर्देशेनैतस्या अनित्यत्वात् । ययोः सन्निपातस्य विघातकं शास्त्रं तयोः सन्निपातनिमित्तकविधौ उपादानमपेक्षितमिति तु नाऽऽग्रहः । अत एव ‘दाक्षिरि’त्यत्र अकारान्त- प्रकृतीन् सन्निपातनिमित्ताङ्गसंज्ञाऽनया परिभाषयाऽल्लोपस्य निमित्तं न स्यादित्याशङ्क्य अनित्यत्वेन समाहितं ‘कृन्मेजन्त’ इति सूत्रे भाष्ये—‘‘न- हाङ्गसंज्ञायामदन्तस्याङ्गसंज्ञे’’त्युक्तमस्ति । न च ‘कुम्भकारेभ्य, आधय’ इत्यादौ अव्ययसंज्ञाया अनया परिभाषया वारणपरभाष्यासङ्गतिः, अनया परिभाषया लुङ्मा भूत्, अव्ययत्वं तु स्या- देव, लुका हि तदीयसन्निपातस्य विघातो नाव्ययसंज्ञया, संज्ञाफलं त्वकच् स्यादिति वाच्यम् ; एतदुदाहरणपरभाष्यप्रामाण्येन साक्षात्परम्परया वा वस्तुतस्तद्विघातेति । ननु शास्त्रप्रवृत्तौ च तद्बुद्धिरेव नियामिका, न तु वास्तविकी तत्सत्ता ; अन्यथा ‘हर+एही’त्यत्र यलोपस्यासिद्धत्वेऽपि वृद्धिर्दुर्वारैत्य- रुचेराह—किञ्चेति । ननु ‘डेर्य’ इत्यस्य प्रवृत्तेः प्रागेवाऽभ्यनुज्ञाकाले ‘मत्सन्निपात- विघातकः क’ इति जिज्ञासायां ‘सुपि चे’त्यस्योपस्थित्या तस्य बहिरङ्गत्वमिति न तत्कृतं विघातं पश्येदित्यरुचेराह—किञ्चेति । अशास्त्रीयत्वादिति । वस्तुतः—अत्र प्रत्ययसत्ताबोधनमेव आवश्यकम्, सन्निपातस्त्वार्थसमाजग्रस्त एवेति चिन्त्यमेत- दिति केचित् । समाहितमिति । यद्यपीदं भाष्यमेकदेशि ; तथाप्यत्रांशे मानं भवत्येवेति बोध्यम् । परम्परयेति । लुग्द्वारा एत्वनिमित्तविभक्तिनाशादित्यर्थः । नन्वेवं ‘सत्यूखतुः’ इत्यत्र सवर्णदीर्घानापत्तिः, लिड्विघातक-लुक्प्रयोजका-ऽम्सम्पादकगुरुमत्वसम्पादक- त्वेन दीर्घस्य परम्परया द्वित्वोपजीव्यलिड्विघातकत्वादिति चेन्न । विधिद्वया- घटितपरम्पराया एव ग्रहणेनादोषात् । अत्र-चैतद्भाष्यमेव मानम् ।
स्वनिमित्तसन्निपातविघातकस्य स्वयमनिमित्तमित्यर्थेनादोषात् । एतेन अत्र अकच् स्यादित्यपास्तम् । न च कार्यकालपक्षे लुगेकवाक्यतापन्नसंज्ञाबाधेऽपि अकजेकवाक्यता- पन्ना स्यादिति वाच्यम् ; अन्तरङ्गायां तदेकवाक्यतापन्नसंज्ञायां बहिरङ्ग- गुणादेरसिद्धत्वात् । लुगेकवाक्यतापन्ना तु न, गुणादितोऽन्तरङ्गोभयोरपि शब्दतः सुबाश्रयत्वात् । 'न यासयोरि'ति निर्देशाच्चैषा अनित्या, तेन नातिप्रसङ्गः । स्पष्टा चेयं 'कृन्मेजन्त' इति सूत्रे भाष्ये । अस्या अनित्यत्वे फलानि भाष्ये परिगणितानि । वर्णाश्रयः प्रत्ययो वर्णविचालस्यानिमित्तम् 'दाक्षिः' । आत्त्वं पुग्विधेः 'क्रापयति' । पुग् ह्रस्वस्य 'अदीदपत्' । त्यदाद्यकारष्टाब्बिधेः 'यासे'ति । इड्विधिराकार- लोपस्य 'पपिवान्' । 'ह्रस्वनुड्भ्यां मतुप्, अन्तोदात्तादुत्तरपदादि'ति मतुब्विभक्त्युदात्तत्वं पूर्वनिघातस्य 'अग्निमान्, परमवाचा' । नदीह्रस्वत्वं सम्बुद्धिलोपस्य 'नदि, कुमारी'त्यादि । यादेशो दीर्घत्वस्य 'कष्टाय' । इतोऽन्यत्र प्रवृत्तिरेव, 'दोषाः खल्वपि साकल्येन परिगणिता' इति- भाष्योक्तेरित्यन्यत्र विस्तरः ॥ ८६ ॥ अन्तरङ्गायामिति । अकचः स्वार्थिकत्वादिति भावः । शब्दत इति । अकच् तु सुबुत्पत्त्यनन्तरं प्रवर्तमानोऽपि न तथा सुबाश्रय इति भावः । पुग्विधेः क्रापयतीति । ननु 'आतिदेशिके'त्यत्र यदागम न्यायातिरिक्तत्वेन सङ्कोचः । अत एव 'साम आकमि'त्यत्र सुटस्त्वामोऽवयवत्वान्न सन्निपातविघात इत्युक्तं भाष्य-शेखरयोः । किञ्च 'आतिदेशकसन्निपातविघाताभावेऽप्येषा प्रवर्तते' इत्यत्र बीजं हि अतिदेशेन तत्त्वबुद्धावपि अतिदेशप्रवृत्तेः पूर्वक्षणेषु विघातोऽस्त्येवेति, तच्च यदागम न्यायविषये नास्ति, विधानकाल एव अवयवत्वेन बोधनात् । एवं च न 'क्रापयती'त्यत्र अनित्यत्वफलमिति चेन्न । 'क्रीङ्जीनामि'त्यनेन णिजव्यवहित- पूर्ववर्तिनिर्दिश्यमानावयवेच आत्त्वविधानेन पुकि सति निर्दिश्यमानत्वविघातेन अनित्यत्वस्याऽऽवश्यकत्वात् । यदागमन्यायेन निर्दिश्यमानत्वं तु न ; 'अपिबत्' इत्यत्रापि अडागमसहितस्य पिबादेशापत्तेरित्युक्तमधस्तात् । अग्निमानिति । अन्तोदात्तत्व- मुपजीव्य जायमानेन मतुबुदात्तत्वेन शेषनिघातद्वारा तद्विघातः स्पष्ट एवेति बोध्यम् । इतोऽन्यत्रेति । एतदुदाहरणात् 'एचोऽयवायाव्' इत्यादिनिर्देशाच्च सन्धिकार्ये- ऽप्येषा न प्रवर्तते । तत्राऽऽत्त्वमुपजीव्य जायमानेन उत्वेन गुणद्वारा तद्विघातः स्पष्ट एव । अत एव 'गवाग्रमि'त्यादिसिद्धिः ॥ ८६ ॥
८७ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २९३ ननु 'पञ्चेन्द्रण्यो देवता अस्य, पञ्चेन्द्र' इत्यादौ 'द्विगोर्लुगि'त्यणो लुकि 'लुक् तद्धित' इति स्त्रीप्रत्ययलुक्यानुकः श्रवणापत्तिरत आह— सन्न्नियोगशिष्टानामन्यतरापाय उभयोरप्यपायः ॥ ८७ ॥ —: ❃ :— अत्र च 'बिल्वकादिभ्यश्छस्य लुगि'ति सूत्रस्थं छग्रहणं ज्ञापकम्। तद्धि सन्न्नियोगशिष्टानामिति । 'सन्न्नियोगशिष्टौ च सन्न्नियोगशिष्टौ च सन्न्नियोगशिष्टौ च सन्न्नियोगशिष्टाः, अन्यतरश्च अन्यतरश्च अन्यतरश्च अन्यतरे, तेषामपाये' इति च विग्रहः ; अत एव बहुवचनोपपत्तिरिति—केचित् । परे तु—द्वित्वविशिष्टसन्न्नियोगशिष्टत्वावच्छिन्नबोधकतया सन्न्नियोगशिष्ट- पदस्य बहुवचनान्तत्वोपपत्तिः । एकशेषेण तु न निर्वाहः ; यावतामेकशेषः क्रियेत तावतां ग्रहणेऽपि अवशिष्टानांग्रहणप्रसङ्गात्, विवक्षितसंख्याज्ञानं च दुर्लभम्, 'उभयोरि'त्यत्र 'उभयेषामि'त्यापत्तिश्चेत्याहुः । अन्यतरसमभिव्याहारे सन्न्नियोगशिष्टानामिति बहुवचनमनुपपन्नमत आह—सन्न्नियोग- शिष्टौ चेति । परे त्विति । सन्न्नियोगशिष्टत्वम्—समुच्चयेन विहितत्वं द्वयोर्द्वयोरेव दृष्टमिति प्रत्येकं बोधकवत् सन्न्नियोगशिष्टत्वेन उभयबोधकतात्पर्येण एकशेषमन्तराऽपि सन्न्नियोगशिष्टपदप्रयोगो भवितुमर्हति, अन्यतरपदसमभिव्याहाररूपतात्पर्यग्राहकवशात्, 'घटौ' इतिवत्। तदुक्तं सरूप- सूत्रभाष्ये—"अर्थौ अर्थौ प्रति च यत् तदपि प्रत्यर्थम्, अर्थान् अर्थान् प्रति च यत् तदपि प्रत्यर्थमेव" इति ; तदाऽऽह—द्वित्वविशिष्टेति । ननु द्वित्वस्य द्वित्वत्वेन शक्यतावच्छेदककोटौ प्रवेशे नित्यद्विवचनान्तप्रयोगोपपत्तिः, ताभ्यां सन्न्नियोगशिष्टो 'ङीप् च' इति एकवचनान्तप्रयोगानुपपत्तिश्च । लक्षणया तथा बोधनसम्भवेऽपि सामान्यतो द्वित्वत्वेन द्वित्वप्रवेशे अनभीप्सितद्वित्ववतामपि बोधप्रसङ्गः । तत्तद्द्वित्वत्वेन द्वित्वप्रवेशे तु विवक्षितानां तावतां ज्ञानं दुर्लभं स्यादिति चेत्—सत्यम् । वस्तुतो द्वित्वविशिष्टस्य सन्न्नियोग- शिष्टत्वेन बोधकमिति तदर्थात् । एतेन सन्न्नियोगशिष्टपदं द्वित्वविशिष्टसन्न्नियोगशिष्टत्वावच्छिन्न- बोधकमित्ययुक्तमेव, ताभ्यां सन्न्नियोगशिष्टो 'ङीप् चे'ति दीक्षितोक्त्या द्वित्वस्य सन्न्नियोगशिष्टपद- प्रवृत्तिनिमित्तकोटौ अप्रवेशादिति कैश्चिदुक्तं तत्परास्तम् । उभयात्मकाश्च यावन्तो सन्न्नियोगशिष्टाः, तेषां बहुत्वान् बहुवचनान्ततोपपत्तिः । अत एव एकशेषेण न निर्वाहः, प्रत्यर्थंशब्दन्निवेश इति पक्षे हि एकशेषारम्भात् ; तदेतदाह – एकशेषेण तु नेत्यादि । अवशिष्टानांग्रहणप्रसङ्गादिति । यत्तु—अष्टाध्याय्यां यावन्तः सन्न्नियोगशिष्टास्तेषां सर्वेषामेकशेषकरणेन अवशिष्टाभाव एव इति। तन्न ; तावतां सन्न्नियोगशिष्टानामास्माकमेकशेष- प्रवृत्तिकाले ज्ञानासम्भवात् । आचार्याणां तज्ज्ञानसम्भवेऽपि अस्मदुद्देशेन तेषां शास्त्रप्रवृत्तेः, अस्माकं तज्ज्ञानस्य तदानीमसत्त्वेन वाक्यार्थबोधविलयप्रसङ्गात् । कथञ्चित् तत्सम्भवेऽपि तावता- मेकशेषकरणे गौरवापाताच्च ।
२९४ परिभाषेन्दुशेखरः [ ३ प्रकरणे- छमात्रस्य लुग्बोधनद्वारा कुकोऽनिवृत्तिर्यथा स्यादित्यर्थम् । कृतकुगागमा नडाद्यन्तर्गता बिल्वादय एव तत्र निर्दिष्टा बिल्वकादिशब्देन ।
समुच्चयेन विहितघटकान्यतरस्यापाये सम्भाविते तदुभयोरप्यनुत्पत्तिः कर्तव्येति परिभाषार्थः । यथाश्रुतं तु न सम्यक् ; एकस्यापाये उभयस्याभावात् । वस्तुतः—एकसत्त्वे उभयाभावबुद्धावपि 'एकस्मिन्नष्टे उभयं नष्टमि'ति व्यव- हारस्य लोके असत्त्वेन यथाश्रुतार्थेऽपि दोषविरहः । अत्र केचित्—इयं परिभाषा धर्मिग्राहकमानाल्लुग्विषया, तेन 'फौल्लिरि'त्यत्र उकारनाशेऽपि न लत्वस्य निवृत्तिः । 'खेयमि'त्यत्र इकारनिवृत्तावपि क्यपो न निवृत्तिः । 'तार्तीयीक' इत्यत्र सम्प्रसारणनाशेऽपि न प्रत्ययनाश इति वदन्ति । तन्न युक्तम् ; 'वातातीसाराभ्यामि'ति निष्पन्नवातकिशब्दादपत्येऽणि टिलोपे कुको निवृत्त्यभावापत्त्या 'वात' इति रूपासिद्धिप्रसङ्गात् । लुगितरत्र प्रवृत्तिस्वीकारादेव 'ऐनेय' इत्यत्रैतत्परि- भाषाप्रयोजनकारनिवृत्त्यभावाय पूर्वस्य स्थितौ स्थानिवद्भावाश्रयणमाकरोक्तं सङ्गच्छते । अस्याः परिभाषायाश्चान्यतरस्य प्रधानस्य निवृत्तौ तदितरस्याप्रधानस्य निवृत्तिरित्यर्थ आश्रीगते, तेन 'फौल्लिरि'त्यत्र निष्ठादेशप्रकरणे लत्वस्यैव प्राधान्या- दुत्वस्याप्रधानत्वेन तन्निवृत्तावपि न लत्वनिवृत्तिः । एवमन्यत्र प्रत्ययविधानप्रकरणेन इत्व-सम्प्रसारणयोरप्राधान्यात् न तन्निवृत्तावनया प्रत्ययनिवृत्त्यापत्तिः । एवम् 'ऐनेय' इत्यत्र च ङीप एव प्राधान्यात्तन्निवृत्तौ प्राप्तनकारनिवृत्त्यभावार्थं स्थानिवत्त्वमप्या- वश्यकमिति दिक् । केचित्तु—'अचः परस्मि'ति सूत्रे भावसाधनविधिशब्दान्त-पूर्वविधिशब्दे- ऽप्यविशेषात् पञ्चमीसमासाश्रयणेन 'फौल्लिरि'त्यादावपि पूर्वत्वेन दृष्टात् फकारादेः परस्थ लकारादेः स्थितौ कर्तव्यायां स्थानिवद्भावेन अन्यतरापायाभावेन लकारादे- र्निवृत्तिः सुलभा । न च पञ्चमीसमासपक्षेऽव्यवहितपरस्यैव ग्रहणम्, अत एव 'हे गौरि'त्यत्र सुलोपो नेति प्रकृते तदसम्भव इति वाच्यम् ; 'हे गौरि'त्यत्र पञ्चमी- समासप्रयुक्तस्थानिवद्भावस्य अनित्यत्वेनाप्रवृत्तावपि इष्टप्रयोगे तदप्रवृत्तकल्पने मानाभावादिति वदन्ति । यथा स्यादिति । एतत्परिभाषाभावे च कुको निवृत्तेरप्राप्तौ तद्वैयर्थ्यं स्पष्ट- मेवेति भावः । कृतकुगागमा इति । व्याख्यानादिति भावः, तेन कप्रत्ययान्तबिल्वक-
सम्भावित इति । अन्यथा 'पञ्चभिरेनीभिः क्रीत, पञ्चैत' इत्यत्र नकारापायेऽपि तकारश्रवणं न स्यात् ; 'देवदत्तहन्तृहत'न्यायेन । स्थानिनिवृत्त्याऽऽदेशस्थित्योरित्यर्थ उभयो- रित्यस्य इति—परे । रूपासिद्धिप्रसङ्गादिति । ननु इष्टापत्तिरेवेति चेदाह—लुगितरेत्रेति । इति दिगिति । नन्वेवमन्यतरस्य अप्रधानत्वेऽन्वाचयशिष्टत्वं स्यात्, न तु समुच्चयं- शिष्टत्वमित्यस्वरस इति समाधानान्तरमाह—केचित्त्विति । व्याख्यानादितीति । 'बिल्वकादिभ्यः' इति गणेन निर्देशसामर्थ्यादित्यर्थः । नहि