परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 314, कुल 373 में से
संदर्भ में पढ़ें१८४ परिभाषेन्दुशेखरः [ ३ प्रकरणे- सन्निपातः = द्वयोः सम्बन्धस्तन्निमित्तो विधिस्तं सन्निपातं यो विहन्ति तस्यानिमित्तम् । उपजीव्यविरोधस्यायुक्तत्वमिति । उपजीव्येति । तथा च 'उपादास्ते'त्यत्र एज्विषयत्वमुपजीव्य जायमानात्त्वस्य घुसंज्ञाद्वारा स्वोपजीव्यैज्विषयत्वविघातकं 'स्थाध्वोरि'त्येतद्विहित-सिज्धर्मिकत्त्वं प्रति निमित्तत्वे उपजीव्यविरोधः स्पष्ट एवेति तदप्रवृत्तिरिति भावः । एवं 'शतानी'- त्यत्रापि बोध्यम् । न च उपादास्ते'त्यत्र अनया आत्त्वोपजीव्यविघातककित्त्वस्याप्रवृत्ता- वपि इत्त्वस्याप्रवृत्तौ मानाभाव इति वाच्यम् ; 'सन्नियोगशिष्टानामि'त्युत्तरपरिभाषया प्रधानीभूतकित्त्वस्याप्रवृत्त्या तत्सन्नियोगशिष्टेत्त्वस्य अप्रवृत्तिरित्याशयात् । इदमत्रावधेयम्—'इको यणची'त्यादिविधिशास्त्रैः तादृशस्वविधेयघटितस्य साधुत्वमितरस्य तदर्थकस्यासाधुत्वं बोध्यते, तेनैक्यरूपेण 'सुधी+उपास्य, सुध्यु- पास्ये'त्यादीनामसाधुत्वं सिद्ध्यति । एवं गोशब्दस्य साधुत्वबोधनाद् गाव्यादीना- मसाधुत्वं भवति । तथा च परिनिष्ठितस्यापि 'सुद्ध्युपास्यः' इति विसर्गान्तस्य उपजीव्येतीति । उपजीवयतीति उपजीव्यः, ण्यन्तात् कर्तरि बाहुलकात् यत् ; येन स्वस्योपकृतं तस्य विरोधोऽन्याय्य इति भावः । ननु परिभाषायां सन्निपातलक्षणविधेः तद्विघातकशास्त्रं प्रति अनिमित्तत्वबोधनेऽपि स्वीयोद्देश्यतावच्छेदकाक्रान्ततया सन्निपातविघातकशास्त्रस्य प्रवृत्तिर्वारयितुमशक्या, विधेये तत्सं- सर्गे वा स्वीयोद्देश्यतावच्छेदकव्यापकत्वस्य भाननियमात् ; अतस्तत्तात्पर्यं स्फोटयन्नाह – इद- मत्रावधेयमिति । अयम्भावः—परिभाषायां यदि तद्विघातशब्दो भावव्युत्पन्नः, विधिशब्दश्च कर्म- क्तिप्रत्ययान्तो विधेयपरः ; तदा सन्निपातविघातकशास्त्रीयविधेये सङ्कोचो भवति । येन स्वस्यो- पकृतं तस्य विघातोऽयुक्त इति हि धर्मशास्त्रम्, तद्रीत्याऽयं सङ्कोचः । अमुमेव पक्षं "यदि तु लाघवात् भावव्युत्पन्न" इत्यादिना ग्रन्थेन व्याख्याकारो वक्ष्यति । यथा केनचित् अधिकारिणा राजपुरोहितेन राजसभायां प्रवेशितः कश्चित् तदतिशायिपाण्डित्यवानपि धर्मशास्त्रज्ञः तद्विघातो मा भूदिति तद्विरोधं परिहरन्नेव व्यवहरति, तथा पूर्वप्रवृत्तशास्त्रेण साधुत्वार्थमभ्यनुज्ञातमपि शास्त्रं पूर्वशास्त्रीयस्वोपजीव्यनिमित्तसन्निपातविघातमकुर्वदेव तत्र तन्न प्रवर्तते । यदि तु परिभाषायां तद्विघातपदे कर्मण्यण्, विधिपदञ्च करणक्तिप्रत्ययेन शास्त्रपरम्, तदा सन्निपातलक्षण- शास्त्रीयाभ्यनुज्ञादानवाक्ये एव सङ्कोचः । अयमेव नीतिशास्त्रप्रयुक्तः सङ्कोचः कथ्यते । नीतिशास्त्रज्ञो हि राज्याधिकारी स्वापेक्षया गुणवत्तरं विद्वांसं न प्रवेशयि'यति स्वोन्मूलनभिया इति भावः । तत्रादौ तत्तच्छास्त्रैश्च स्वोत्तरप्रवृत्तिमच्छास्त्रस्य अभ्यनुज्ञानमपि विधीयते इत्यत्र प्रमाणमाह—इको यणचीत्यादिविधीत्यादि । विसर्गान्तस्य असाधुत्वापत्तिरिति । ननु "साधुत्वानुशासनेऽस्मिन् शास्त्रे" इति भाष्य- प्रामाण्येन शास्त्रैः साधुत्वमेव विधीयताम्, तथा सति न तस्यासाधुत्वापत्तिरिति चेन्न । लुग्विधायक- शास्त्रे बोधितसाधुत्वस्यापि 'सुधी+उपास्यः' इत्यस्य साधुत्वापत्त्या याज्ञे कर्मणि प्रयोगापत्तेः ।