परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 313, कुल 373 में से
संदर्भ में पढ़ें८५८-६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २८३ 'द्वित्रिभ्यां पाद्मूर्धस्वि'ति स्वरविधायके भाष्ये स्पष्टेयम् ॥ ८५ ॥ ननु 'शतानी'त्यादौ नुमि कृते षट्संज्ञा प्राप्नोति, ततश्च लुक् स्यात्, तथा 'उपादास्ते' त्यत्राऽऽत्त्वे कृते 'स्थाध्वोरिच्च' इतीत्त्वं प्राप्नोतीत्यत आह- सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य ॥ ८६ ॥ — ❀ — ननु 'राज्ञीं प्रतिगतः प्रतिराज्ञिरि'त्यत्र अन्तोदात्तत्त्वायांश्वादिषु राजन्शब्द- पाठश्चरितार्थः, समासान्तविधौ लिङ्गविशिष्टपरिभाषाया अनित्यत्वेन टचो प्राप्त्या- ऽन्तोदात्ताप्राप्तेः। न चात्र स्वरविधौ कर्तव्येऽपि लिङ्गविशिष्टपरिभाषाया अनित्यत्व- मिति वाच्यम् ; अस्याः स्वरविधौ सङ्घातग्रहणे एव भाष्ये दोषकथनेन अवयव- ग्रहणेऽप्रवृत्तौ मानाभावादित्यरुचेराह- द्वित्रिभ्यामिति । तथा च 'द्वित्रिभ्यां पाद्न्- मूर्धस्वि'ति कृतसमासान्तमूर्धशब्दपाठेन द्व्यादिभ्यः परस्य कृतसमासान्तमूर्धशब्दस्य बहुव्रीहावेव सत्त्वेनार्थत एव तल्लाभाद् बहुव्रीहिग्रहणमस्यां मानम् । परिभाषासत्त्वे तु समासान्तस्यानित्यत्वेन 'द्विमूर्धा' इत्यत्र उक्तस्वरप्रवृत्तये अकृतसमासान्तमूर्धशब्दपाठस्य आवश्यकतया बहुव्रीहीतरसमासे एतदप्रवृत्तये बहुव्रीहिग्रहणं चरितार्थम् । केचित्तु - 'ऋक्पूरब्धूंः पथामि'ति अकृतसमासान्तनिर्देशोऽस्या ज्ञापक इत्याहुः । अन्ये तु- 'राजस्वरे' इत्यावर्त्त्य 'प्रतिराज्ञिरि'त्यत्रापि राजस्वरत्वेन 'प्रतेरंश्वादय' इत्यस्याप्रवृत्त्या मूलोक्तज्ञापकमपि युक्तमेवेत्याहुः । परे तु- 'राजस्वरे' इति पृथक्कोटिः, तेन 'राज्ञीकुमार' इत्यत्र 'राजा चे'ति स्वरो न । ब्राह्मणकुमार्योर्लिङ्गविशिष्टपरिभाषाया अनित्यत्वात् 'राजब्राह्मणी, राजकुमारी' इत्यत्र उक्तस्वरो नेत्यविशेषात् 'प्रतिराज्ञिरि'त्यत्रापि राजस्वरसत्त्वात् मूलोक्तज्ञापकसङ्गतिरित्याहुः ॥ ८५ ॥ लुक् स्यादिति । ननु 'ष्णान्ता' इत्यत्र उपदेशे ष्णान्ता इत्यर्थेन नात्र दोष इति चेन्न । उपदेशे इत्यस्य नकार षकारयोरन्वये सापेक्षत्वेन समासासम्भवादित्यादि- दूषणस्य मनोरमायामुक्तत्वेन तेन वारणासम्भवात्, अन्यार्थमावश्यकया उक्तपरिभाषया निर्वाह उपदेशे इत्यपूर्वकथने गौरवेण तदनादरणाच्च । न च 'प्रियपञ्चान' इत्यत्र लुगभावाय 'षड्भ्य' इत्यत्र विहितविशेषणत्वस्वीकारान्नात्र लुक्प्राप्तिरिति वाच्यम्; 'षड्भ्यो विहिते'त्यस्य जसादिनिरूपिततदाद्यभिन्नषड्भ्यः परेत्यर्थकत्वेन उक्तदोषताद- वस्थ्यात् । न च विभक्तिसापेक्षत्वेन नुमः षट्संज्ञादृष्ट्याऽसिद्धत्वेन तदप्राप्तिरिति वाच्यम्; संज्ञाशास्त्रस्य विधिनिमित्तनिमित्तकत्वेन लुगर्थसंज्ञाया अपि विभक्तिसापेक्षत्वेन नुमो बहिरङ्गत्वायोगात् । नुम्निमित्तविभक्तेर्विनाशोन्मुखत्वेन 'अकृतव्यूह'परिभाषया नुमभावस्त्वत्र न शङ्क्यः; लुको बहिरङ्गत्वाभावेन बहिरङ्गेणान्तरङ्गनिमित्तविनाश- सम्भावनाया असत्त्वेन तस्या नुम्प्रवृत्त्यभावसम्भावनाप्रयोज्यत्वाभावेन च तत्प्रवृत्तेः सर्वथैव असम्भवात् ।