भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 321, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 321

८६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २९१ सिद्धत्वेऽपि वस्तुतस्तद्विघातस्य जायमानत्वेनैतत्प्रवृत्तेः । किञ्च अन्तरङ्गे कर्तव्ये बहिरङ्गस्यासिद्धत्वेऽपि तत्र कृते तस्यासिद्धत्वे मानाभावः । किञ्च आतिदेशिकसन्निपातविघाताभावमादाय एतत्प्रवृत्तौ ‘गौरी’त्यादौ सम्बुद्धि- लोपेऽपि स्थानिवत्त्वेन ह्रस्वनिमित्तसन्निपातविघाताभावात् तत्रैतस्य अति- व्याप्तिपर-‘कृन्मेजन्त’-इतिसूत्रस्थभाष्यासङ्गतिः । सन्निपातस्य अशास्त्रीयत्वा- त्रात्र स्थानिवत्त्वमिति चेत् ; तर्ह्यत्रासिद्धत्वमपि कथमिति विभावय, अशास्त्रीयेऽसिद्धत्वाप्रवृत्तेः, ‘ईदूदेदि’ति सूत्रे कैयटेन स्पष्टमुक्तत्वात् । एवञ्च पूर्वत्रासिद्धीयेऽपि कार्ये एतत्परिभाषाप्रवृत्तिर्भवत्येवेति चेन्न । ‘कष्टाये’ति निर्देशेनैतस्या अनित्यत्वात् । ययोः सन्निपातस्य विघातकं शास्त्रं तयोः सन्निपातनिमित्तकविधौ उपादानमपेक्षितमिति तु नाऽऽग्रहः । अत एव ‘दाक्षिरि’त्यत्र अकारान्त- प्रकृतीन् सन्निपातनिमित्ताङ्गसंज्ञाऽनया परिभाषयाऽल्लोपस्य निमित्तं न स्यादित्याशङ्क्य अनित्यत्वेन समाहितं ‘कृन्मेजन्त’ इति सूत्रे भाष्ये—‘‘न- हाङ्गसंज्ञायामदन्तस्याङ्गसंज्ञे’’त्युक्तमस्ति । न च ‘कुम्भकारेभ्य, आधय’ इत्यादौ अव्ययसंज्ञाया अनया परिभाषया वारणपरभाष्यासङ्गतिः, अनया परिभाषया लुङ्मा भूत्, अव्ययत्वं तु स्या- देव, लुका हि तदीयसन्निपातस्य विघातो नाव्‍ययसंज्ञया, संज्ञाफलं त्वकच् स्यादिति वाच्यम् ; एतदुदाहरणपरभाष्यप्रामाण्येन साक्षात्परम्परया वा वस्तुतस्तद्विघातेति । ननु शास्त्रप्रवृत्तौ च तद्बुद्धिरेव नियामिका, न तु वास्तविकी तत्सत्ता ; अन्यथा ‘हर+एही’त्यत्र यलोपस्यासिद्धत्वेऽपि वृद्धिर्दुर्वारैत्य- रुचेराह—किञ्चेति । ननु ‘डेर्य’ इत्यस्य प्रवृत्तेः प्रागेवाऽभ्यनुज्ञाकाले ‘मत्सन्निपात- विघातकः क’ इति जिज्ञासायां ‘सुपि चे’त्यस्योपस्थित्या तस्य बहिरङ्गत्वमिति न तत्कृतं विघातं पश्येदित्यरुचेराह—किञ्चेति । अशास्त्रीयत्वादिति । वस्तुतः—अत्र प्रत्ययसत्ताबोधनमेव आवश्यकम्, सन्निपातस्त्वार्थसमाजग्रस्त एवेति चिन्त्यमेत- दिति केचित् । समाहितमिति । यद्यपीदं भाष्यमेकदेशि ; तथाप्यत्रांशे मानं भवत्येवेति बोध्यम् । परम्परयेति । लुग्द्वारा एत्वनिमित्तविभक्तिनाशादित्यर्थः । नन्वेवं ‘सत्यूखतुः’ इत्यत्र सवर्णदीर्घानापत्तिः, लिड्विघातक-लुक्प्रयोजका-ऽम्सम्पादकगुरुमत्वसम्पादक- त्वेन दीर्घस्य परम्परया द्वित्वोपजीव्यलिड्विघातकत्वादिति चेन्न । विधिद्वया- घटितपरम्पराया एव ग्रहणेनादोषात् । अत्र-चैतद्भाष्यमेव मानम् ।

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक) · पृष्ठ 321, कुल 373 में से · BharatKosha