परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 320, कुल 373 में से
संदर्भ में पढ़ें२१० परिभाषेन्दुशेखरः ३ प्रकरणे- 'ग्रामणिकुलम्, ग्रामणिपुत्र' इत्यादौ उत्तरपदनिमित्तके ह्रस्वत्वे यथाकथञ्चिद् बहिरङ्गपरिभाषयाऽपि वारणं सम्भवतीति 'कृन्मेजन्त' इत्यत्र 'ह्रस्वस्य पिती'ति सूत्रे चैकदेशिना तया परिभाषया तुग्वारितो भाष्ये। अत एव परिभाषाफलत्वेनेदमुक्तं 'कृन्मेजन्त' इति सूत्रे वार्तिक- कृतेति केचित् । सन्निपातलक्षणविधित्वमस्या लिङ्गम् । स्वप्रवृत्तेः प्राक् स्वनिमित्त- भूतो यः सन्निपातस्तद्विघातस्य स्वातिरिक्तशास्त्रस्य स्वयमनिमित्तमिति फलति । नन्वेवं 'रामाये'त्यादौ 'सुपि चे'ति दीर्घानापत्तिः, अदन्ताङ्ग-ङेसन्नि- पातेन जातस्य यादेशस्य तद्विघातकत्वात् । न च यजादिवत्सापेक्षदीर्घस्य बहिरङ्गतयाऽसिद्धत्वान्नात्र सन्निपातविघात इति वाच्यम् ; आरोपिता- रङ्गपरिभाषया तुग्वारणं भाष्योक्तमसङ्गतमित्यत आह—उत्तरपदनिमित्तके ह्रस्वत्वे यथाकथञ्चिदिति । ईधातोः क्विपि ह्रस्वे 'इ+कुलमि'त्यत्र बहिरङ्गत्वभावात् तुग्वारणा- यास्य आवश्यकत्वमिति तदाशयः । एकदेशिनेति । 'नाजानन्तर्य'परिभाषाऽज्ञानेन प्रवृत्त- त्वादस्य एकदेश्युक्तित्वमिति भावः । अत एवेति । अस्यैकदेश्युक्तित्वादेवेत्यर्थः । परिभाषा- फलत्वेनेति । सन्निपातपरिभाषाफलत्वेनेत्यर्थः । सन्निपातलक्षणविधित्वमिति । सन्निपातलक्षणशास्त्रत्वमित्यर्थः । विधिशब्दे करणे क्तिप्प्रत्ययात् । एवं चास्या 'न तिसृ'ति शास्त्रदेशीयत्वेन सापादिकतया त्रिपाद्यास्तादृश- शास्त्रत्वप्रकारकज्ञानाभावात् तत्रेयं न प्रवर्तते । अत्र मानं च 'मय उञो वो वा' इत्यनेन वकारविधानमेव । तस्यास्त्रिपाद्यां विधानं वत्वस्यासिद्धत्वादनुस्वाराभावार्थम् । अस्याः त्रिपाद्यां प्रवृत्तौ तु तयैवानुस्वारवारणे 'इको यणची'त्युत्तरं 'मय उञो वो वे'ति पाठेन यणोऽनुवृत्त्या चेष्टसिद्धौ तद्वैयर्थ्यं स्पष्टमेव । अत एव च 'नर्तिष्यती'त्यत्रेष्टः सकार- निमित्तकत्वेऽपि षत्वम्, 'धुक्षीष्टे'त्यत्र धत्वस्य दादित्वनिमित्तकत्वेऽपि भष्भावः, 'जग्ध- मि'त्यत्र जग्धादेशस्य तकारनिमित्तत्वेऽपि धत्वम्, 'द्रक्ष्यतो'त्यत्र 'षढोरि'ति कत्वस्य सकारनिमित्तत्वेऽपि षत्वम्, 'सञ्छम्भुरि'त्यत्र तुकः शकारनिमित्तकत्वेऽपि 'शश्छोऽटी'ति च्छत्वं चेत्यादि सिद्ध्यतीति भावः । स्वप्रवृत्तेः प्रागिति । अत्र तद्विघातकेति कान्तपाठस्त्वयुक्तः, किन्तु तद्विघातस्येति घञन्तपाठ एव युक्तः; अन्यथाऽनन्वयापत्तेः । स्वातिरिक्तशास्त्रस्य = 'सुपि चे'त्याद्यति- रिक्तस्य 'ङेर्य' इत्यादिशास्त्रस्य । स्वप्रवृत्तेः प्राक् = 'सुपि चे'त्यादिप्रवृत्तेः प्राक् । स्वनिमित्त- भूत = 'सुपि चे'त्यादिशास्त्रनिमित्तभूतः । तथा च स्वनिमित्तभूतः सन्निपातः स्वनिमित्त- भूतसन्निपातसम्पादकस्य स्वातिरिक्तशास्त्रस्य निमित्तभूतः सन्निपातश्चेत्युभयविधोऽपि गृह्यते इति सूचितम् । एतदुभयविधसन्निपातसङ्ग्रहायैव 'स्वप्रवृत्तेः प्राक् स्वनिमित्त- भूत' इत्युभयोपादानम् । एतद्ग्रन्थबोधितसङ्कोचप्रकारः प्राक् प्रदर्शित एवेति बोध्यम् ।