परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 322, कुल 373 में से
संदर्भ में पढ़ेंस्वनिमित्तसन्निपातविघातकस्य स्वयमनिमित्तमित्यर्थेनादोषात् । एतेन अत्र अकच् स्यादित्यपास्तम् । न च कार्यकालपक्षे लुगेकवाक्यतापन्नसंज्ञाबाधेऽपि अकजेकवाक्यता- पन्ना स्यादिति वाच्यम् ; अन्तरङ्गायां तदेकवाक्यतापन्नसंज्ञायां बहिरङ्ग- गुणादेरसिद्धत्वात् । लुगेकवाक्यतापन्ना तु न, गुणादितोऽन्तरङ्गोभयोरपि शब्दतः सुबाश्रयत्वात् । 'न यासयोरि'ति निर्देशाच्चैषा अनित्या, तेन नातिप्रसङ्गः । स्पष्टा चेयं 'कृन्मेजन्त' इति सूत्रे भाष्ये । अस्या अनित्यत्वे फलानि भाष्ये परिगणितानि । वर्णाश्रयः प्रत्ययो वर्णविचालस्यानिमित्तम् 'दाक्षिः' । आत्त्वं पुग्विधेः 'क्रापयति' । पुग् ह्रस्वस्य 'अदीदपत्' । त्यदाद्यकारष्टाब्बिधेः 'यासे'ति । इड्विधिराकार- लोपस्य 'पपिवान्' । 'ह्रस्वनुड्भ्यां मतुप्, अन्तोदात्तादुत्तरपदादि'ति मतुब्विभक्त्युदात्तत्वं पूर्वनिघातस्य 'अग्निमान्, परमवाचा' । नदीह्रस्वत्वं सम्बुद्धिलोपस्य 'नदि, कुमारी'त्यादि । यादेशो दीर्घत्वस्य 'कष्टाय' । इतोऽन्यत्र प्रवृत्तिरेव, 'दोषाः खल्वपि साकल्येन परिगणिता' इति- भाष्योक्तेरित्यन्यत्र विस्तरः ॥ ८६ ॥ अन्तरङ्गायामिति । अकचः स्वार्थिकत्वादिति भावः । शब्दत इति । अकच् तु सुबुत्पत्त्यनन्तरं प्रवर्तमानोऽपि न तथा सुबाश्रय इति भावः । पुग्विधेः क्रापयतीति । ननु 'आतिदेशिके'त्यत्र यदागम न्यायातिरिक्तत्वेन सङ्कोचः । अत एव 'साम आकमि'त्यत्र सुटस्त्वामोऽवयवत्वान्न सन्निपातविघात इत्युक्तं भाष्य-शेखरयोः । किञ्च 'आतिदेशकसन्निपातविघाताभावेऽप्येषा प्रवर्तते' इत्यत्र बीजं हि अतिदेशेन तत्त्वबुद्धावपि अतिदेशप्रवृत्तेः पूर्वक्षणेषु विघातोऽस्त्येवेति, तच्च यदागम न्यायविषये नास्ति, विधानकाल एव अवयवत्वेन बोधनात् । एवं च न 'क्रापयती'त्यत्र अनित्यत्वफलमिति चेन्न । 'क्रीङ्जीनामि'त्यनेन णिजव्यवहित- पूर्ववर्तिनिर्दिश्यमानावयवेच आत्त्वविधानेन पुकि सति निर्दिश्यमानत्वविघातेन अनित्यत्वस्याऽऽवश्यकत्वात् । यदागमन्यायेन निर्दिश्यमानत्वं तु न ; 'अपिबत्' इत्यत्रापि अडागमसहितस्य पिबादेशापत्तेरित्युक्तमधस्तात् । अग्निमानिति । अन्तोदात्तत्व- मुपजीव्य जायमानेन मतुबुदात्तत्वेन शेषनिघातद्वारा तद्विघातः स्पष्ट एवेति बोध्यम् । इतोऽन्यत्रेति । एतदुदाहरणात् 'एचोऽयवायाव्' इत्यादिनिर्देशाच्च सन्धिकार्ये- ऽप्येषा न प्रवर्तते । तत्राऽऽत्त्वमुपजीव्य जायमानेन उत्वेन गुणद्वारा तद्विघातः स्पष्ट एव । अत एव 'गवाग्रमि'त्यादिसिद्धिः ॥ ८६ ॥