परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 323, कुल 373 में से
संदर्भ में पढ़ें८७ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २९३ ननु 'पञ्चेन्द्रण्यो देवता अस्य, पञ्चेन्द्र' इत्यादौ 'द्विगोर्लुगि'त्यणो लुकि 'लुक् तद्धित' इति स्त्रीप्रत्ययलुक्यानुकः श्रवणापत्तिरत आह— सन्न्नियोगशिष्टानामन्यतरापाय उभयोरप्यपायः ॥ ८७ ॥ —: ❃ :— अत्र च 'बिल्वकादिभ्यश्छस्य लुगि'ति सूत्रस्थं छग्रहणं ज्ञापकम्। तद्धि सन्न्नियोगशिष्टानामिति । 'सन्न्नियोगशिष्टौ च सन्न्नियोगशिष्टौ च सन्न्नियोगशिष्टौ च सन्न्नियोगशिष्टाः, अन्यतरश्च अन्यतरश्च अन्यतरश्च अन्यतरे, तेषामपाये' इति च विग्रहः ; अत एव बहुवचनोपपत्तिरिति—केचित् । परे तु—द्वित्वविशिष्टसन्न्नियोगशिष्टत्वावच्छिन्नबोधकतया सन्न्नियोगशिष्ट- पदस्य बहुवचनान्तत्वोपपत्तिः । एकशेषेण तु न निर्वाहः ; यावतामेकशेषः क्रियेत तावतां ग्रहणेऽपि अवशिष्टानांग्रहणप्रसङ्गात्, विवक्षितसंख्याज्ञानं च दुर्लभम्, 'उभयोरि'त्यत्र 'उभयेषामि'त्यापत्तिश्चेत्याहुः । अन्यतरसमभिव्याहारे सन्न्नियोगशिष्टानामिति बहुवचनमनुपपन्नमत आह—सन्न्नियोग- शिष्टौ चेति । परे त्विति । सन्न्नियोगशिष्टत्वम्—समुच्चयेन विहितत्वं द्वयोर्द्वयोरेव दृष्टमिति प्रत्येकं बोधकवत् सन्न्नियोगशिष्टत्वेन उभयबोधकतात्पर्येण एकशेषमन्तराऽपि सन्न्नियोगशिष्टपदप्रयोगो भवितुमर्हति, अन्यतरपदसमभिव्याहाररूपतात्पर्यग्राहकवशात्, 'घटौ' इतिवत्। तदुक्तं सरूप- सूत्रभाष्ये—"अर्थौ अर्थौ प्रति च यत् तदपि प्रत्यर्थम्, अर्थान् अर्थान् प्रति च यत् तदपि प्रत्यर्थमेव" इति ; तदाऽऽह—द्वित्वविशिष्टेति । ननु द्वित्वस्य द्वित्वत्वेन शक्यतावच्छेदककोटौ प्रवेशे नित्यद्विवचनान्तप्रयोगोपपत्तिः, ताभ्यां सन्न्नियोगशिष्टो 'ङीप् च' इति एकवचनान्तप्रयोगानुपपत्तिश्च । लक्षणया तथा बोधनसम्भवेऽपि सामान्यतो द्वित्वत्वेन द्वित्वप्रवेशे अनभीप्सितद्वित्ववतामपि बोधप्रसङ्गः । तत्तद्द्वित्वत्वेन द्वित्वप्रवेशे तु विवक्षितानां तावतां ज्ञानं दुर्लभं स्यादिति चेत्—सत्यम् । वस्तुतो द्वित्वविशिष्टस्य सन्न्नियोग- शिष्टत्वेन बोधकमिति तदर्थात् । एतेन सन्न्नियोगशिष्टपदं द्वित्वविशिष्टसन्न्नियोगशिष्टत्वावच्छिन्न- बोधकमित्ययुक्तमेव, ताभ्यां सन्न्नियोगशिष्टो 'ङीप् चे'ति दीक्षितोक्त्या द्वित्वस्य सन्न्नियोगशिष्टपद- प्रवृत्तिनिमित्तकोटौ अप्रवेशादिति कैश्चिदुक्तं तत्परास्तम् । उभयात्मकाश्च यावन्तो सन्न्नियोगशिष्टाः, तेषां बहुत्वान् बहुवचनान्ततोपपत्तिः । अत एव एकशेषेण न निर्वाहः, प्रत्यर्थंशब्दन्निवेश इति पक्षे हि एकशेषारम्भात् ; तदेतदाह – एकशेषेण तु नेत्यादि । अवशिष्टानांग्रहणप्रसङ्गादिति । यत्तु—अष्टाध्याय्यां यावन्तः सन्न्नियोगशिष्टास्तेषां सर्वेषामेकशेषकरणेन अवशिष्टाभाव एव इति। तन्न ; तावतां सन्न्नियोगशिष्टानामास्माकमेकशेष- प्रवृत्तिकाले ज्ञानासम्भवात् । आचार्याणां तज्ज्ञानसम्भवेऽपि अस्मदुद्देशेन तेषां शास्त्रप्रवृत्तेः, अस्माकं तज्ज्ञानस्य तदानीमसत्त्वेन वाक्यार्थबोधविलयप्रसङ्गात् । कथञ्चित् तत्सम्भवेऽपि तावता- मेकशेषकरणे गौरवापाताच्च ।