परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 30, कुल 373 में से
संदर्भ में पढ़ेंउत्सर्गोऽभिनिविशते, ६५. उपसञ्जनिष्यमाणनिमित्तोऽप्यपवाद उपसञ्जातनिमित्तमप्युत्सर्गं बाधत इति, ६६. अपवादो यद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यते, ६७. अभ्यास- विकारेषु बाध्यबाधकभावो नास्ति, ६८. ताच्छीलिकेषु वाऽसरूपविधिर्नास्ति, ६९. कल्युट्नुमुन् खल्थेषु वाऽसरूपविधिर्नास्ति, ७०. लादेशेषु वाऽसरूपविधिर्नास्ति, ७१. उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् । ॥ तृतीयं प्रकरणम् ॥ ७२. प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्, ७३. विभक्तौ लिङ्गविशिष्टा- ग्रहणम्, ७४. सूत्रे लिङ्गवचनमतन्त्रम्, ७५. नञ्रिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः, ७६. गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः, ७७. साम्प्रतिकाभावे भूतपूर्वगतिः, ७८. बहुव्रीहौ तद्गुणसंविज्ञानमपि, ७९. चानुकृष्टं नोत्तरत्र, ८०. स्वरविधौ व्यञ्जनमविद्यमानवत्, ८१. हल्स्वरविधौ व्यञ्जनमविद्यमानवत्, ८२. निरनुबन्धकग्रहणे न सानुबन्धकस्य, ८३. तदनुबन्धकग्रहणे नातदनुबन्धकस्य, ८४. क्वचित् स्वाथिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते, ८५. समासान्तविधिरनित्यः, ८६. सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य, ८७. संनियोगशिष्ठानामन्यतरापाय उभयोरप्यपायः, ८८. ताच्छीलिके णेऽण्कृतानि भवन्ति, ८९. धातोः कार्यमुच्यमानं तत्प्रत्यये भवति, ९०. तन्मध्यपतितस्तद्ग्रहणेन गृह्यते, ९१. लुग्विकरणाऽलुग्विकरणयो- रलुग्विकरणस्य, ९२. प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणम्, ९३. अङ्गवृत्ते पुनर्वृत्तावविधिः, ९४. संज्ञापूर्वकविधेरनित्यत्वम्, ९५. आगमशास्त्रमनित्यम्, ९६. गणकार्यमनित्यम्, ९७. अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्, ९८. नञ्घटितमनित्यम्, ९९. आतिदेशिक- मनित्यम्, १००. सर्वविधिभ्यो लोपविधिरिङ्ग्विधिश्च बलवान्, १०१. प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम्, १०२. विधौ परिभाषोपतिष्ठते नानुवादे, १०३. उपपदविभक्तेः कारकविभक्तिर्बलीयसी, १०४. अनन्त्यविकारेऽन्त्यसदेशस्य, १०५. नानर्थकेऽलोऽन्त्य- विधिरनभ्यासविकारे, १०६. प्रधानाप्रधानयोः प्रधाने कार्यसम्प्रत्ययः, १०७. अवयव- प्रसिद्धेः समुदायप्रसिद्धीर्बलीयसी, १०८. व्यवस्थितविभाषयापि कार्याणि क्रियन्ते, १०९. विधिनियमसम्भवे, विधिरेव ज्यायान्, ११० सामान्यातिदेशे विशेषानतिदेशः, १११. प्रत्ययाप्रत्यययोः प्रत्ययस्य ग्रहणम्, ११२. सहचरितासहचरितयोः सहचरितस्यैव ग्रहणम्, ११३. श्रुतानुमितयोः श्रुतसम्बन्धो बलवान्, ११४. लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्, ११५. गामादाग्रहणेष्बविशेषः, ११६. प्रत्येकं वाक्यपरिसमाप्तिः, ११७. क्वचित् समुदायेऽपि, ११८. अभेदका गुणाः, ११९. बाधकान्येव निपातनानि, १२०. पर्जन्यवल्लक्षणप्रवृत्तिः, १२१. निषेधाश्च बलीयांसः, १२२. अनिर्दिष्टाः प्रत्ययाः स्वार्थे, १२३. योगविभागादिष्टसिद्धिः, १२४. पर्यायशब्दानां लाघवगौरवचर्चा नाद्रीयते, १२५. ज्ञापकसिद्धं न सर्वत्र, १२६. पूर्वत्रासिद्धीयमद्वित्वे, १२७. एकस्या आकृतेश्चरितः प्रयोगो द्वितीयायास्तृतीयायाश्च न भविष्यति, १२८. सम्प्रसारणं तदाश्रयं च कार्यं बलवत्, १२९. क्वचिद्विकृतिः प्रकृतिं गृह्णाति, १३०. औपदेशिक- प्रायोगिकयोरौपदेशिकस्यैव ग्रहणम्, १३१. शितपा शपाऽनुबन्धेन निर्दिष्टं यद्गणेन च । यत्रैकाजूग्रहणं चैव पञ्चैतानि न यङ्लुकि, १३२. पदगौरवाद्योगविभागो गरीयान्, १३३. अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः । ❀
- २८ -