परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 32, कुल 373 में से
संदर्भ में पढ़ें२ | परिभाषेन्दुशेखरः | [ मङ्गलाचरणम्, यद्वा—अम्बयति = जीवयतीत्यम्बा उत्पादनशक्तिः, शेतेऽस्मिन् जगदिति व्यु- त्पन्नशिवशब्देन संहारशक्तिरुच्यते, ताभ्यां सहितम् ; ब्रह्म, बृंहयति = पालयतीति व्युत्पत्त्या ब्रह्मपदेन पालनशक्तिमद् गृह्यते इति शक्तित्रयविशिष्टमित्यर्थः । यद्वा— अम्बयतीत्यम्बो = विष्णुः, शिवः = शङ्करः, ताभ्यां सहितम् ; ब्रह्म = ब्रह्माणम् ; नत्वेत्यर्थः । यद्वा—अम्बा = माता सती-देवी, तया सहितम् ; शिवम् = शिव- भट्टम् = स्वपितरं ब्रह्मस्वरूपिणं नत्वेत्यर्थः । न च मातृरूपार्थस्य सनिरूपकत्वेन शिवभट्टनिरूपितमातृत्वस्यैव स्वरसतः प्रतीतेः सतीदेवीसाहित्यमनुपपन्नमिति वाच्यम्; गोत्रवर्गे पितामह्याः सर्वतः श्रैष्ठ्येन तन्नमनेऽपि क्षतिविरहात् । अत एव सत्स्वपि गोत्रजान्तरेषु तस्या एव प्रथमभागार्हत्वेन धर्मशास्त्रादौ प्रसिद्धिः । किञ्च सनिरूपकार्थबोधकपदमभिव्याहृतषष्ठीस्थले स्वप्रकृत्यर्थनिरूपिततादृशार्थग्रहणेऽपि साहित्यबोधकपदमभिव्याहारे उपस्थितत्वाविशेषेण साहित्यानुयोगिनिरूपितमातृत्व- ग्रहण इव नतिकर्तृनिरूपितमातृत्वग्रहणेऽपि क्षतिविरहः । बाल्यदशायां मृत- मातृकस्य नागेशस्य पितामह्यैव पालनं कृतमतोऽत्र कृतज्ञेन तेन तन्नमनं कृतमिति कश्चित् । केचित्तु—परिभाषेन्दुशेखरमित्यावर्त्त्य धातूनामनेकार्थत्वात् परितो भास- मानो द्विकलात्मक इन्दुः शेखरे यस्य तं चन्द्रशेखरम्; शिवं नत्वेत्यर्थ इति वदन्ति । नागेश इति । आत्मनामेति निषेधस्तूच्चारणविषयो न लेखनविषय इति बोध्यम् । अत एव 'गोनर्दीय आह भट्टोजीदीक्षितकृतिरि'त्यादिस्तत्र तत्र ग्रन्थकृतां लेखः सङ्गच्छते । यत्तु—कूपखानकन्यायेन समाहितं कैश्चित् । तन्न; मङ्गलस्य विघ्नध्वंसादिप्रयोजकत्वस्यानुमितश्रुत्यादिबोधितत्वेऽपि आत्मनामोच्चारणजन्यदुरित- ध्वंसप्रयोजकत्वस्याप्रसक्तेः । यदपि—आत्मनामेति निषेधस्य, स्वकीर्त्यनुवृत्तये स्वनाम- ग्रहणस्य शिष्टाचाराऽनुगृहीतत्वात् तद्बोधकानुमितस्मृत्या बाध इति । तदपि न; स्वकीर्त्यनुवृत्तये स्वनामलेखनस्य शिष्टाचारविषयत्वेऽपि उच्चारणस्य तद्विषयत्वा- भावेन स्मृतिबाधकल्पनायाप्रामाणिकत्वात् । धर्मिग्राहकमानेन स्वकीर्तिप्रयोजकताया नन्वेवमपि—'देवं नमस्कृत्य शूद्रं नमस्करोति' इत्यापद्येत, स्वनिष्ठापकृष्टत्वप्रकारकबोध- प्रकारको बोधः 'अयमेतस्मादात्मानमपकृष्टं जानाति' इत्याकारकः शूद्रवृत्तिबोधः, तादृशबोधरूप- फलाश्रयत्वेन तस्यापि कर्मत्वादिति चेत्—सत्यम् । नात्र शुद्धसमवायः फलतावच्छेदकसम्बन्धः, अपि तु—स्वविषयविषयावधिवृत्तित्वसमानाधिकरणसमवाय एव । स्वपदेन च द्वितीयो बोधो ग्राह्यः, तद्विषयः प्रथमो बोधः, तद्विषयोऽपकृष्टत्वं तदवधिर्देवस्तद्वृत्तित्वसमानाधिकरणसमवायेन फलतावच्छेदकेन फलाश्रयत्वं देवस्य न शूद्रस्य, न च तटस्थस्येति न तस्य कर्मत्वापत्तिः । नापि स्वापेक्षया अपकृष्टे 'देवदत्तं नमस्करोति' इति प्रयोगाऽनुपपत्तिरिति बोध्यम् । गिरिधरोपाध्यायास्तु—उत्कर्षप्रतिपत्त्यनुकूलव्यापारो नतिपदार्थः, प्रतिपत्त्यन्वयि विशे- षित्त्वं समवेतत्वं चैतद्द्वयं द्वितीयार्थः । तथा च शिवसमवेतशिवविशेष्यताकोत्कर्षप्रतिपत्त्यनुकूलो व्यापार इति बोधः । यदि च अभिवाद्यस्य नोत्कर्षप्रतीतिस्तदा उत्कर्षप्रतिपत्तीच्छैव नमस्कार- पदार्थः, इच्छायाश्चोद्देश्यतया प्रतिपत्तेरन्वयः । एतेन—ईश्वरादिसमवेतप्रतिपत्तेर्नित्यतया व्यापारस्य तदनुकूलत्वविरहेण शिवादिपदसमभिव्याहारे नमःपदप्रयोगासङ्गतिरित्यपास्तमित्याहुः ॥ १ ॥