परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 326, कुल 373 में से
संदर्भ में पढ़ें२९६ परिभाषेन्दुशेखरः [ ३ प्रकरणे- ‘ऐनेयः, श्यैनेय’ इत्यादि तु स्थानिवत्त्वेन सिद्धमित्यन्यत्र विस्तरः ॥८७॥ ननु ‘चुरा शीलमस्याः सा, चोरी’त्यादौ ‘शीलम्, छत्रादिभ्यो ण’ इति णे ङीप् न प्राप्नोतीत्यत आह— ताच्छीलिके णेऽण्कृतानि भवन्ति ॥ ८८ ॥ —: ❖ :— ‘अन्’ इत्यणि विहितप्रकृतिभावबाधनार्थं ‘कार्मस्ताच्छील्ये’ इति निपातनमस्या ज्ञापकम् । ताच्छीलिकणान्तात् ‘अणो द्व्यच’ इति फिज्सिद्धिरप्यस्याः प्रयो- जनमिति नव्याः । ताच्छीलिक इत्युक्ते ‘तदस्यां प्रहरणमि’ति णे ‘दाण्डे’त्येव । ‘कार्म’ इति सूत्रे भाष्ये स्पष्टा ॥ ८८ ॥ ननु ‘कंसपरिमृद्भ्यामि’त्यादौ मृजेर्वृद्धिदुर्वारित्यत आह-- धातोः कार्यमुच्यमानं तत्प्रत्यये भवति ॥ ८९ ॥ —: ❖ :— ‘भ्रौणहत्ये’ तत्त्वनिपातनमस्या ज्ञापकम् । ‘धातोः स्वरूपग्रहणे प्रत्ययसत्तार्थं पुंवद्भावावश्यकत्वम् । सति तु तस्मिन् स्त्रीत्वप्रयुक्तलुको निवृत्त्या तद्धित- निमित्तकाऽऽदिवृद्ध्यादिसिद्धिरिति भावः । केचित्तु—सन्नियोगशिष्टन्यायेन निवृत्त्यभावरूपपूर्वविधिसत्त्वेन एकेनैव उभयार्थ- सिद्ध्या न तन्त्रस्याऽऽवश्यकत्वमिति वदन्ति ॥ ८७ ॥ शीलमिति । शीलमित्यनुवर्त्तमाने इत्यर्थः । अण्कृतानीति बहुवचनफलमाह—ताच्छोलिकेति । नव्या इति । तथा चैतद्भाष्याननुगृहीतं फलमित्यस्वरसः । ‘छत्रादिभ्योऽणि’ति वक्तव्ये णेग्रहणादेषाऽनित्या, तेन ‘च्छात्रे’त्यत्र न ङीबिति बोध्यम् ॥ ८८ ॥ तत्प्रत्यय इति । धातुत्वावच्छिन्नोद्देश्यताके प्रत्यय इत्यर्थः । तत्त्वनिपातनमिति । न च कुत्वाभावार्थं निपातनावश्यकत्वेन ज्ञापकत्वासम्भव इति वाच्यम् ; ‘हो हन्तेरि’त्यत्र णित्साहचर्यात् ञितोऽपि ण्वञतिरिक्तस्य ग्रहणेन मूले—स्थानिवत्त्वेनेति । एतेन ‘भस्याढे तद्धिते’ इत्यत्राऽऽढे इति निषेध एव अनि- त्यत्वे मानमिति केषाञ्चिन्मतं परास्तम् ॥ ८७ ॥