परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 327, कुल 373 में से
संदर्भ में पढ़ें८९ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २९७ तत्प्रत्यये कार्यविज्ञानमि’ति पाठस्तु ‘प्रसृड्भिरि’त्यादौ ‘अनुदात्तस्य चदुं- पधस्ये’त्यमापादनेन भाष्ये दूषितः । यत्कार्यं प्रत्ययानिमित्तं तत्रेयं व्यवस्थापिका, तेन पदान्तत्वनिबन्धनं ‘नशेर्वे’ति कुत्वं ‘प्रणड्भ्यामि’त्यादौ भवत्येव । इयङादिविधौ तु नैषा, ‘न भूसुधियोरि’ति निषेधेनानित्यत्वात् । ‘मृजेर्वृद्धिरि’त्यत्र भाष्ये स्पष्टा ।।८९।। कुत्वाभावस्य सुवचत्वेन ज्ञापकत्वस्य सुस्थत्वात् । पाणिनितात्पर्यविषयीभूततत्त्व- विधानस्य वैयर्थ्येन उक्तपरिभाषानुपानमित्याशयात् । अत एव भाष्यकृता “अत्र तत्त्वं निपात्यत” इति व्याख्यातम् । एतेन टिलोपाभावार्थं निपातनावश्यकत्वेन ज्ञापकत्वासम्भव इति परास्तम् । प्रत्ययनिमित्तमिति । इयं च धर्मिग्राहकमानेन प्रत्ययत्वव्याप्यधर्मावच्छिन्नो- द्देश्यताके विधावेव प्रवर्तते इति भावः । वस्तुतः—इयमुक्तिर्निष्फला, ‘नशेर्वे’त्यत्र तत्प्रवृत्तावपि ‘प्रणड्भ्यामि’त्यादौ धातूद्देश्यकक्विप्प्रत्ययपरकत्वस्य सत्त्वेन कुत्वप्रवृत्तौ बाधकाभावात् । न चैवं ‘वचिस्र्प्यो’त्यस्य प्रत्ययनिमित्तकत्वाभावेऽपि अनया धातूद्देश्यकप्रत्ययनिमित्त- कत्वापत्त्या वेञो विजन्तात् क्यचि सम्प्रसारणानापत्तिरिति वाच्यम् ; इष्टापत्तेः । अत एव भाष्ये “उच्चारणसामर्थ्यात् काम्यचः ककारस्य नेत्वमि”त्युक्तम् ; अन्यथा वेञो विजन्तात्काम्यचि सम्प्रसारणार्थं कित्त्वस्याऽऽवश्यकत्वेन तदसङ्गतिः स्पष्टैव । न चैवं किति धातौ सम्प्रसारणवारणाय ‘वच्यादिभ्यो विहिते कितौ’ति विहितविशेषणवैय्यर्थ्यापत्तिः, एनया तत्प्रत्यये सम्प्रसारणविधानेन किति धातौ तदप्राप्तेरिति वाच्यम् ; अशब्दादाचारक्विबन्ताद् घञर्थे के विजन्तवच्यादेः पूर्वं- प्रयोगे सम्प्रसारणव्यावृत्तये विहितविशेषणसार्थक्यस्य सुवचत्वात् । तत्रोक्त- परिभाषया तु न निर्वाहः, कस्य धातूद्देश्यकत्वादित्यन्यत्र विस्तरः । अनित्यत्वादिति । वस्तुतस्तु—ज्ञापकसाजात्याद् धातुत्वेतरधातुत्वव्याप्यधर्माव- च्छिन्नबोधकपदोपादने एव एतत्परिभाषाप्रवृत्तिस्वीकारेण इयङादिविधौ तदप्रवृत्त्या अनित्यत्वस्य नोपयोगः । ‘सृजिदृशोरे’त्यत्र एतत्परिभाषाप्रवृत्तेर्निंविवादतया तत्प्रत्यये इत्यस्य सम्बन्धार्थार्थिकारानुरोधेन ‘अनुदात्तस्य चर्दुपधस्ये’त्यत्रापि तद्ग्रहणेन ‘प्रसृद्भििरि’त्यत्र उक्तदोषानवकाश इति दिक् ।। ८९ ।। ज्ञापकस्य सुस्थत्वादिति । वस्तुतस्—“निपातनानि अनेक प्रयोजनानि भवन्ति, [