भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 331, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 331

९३-९५ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३०१ इयं चानित्या, द्वयोरिति निर्देशात् । अनित्यत्वबललभ्यार्थमादायैव ‘भ्यसोऽभ्यमि’ति सूत्रे भाष्ये निष्ठातस्येति पठितम् । केचित्तु अनया परिभाषया न किञ्चिल्लक्ष्यं साध्यते । अत एव ‘ज्ञाजनोर्जा, ज्यादादीयस’ इति सूत्रयोरेनां ज्ञापयित्वा किं प्रयोजनमिति प्रश्ने पिबतेर्गुणप्रतिषेध उक्तः, स न वक्तव्य इत्येव प्रयोजनमुक्तम्, न तु लक्ष्य- सिद्धिरूपम् । तदुक्तम्—‘भ्यसोऽभ्यमि’त्यत्राभ्यमिति च्छेदः शेषे लोपश्चा- न्त्यलोप एव ‘अतो गुणे’ इति पररूपेण सिद्धं ‘युष्मभ्यमि’त्यन्यत्र निरू- पितम् । एवञ्च सूत्रद्वयस्थमेतज्ज्ञापनपरं भाष्यं ‘भ्यसोऽभ्यमि’ति सूत्रस्थं च भाष्यमेकदेश्युक्तिरित्याहुः ॥ ९३ ॥ यत्तु ‘ओरोदि’ति वाच्ये ‘ओर्गुण’ इति गुणग्रहणात्— संज्ञापूर्वकविधेरनित्यत्वम् ॥ ९४ ॥ —: ✤ :— इयं च विधेयकोटो संज्ञापूर्वकत्व एव, तेन ‘स्वायम्भुवमि’त्यादि सिद्धम् । तथा निलोडित्येव सिद्ध आनिग्रहणात्— आगमशास्त्रमनित्यम् ॥ ९५ ॥ —: ✤ :— पत्तिर अत आह—अनित्येति । निष्ठातस्येति । परिनिष्ठितस्येत्यर्थः । एवञ्च यत्राङ्गाधिकblockारीय- कार्यप्रवृत्त्युत्तरं लक्ष्यस्य परिनिष्ठितत्वं सम्पद्यते, तत्र द्वितीयमङ्गाधिकारोयं कार्यं न प्रवर्तते । यत्र तु न तथा, तत्र पुनरङ्गाधिकारीयमपरं प्रवर्तते एव । परिनिष्ठितत्वज्ञानं च शिष्टप्रयोगादितो ज्ञेयमिति तदाशयः । प्रयोजनमुक्तमिति । तच्च पिबादेशस्य आदन्तत्वादन्यथासिद्धमिति भावः । इत्यन्य- त्रेति । इत्यादिरस्या विषयोऽन्यत्र शेखरे शब्दरत्ने च विस्तरेण निरूपित इत्यर्थः ।। ९३।। इयं चेति । यत्र शास्त्रे संज्ञाशब्दो विधेयताप्रयोजकस्तस्याऽनित्यत्वमित्यर्थः । धर्मिग्राहकमानसिद्धस्यार्थस्यास्वीकारे तु प्रायः शास्त्रमात्रस्य संज्ञापूर्वकत्वेन अनित्यत्व- स्वीकारेऽनिष्टप्रसङ्ग इति भावः । स्वायम्भुवमिति । अत्र संज्ञापूर्वकत्वेन गुणस्याप्रवृत्ते- रुवङ् सिद्धयति । मूले—न तु लक्ष्यसिद्धिरूपमिति । 'युष्मभ्यम्, दवयति, स्रजयति' इत्यादिलक्ष्याणा- मन्यथासिद्धत्वादिति शेषः । तत्राऽऽद्यस्य सिद्धिप्रकारमाह मूले—तदुक्तमिति । अस्याः लक्ष्या- साधकत्वमित्यर्थः ॥ ९३ ॥