परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 332, कुल 373 में से
संदर्भ में पढ़ेंतेन 'सागरं तर्तुकामस्ये'त्यादि सिद्धम् । तथा तनादिपाठादेव सिद्धे 'तनादिकृञ्भ्य' इति सूत्रे कृञ्ग्रहणात्- गणकार्यमनित्यम् ॥ ९६ ॥ -: ❖ :- तेन 'न विश्वसेदविश्वस्तमि'त्यादि सिद्धम् । तथा चक्षिङो ङित्करणात्- अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् ॥ ९७ ॥ -: ❖ :- तेन 'स्फायन्तिर्मोक' इत्यादि सिद्धम् । तथा विनार्थेनञा समासेन अनुदात्तं पदमेकमित्येव सिद्धे वर्जं- ग्रहणात्- नञ्घटितमनित्यम् ॥ ९८ ॥ -: ❖ :- तेन 'नेयङुवङि'त्यस्यानित्यत्वात् 'हे सुभ्रु' इति सिद्धमिति । तन्न; भाष्येऽदर्शनात् । भाष्यानुक्तज्ञापितार्थस्य साधुतानियामकत्वे मानाभावात्, भाष्याविचारितप्रयोजनानां सौत्राक्षराणां पारायणादौ अदृष्ट- मात्रार्थकत्वकल्पनाया एवौचित्यात् । किञ्च ज्ञापितेऽप्यानीत्यस्य न सार्थक्यम् , आडागमशून्यप्रयोगस्य तर्तुकामस्येति । अत्रेऽडभावसिद्धिरस्याः प्रयोजनम् । गणकार्यमिति । गणनिर्देशप्रयुक्तं कार्यमनित्यमित्यर्थः । विश्वसेदिति । अदादिगणप्रयुक्तशब्लुकः प्रवृत्त्यभावः । स्फायन्तीति । अत्र धातोरनुदात्तेत्त्वेऽपि परस्मैपदशतृसिद्धिः । हे सुभ्रु इति । अत्रानित्यत्वेन उक्तनिषेधाप्राप्त्या नदीत्वेन 'अम्बार्थ' इति ह्रस्वसिद्धिः । अदर्शनादिति । ननु शिष्टप्रयोगसमर्थनाय तत्तत्पाणिनिप्रयासवैयर्थ्यान्यथानुप- पत्त्यैतत्कल्पनेऽपि क्षतिविरह इत्यत आह-भाष्यानुक्तेति । तथा च महर्षेरज्ञानकल्पना- पेक्षया शिष्टप्रयोगाणामसाधुत्वकल्पनमेव न्याय्यमिति भावः । नन्वेवं तत्तत्परिभाषाज्ञापक- सूत्रकारप्रयत्नवैयर्थ्यमत आह-अदृष्टेति ।