परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 34, कुल 373 में से
संदर्भ में पढ़ें४ परिभाषेन्दुशेखरः [ ग्रन्थकरणप्रतिज्ञा, भाष्यवार्त्तिकयोरुपनिबद्धानि यानि परिभाषारूपाणि तानि व्याख्यायन्ते । भाष्यवार्त्तिकयोः = भाष्यवार्त्तिककारयोरुपनिबद्धानि = अभिप्रेतानि यानि परिभाषा- रूपाणि तानि अत्र ग्रन्थे व्याख्यायन्ते । व्याख्यानञ्च—प्रकृतशास्त्रप्रवृत्तिनिवृत्त्युप- योगित्वेन प्रतिज्ञानविशिष्टमत्र विवक्षितम्, तेन 'अकृतव्यूहा०' इत्याद्युपन्यासेऽपि न प्रतिज्ञाविरोधः । नन्वत्र ज्ञापकन्यायसिद्धानीति विशेषणेन वाचनिकीनामसङ्ग्रह इति चेद्— अत्र केचित्—प्रायेणेति शेषं कृत्वा वाचनिकीनां सङ्ग्रहमाहुः । अन्ये तु—ज्ञापकन्याय- शब्दावर्शावाद्यजन्तौ ज्ञापकन्यायसिद्धपरौ, सिद्धशब्दश्च वाचनिकपरस्तेन निर्दिश्य- मानस्ये'त्यादिवाचनिकीनां सङ्ग्रह इत्याहुः । सदाशिवभट्टास्तु—भाष्यवार्त्तिकयोरिति पृथक् कोटिस्तेन ज्ञापकन्यायसिद्धानां भाष्याद्यनुपन्यस्तानाम् 'अकृतव्यूहा०' इत्यादि- परिभाषाणां ज्ञापकन्यायासिद्धानां केवलवाचनिकीनाञ्च सङ्ग्रहमाहुः । केचिच्च— वाचनिकानीत्यस्य आवृत्त्या तासां सङ्ग्रहमाहुः । केचिच्च—प्राचीनवैयाकरणतन्त्रे वाचनिकान्यपि पाणिनीयतन्त्रे ज्ञापकन्यायसिद्धान्यपि यानि भाष्यवार्त्तिकयोरुपनि- बद्धानि तान्येवात्र व्याख्यायन्त इति व्याचख्युः । वस्तुतस्तु—ज्ञापकन्यायासिद्धानि व्याख्येयपरिभाषारूपाणि नैव सन्तीति प्राचीनेत्यादेर्यथाश्रुतार्थ एव समीचीनः । 'यस्मिन्विधिर्'त्यादौ वाचनिक्येषेत्याद्युल्लेखस्तु भाष्ये एतस्यां ज्ञापकन्यायौ नोपन्यस्तौ केवलं वचनरूपेण पठितेत्येवार्थः, न तु तौ न स्त इति । व्याख्येयपरिभाषात्वञ्च—सङ्केतग्राहकभिन्नत्वे सति शब्दधर्मिकसाधुत्वप्रका- रकशास्त्रजन्याप्रामाण्यज्ञानानास्कन्दितबोधे सहकारित्वेन मुन्यभिप्रेतत्वे सति पाणिन्युच्चरितभिन्नत्वम्, 'षष्ठी स्थानेयोगे'त्यादीनां पाणिन्युच्चरितत्वेऽपि 'निर्दिश्य- मानस्यादेशा भवन्ती'त्यानुपूर्वीमद्वाक्यस्य पाणिन्यनुच्चरितत्वान्न दोषः । कासाञ्चि- दनेवंविधत्वेऽपि पाणिनिप्रयत्नानुमितत्वसादृश्यादारोपितं परिभाषात्वमनुसन्धेयम् । अथात्र शास्त्रत्वसम्पत्तिमन्तरा बाधचिन्ताया असम्भवात् शास्त्रत्वसम्पा- दनोद्देशनामकं 'व्याख्यानत०' इत्यारभ्य 'एकदेशविकृतमि'