परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 35, कुल 373 में से
संदर्भ में पढ़ें१ प्रकरणे १ परि० विचारश्च ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ५ अथ शास्त्रत्वसम्पादनोद्देशनामकं प्रथमं प्रकरणम् ननु लण्-अइउण्सूत्रयोर्णकारद्वयस्यैवोपादानेनाणिण्ग्रहणेषु सन्देहा- दनिर्णयोऽत आह— क्त्वादेवाऽन्ते निरूपणाहं शास्त्रशेषनामकं तृतीयं प्रकरणं सन्दर्भशुद्धिमनुरुध्य क्रमेण ग्रन्थकार उपनिबबन्ध । तत्र च तात्पर्यनिर्णायकप्रमाणनिरूपणात् सर्वशास्त्रोपकारकत्वेन वर्णसमा- म्नायस्थमहेश्वरप्रणीतणकारानुबन्धज्ञापितत्वेन चाभ्यर्हितत्वात् प्रथममुपन्यासमर्हन्तीं परिभाषां व्याचिख्याशुरवतारयति — नन्विति । णकारेति । णपदं विद्यमानणकार- परम्, तेन उक्तसूत्रयोर्विद्यमानौ यौ णकारौ तद्द्वयस्येत्यर्थः । एतेन—प्रत्येकसूत्रे णद्वयाभावेन द्वन्द्वानुप्पत्तिरित्यपास्तम् । अणिण्ग्रहणेषु = तद्ग्राहकप्रत्याहारपदेषु; सन्देहात् = तात्पर्यसन्देहात्; अनिर्णयः = 'तात्पर्यसन्देहाच्छाब्दबोध एव ने'ति मते शाब्दबोधाभावः । 'तात्पर्यसन्देहात् सन्देहात्मकः शाब्दबोध' इति मते निर्णयात्मक- शाब्दबोधाभाव इत्यर्थः । नन्वादिरन्त्येनेति शास्त्रेणाद्यन्ताक्षिप्तसमुदायघटकबोध्यस्यैवाजादिपदप्रतिपा- द्यतया बोधितत्वेन प्रकृताकारादिणकारान्तसमुदायान्तःपातिवर्णबोध्यत्वरूपाण्पद- सङ्केततावच्छेदककुक्षौ समुदायस्याकारादिणकारान्तत्वेनानुगतरूपेणैव प्रवेशात् सङ्केत- भेदाभावेन कथं तात्पर्यसन्देहः । नहि पश्वादिपदं शृण्वन् 'किं पीतलाङ्गूलावच्छिन्न- बोधतात्पर्येणायमेतत्पशुपदमुदचीचरत्, उत श्वेतलाङ्गूलावच्छिन्नबोधतात्पर्येणे'ति कश्चित्सन्दिहानो भवति, लाङ्गूलस्य पशुपदशक्तौ विशेषरूपेण प्रवेशाभावादिति चेत् सत्यम् । एवं सति पूर्वणकारस्य वैयर्थ्यापत्त्या ईदृशस्यानुगतधर्मस्याण्पदसङ्केतता- ननु—तात्पर्यसन्देहोऽपि तदैव यदा सङ्केतभेदो भवति, सङ्केतभेदश्च तदैव यदा शक्यता- वच्छेदकभेदः शक्यतावच्छेदकतावच्छेदकभेदो वा । यथा—घटपदात् घटत्वेनानेकव्यक्त्युपस्थितावपि शक्त्यन्तराभावेन सन्देहोत्थापकार्थान्तरानुपस्थितौ उपस्थितिविषयतावच्छेदकावच्छिन्नबोध- प्रयोजकतात्पर्यसन्देहस्याभावस्तद्वदत्रापि सन्देहस्य दुरुपपादत्वम्, अतः शङ्कासमाधानाभ्यां प्रकृते सङ्केतभेदमपपादयन्नाह—नन्विति । सन्दिहानो भवतीति । पशुपदशक्तिप्रमावतः पुरुषस्य पीतत्वादिविशेषरूपेण लाङ्गूला- वच्छिन्नबोधजनकत्वाभाववत्प्रकारकनिश्चयात्मकप्रतिबन्धकसद्भावेन सन्देहासम्भवादिति भावः । विशेषरूपेणेति । पीतत्वादीनानारूपेणेति तदर्थः ।