भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 36, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 36

वच्छेदकताया अनभ्युपगमेन त्रिकवृत्तिचतुर्दशवृत्त्योर्व्याप्यव्यापकयोरन्यतमत्वयो- रेव सङ्केततावच्छेदकतायाः कल्पनेन नानाशक्तिकत्वात् सन्देहः स्यादेवेति बोध्यम् । वस्तुतस्तु—अन्त्येत्सदृशेन सहित आदिसदृशः स्वघटकानुयोगिकसादृश्यप्रतियोगि- त्वेन विवक्षितवर्णनिष्ठान्ततानिरूपकस्य स्वघटकानुयोगिकसादृश्यप्रतियोगित्वेन विवक्षितवर्णनिष्ठादितानिरूपकस्य समुदायस्य घटकानां संज्ञेति आदिरन्त्येनेति सङ्ग्राहकवाक्यार्थस्य सर्वाभिमतत्वेन सूत्रस्थाणघटक-णस्य 'अइउण्'सूत्रस्थणकार- सदृशत्वेन विवक्षायामकारस्य 'अइउण्'-सूत्रघटकाकारसदृशत्वेन विवक्षायाञ्च तदण्- पदशक्यतावच्छेदककुक्षौ अ-इ-उ-इत्येतत्त्रितयवृत्तिसमुदायत्वस्य, उक्तणकारस्य लण्- घटकणकारसदृशत्वेन विवक्षायाञ्च तादृशान्तचतुर्दशवर्णसमुदाय