परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 37, कुल 373 में से
संदर्भ में पढ़ें१ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ७ विशेषस्यान्यतराद्यर्थरूपस्य व्याख्यानाच्छिष्टकृतात् प्रतिपत्तिर्निश्चयो यतः सन्देहाच्छास्त्रमलक्षणमननुष्ठापकं लक्षणमलक्षणं तथा न, शास्त्रस्य निर्णयजनकत्वौचित्यादित्यर्थः । असन्दिग्धानुष्ठानसिद्ध्यर्थेऽत्र शास्त्रे सन्दिग्धो- च्चारणरूपाचार्यव्यवहारेण सन्देहनिवृत्तेर्व्याख्यानातिरिक्तनिमित्तानपेक्षत्वं बोध्यत इति यावत् । अन्यतराद्येति । आदिपदं बहुकोटिकसंशये अन्यतमपरिग्रहाय । शिष्ट- कृतादिति । शिष्टपदेन निखिलशब्दधर्मिकसाधुत्वप्रकारकयथार्थज्ञानवान् इह गृह्यते । हि यत इति । हिशब्दस्त्वर्थ इति तु परे। अननुष्ठापकमिति । शब्दविशेष- धर्मिकसाधुत्वप्रकारकनिश्चयजनकत्वाभाववन्नेत्यर्थः । असन्दिग्धेति । सन्दिग्धं सन्देहो भावे क्तः, न विद्यते सन्दिग्धम् = सन्देहो यस्मिन्नित्यर्थः; सन्दिग्धेति ( पदं ) भावक्तान्तप्रकृतिकार्शआद्यजन्तम्, सन्देहजनके लाक्षणिकं वा । तथा च सन्देह- रहितप्रवृत्तिप्रयोजकेऽत्र शास्त्रे सन्देहजनकाइउण्-घटकणकारकर्मकोच्चारणरूपा- चार्यव्यवहारेण निरुक्तार्थरूपा 'व्याख्यानतो' इति परिभाषा ज्ञाप्यत इत्यर्थः पर्यवस्यति । इति; इदमण् इत्यपि पदम्; तस्मात्तथा' इत्यनुमानेन आप्तोच्चरितवाक्यत्वावच्छेदेन तत्समवेत- तात्पर्यान्तरौयविशेष्यत्वासमानाधिकरणातत्पर्यज्ञानीयविशेष्यतावत्त्वनिश्चये, 'अण्पदम् अ-इ-उ- , एतत्त्रितयविषयकबोधजनकत्वप्रकारकतात्पर्यज्ञानविशिष्टविशेष्यतावत्, आहोस्वित् अ-इ-उ-ऋ-ऌ- ए-ओ-ऐ-औ-ह-य-व-र-ल-इत्येतच्चतुर्दशविषयकबोधजनकत्वप्रकारकतात्पर्यज्ञानविशिष्टविशेष्यता- वत्' इत्याकारकस्य सन्देहस्योपपादयितुं शक्यत्वात् । ज्ञानवैशिष्टयञ्च विशेष्यतायाम्—स्वनिरू- पितत्व-स्वसमवायिसमवेततात्पर्यान्तरीयविशेष्यतासामानाधिकरण्यैतदुभयसंसर्गेण इति । मूले—हि यत इति । परिभाषायां हिशब्दो हेतुं बोधयति, लक्षणशब्दस्य बोधजनकत्व- मर्थः, अननुष्ठापकमित्यस्य प्रवृत्तिप्रयोजकत्वाभाववदर्थः, तस्य च बोधेऽन्वयः, शास्त्रमित्यध्या- हारः, प्रवृत्तिप्रयोजको बोधश्च प्रकृते शब्दविशेषधर्मिकसाधुत्वप्रकारकनिश्चयात्मकः शास्त्रमतो- ऽननुष्ठापकबोधजनकं नेति शाब्दबोधः । यतः = यस्माद्धेतोः, यद्यच्छास्त्रं तत्सर्वमनुष्ठापकमेवा- तस्तात्पर्यसन्देहमात्रात्तदभावस्त्वनुचित इति तात्पर्यम् 'न हि सन्देहादलक्षणम्' इति परिभाषां- शस्येति भावः । अन्ये तु—इदं व्याख्यानमनुचितम्, यद्यल्लक्षणं तत्सर्वमनुष्ठापकमिति व्याप्तेः 'न बहु- व्रीहौ' इत्यादिप्रत्याख्यातलक्षणानां 'त्वत्कपितृक' इत्यादिलक्ष्याननुष्ठापकत्वेन व्यभिचारेणासम्भ- वात् । तस्माद् 'हिशब्दस्त्वर्थे' । तथा च सन्देहात् तु = सन्देहमात्रेण तु, लक्षणमलक्षणं न भवति- प्रत्याख्यानादिना लक्षणमलक्षणं भवदपि सन्देहमात्रेण लक्षणमलक्षणं = साक्षात्परम्परया वाऽसन्दिग्धानाहार्याप्रामाण्यज्ञानानास्कन्दितलक्ष्यधर्मिकसाधुत्वप्रकारकबोधजनकं न भवतीत्यर्थः, लक्षणशब्दस्येदृशार्थ एव वैयाकरणनिकाये रूढेः । एवञ्चाननुष्ठापकमिति मध्यमपदलोपी कर्म- धारयोऽपि व्यर्थ एवेत्याहुरित्याशयेनाह—हि शब्दस्त्वर्थ इति तु परे इति ।