परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 38, कुल 373 में से
संदर्भ में पढ़ें८ परिभाषेन्दुशेखरः [ १ प्रकरणे तेनाणुदित्सवर्णस्येत्येतत्परिहाय पूर्वेणाण्ग्रहणम्, परेणेण्ग्रहणमिति लण्सूत्रे भाष्ये स्पष्टम् ॥ १ ॥ सन्देहनिवृत्तेर्व्याख्यानापेक्षत्वमिति परिभाषास्वारसिकार्थं विहाय, व्याख्याना- तिरिक्तनिमित्तानपेक्षत्वमिति वक्रोक्त्या प्रतिपादयन्तु-यत्र व्याख्यानेन तदतिरिक्तप्रमाणेन वा सन्देहनिवृत्तिः प्राप्ता, तत्र व्याख्यानाज्जायमानसन्देह- निवृत्तेरेव प्रकृतशास्त्रप्रवृत्तिप्रयोजकत्वमिति बोधनाय । अत एव 'हृदयस्ये'ति सूत्रे लेखोच्चारणसामर्थ्यात् लेखेति घञन्ते तात्पर्यं प्राप्नोति, तथापि ज्ञापकपरभाष्य- व्याख्यानेन अणन्त एव लेखपदस्य तात्पर्यमवधार्यते, न तु घञन्ते । तथा च 'यथोत्तरं मुनीनां प्रामाण्यमि'ति वचनमप्येतत्सिद्धार्थानुवादकमेव । यथोत्तरं मुनीनां प्रामाण्यमित्यस्योत्तरोत्तरमुन्यभिप्रेतेऽर्थे पूर्वपूर्वमुनीनां तात्पर्यमित्येवार्थः, न तु पूर्वमुनीनामप्रामाण्यमिति; अन्यथैतद्दृष्टान्तेन सम्पूर्णशास्त्रस्याप्रामाण्यापत्तिः । यत्तु-शेखरकृतो