परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 39, कुल 373 में से
संदर्भ में पढ़ें१-३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ९ तत्र संज्ञापरिभाषाविषये पक्षद्वयमित्याह— यथोद्देशं संज्ञापरिभाषम् ॥ २ ॥ कार्यकालं संज्ञापरिभाषम् ॥ ३ ॥ —: ० :— उद्देशमनतिक्रम्य यथोद्देशम् । उद्देश उपदेशदेशः अधिकरणसाधन- श्चायम् । यत्र देशे उपदिश्यते तद्देशे एव वाक्यार्थबोधेन गृहीतशक्त्या गृहीत- —————— 'यथोत्तरमि'त्यत्र स्वसम्मतिरुक्ता । 'व्याख्यानत' इत्यतः स्वरसतस्तादृशार्थाप्रतीतिः, निरुक्तार्थे ज्ञापितेऽपि णकारस्य स्वांशेऽचारितार्थ्यञ्चेति वदन्तीति दिक् ॥ १ ॥ सकलपरिभाषाविषयं परिभाषाद्वयं वक्तुमुपक्रमते—तत्रेति । शास्त्रे इत्यर्थः, तेन शास्त्रत्वावच्छेदेन संज्ञापरिभाषाविषयकं पक्षद्वयम्, न तु प्रत्येकं संज्ञात्वाद्य- वच्छेदेनेति भावः । उद्देशमनतिक्रम्येति । 'परावरयोगे चे'ति क्त्वा, 'यथासादृश्य' इत्यव्ययीभावः । गृहीतशक्त्येति । इदं संज्ञाविषयकम्, संज्ञाशास्त्रजन्यवाक्यार्थबोध- रूपशक्त्यनुभवोपोद्वलितसंस्कारेणैव तत्तत्साङ्केतिकविधिशास्त्रघटकपदानुभवोद्बुद्धेन उपस्थितिशाब्दबोधयोर्निर्वाहे विधिदेशे पुनरेतत्प्रतिसन्धानस्य नोपयोग इति भावः । अथैवं संज्ञाविषये कार्यकालपक्षानुत्थितिः, प्रदर्शितदिशैव उपस्थित्यादेरुपपत्त्या विधिप्रदेशे संज्ञाशास्त्रजन्यवाक्यार्थस्यानुपयोगादिति चेन्न । अनुभवेनोपस्थित्यो- —————— ज्ञापिते च भाष्यकारादिबोधिते एव सूत्रार्थे सूत्रकृतोऽपि तात्पर्यमित्यर्थे, तेन प्रत्याख्यान- वादिमतं प्रबलमेवंविधविषये इति च ध्वन्यते । तथा सति सूत्रस्य दृष्टार्थकत्वाभावेनाकारविधानं गुणाभावाय चरितार्थं वेदितव्यम् । ध्वनितश्चायमर्थो भाष्यकृता-'अपि च प्रत्याख्यायते स योगः, तस्मिन् प्रत्याख्याते गुणः स्यादेव, तस्मादत्वं वक्तव्यम्' इत्यादिना ग्रन्थेनेत्यवधेयम् ॥ १ ॥ न तु प्रत्येकं संज्ञात्वाद्यवच्छेदेनेति । अत्रेदं तात्पर्यम्-शास्त्रे पक्षद्वयमित्येतन्मात्रोक्तौ 'उद्देश्यतावच्छेदकव्यापकत्वं विधेये भासते' इति न्यायेन शास्त्रत्वावच्छेदेन पक्षद्वयप्राप्त्या विधि- सूत्रादावपि तदापत्तिः; केवलं संज्ञापरिभाषाविषये पक्षद्वयमित्येतदुक्तौ च प्रत्येकं संज्ञात्वावच्छेदेन पक्षद्वयं प्राप्नोतीत्यतः उभयमुपात्तम् । तथा च 'शास्त्रत्वं संज्ञापरिभाषासमुदायनिष्ठं ग्राह्यमिति तदवच्छेदेन पक्षद्वयम्' इत्यत्रैव तात्पर्यग्राहकत्वं संज्ञापरिभाषाविषये इत्यस्य । संज्ञापरिभाषा- समुदायनिष्ठशास्त्रत्वञ्च—लक्ष्यधर्मिकमाधुत्वप्रकारबोधोपयोगिबोधजनकत्वप्रकारकेच्छया पाणि- न्याद्युच्चरितानुपूर्वीमद्वाक्यकदम्बविशेषत्वमिति बोध्यम् । एतेन—प्रतिसंज्ञापरिभाषं पक्षद्वयं प्राप्नोतीति क्वचिद्यथोद्देश एव, क्वचित्कार्यकाल एव, क्वचिदुभयमित्येतदसङ्गतं स्यादित्यपास्तम्; प्रतिसंज्ञापरिभाषं पक्षद्वयाभावेऽपि शास्त्रे पक्षद्वयस्य सत्त्वादिति भावः । २