परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 346, कुल 373 में से
संदर्भ में पढ़ें३१६ परिभाषेन्दुशेखरः [ १ प्रकरणे- ननु वातायनार्थे गवाक्षेऽवडो वैकल्पिकत्वाद् 'गोक्ष' इत्याद्यपि स्यादत आह— व्यवस्थितविभाषयाऽपि कार्याणि क्रियन्ते ॥ १०८ ॥ —: ꕤ :— लक्ष्यानुरोधाद्व्यवस्था बोध्या । 'शाच्छोरि'ति सूत्रे 'लटः शत्रि'- त्यादिसूत्रेषु च भाष्ये स्पष्टा ॥ १०८ ॥ विधिनियमसम्भवे विधिरेव ज्यायान् ॥ १०९ ॥ — ꕤ — नियमे ह्यश्रुताया अन्यनिवृत्तेः सामर्थ्यात् परिकल्पनमुक्तानुवाददोष- श्चेति लाघवाद्विधिरेवेति बोध्यम् । 'यस्य हल' इत्यत्र 'इजादेः सनुम' इत्यादौ च भाष्ये स्पष्टेयम् ॥ १०९ ॥ ननु 'आशंसायां भूतवच्चे'त्यनेन लुङ् इव लङ्लिटोरप्यतिदेशः स्यादत आह— सामान्यातिदेशे विशेषानतिदेशः ॥ ११० ॥ —: ꕤ :— व्यवस्थितविभाषाऽपीति । क्वचिदिति शेषः । विकल्पविषये सर्वत्र भावाभावयोः पर्यायेण प्रवृत्तिर्युक्ता, द्वयोरप्युद्देश्यतावच्छेदकावच्छेदेन विधानात् । क्वचित्तु तयोरन्यतरस्य लक्ष्यानुरोधात् सङ्कोचः क्रियते इति परिभाषार्थः ; तदाह—लक्ष्यानुरोधादिति । तानि च भाष्याभिमतानि लक्ष्याणि ‘देवत्रातो गलो ग्राह’ इत्यादिना 'अवङ्'सूत्रे शब्देन्दुशेखरे स्पष्टानीत्यन्यत्र विस्तरः ॥ १०८ ॥ विधिनियमसम्भव इति । अपूर्वविधि-नियमविधित्वयोः सम्भवेऽपूर्वविधित्वकल्पन- मेव युक्तमिति परिभाषार्थः । अत्र शास्त्रे नियमविधिपदेन “तत्र चान्यत्र च प्राप्तौ परि- सङ्ख्येति गीयते” इति जैमिनीयपरिभाषितपरिसङ्ख्याविधिर्गृह्यते । अश्रुताया अन्यनिवृत्तेरिति । इदं च विधिमुखेन प्रवृत्तौ बोध्यम् । निषेधमुखेन प्रवृत्तौ तु 'भवती'त्यस्य न भवतीत्यर्थकल्पनेन इतोऽपि गौरवमिति भावः । यस्य हल इत्यत्र ⋯ भाष्य इति । तत्र हि 'अत इत्यस्य सम्बन्धान्नियामकत्वमुत तदसम्बन्धात् सर्वस्य लोपविधायकत्वम्'ति सन्दिह्य ‘अपूर्वे विधिर्भविष्यति न नियम’ इत्युक्तम् । एवं 'हेतावि'ति सूत्रस्य लौकिकहेतुग्रहणेन विध्यर्थत्वमेव, न तु तत्प्रयोजको हेतुश्चेति कर्तृसंज्ञकहेतोर्ग्रहणेन हेतोश्चेत्तृतीया तर्हि कर्तृसंज्ञकादेवेति नियमार्थत्वमिति दिक् ॥ १०९ ॥ सामान्यातिदेश इति । सर्वातिदेशविषय इदम् । तथा च सादृश्यप्रतियोगिता- वच्छेदकधर्म-तद्व्यापकधर्म-तद्धर्मप्रयुक्तकार्याणामतिदेशे सम्भवति न तद्व्याप्य-