परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 345, कुल 373 में से
संदर्भ में पढ़ें१०६-१०७ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३१५ स्पष्टा चेयं ‘पुमान् स्त्रिया, नपुंसकमनपुंसकेने’त्यनयोर्भाष्ये । अन्तरङ्गो- पजीव्यादपि प्रधानं प्रबलमिति 'हेतुमति चे'त्यत्र भाष्यकैयटयोः ।। १०६ ।। ननु स्वस्त्रादित्वप्रयुक्तो मातृशब्दस्य ङीबन्निषेधः परिच्छेत्तृवाचकमातृ- शब्देऽपि स्यादत आह— अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी ॥ १०७ ॥ —: ✤ :— तेन शुद्धरूढस्य जननीवाचकस्यैव ग्रहणं न परिच्छेत्तृवाचकस्य । योगजबोधे तदनालिङ्गितशुद्धरूढिजोपस्थितिः प्रतिबन्धिकेति व्युत्पत्तिरेव तद्बीजम् । रथकाराधिकरणन्यायसिद्धोऽयमर्थः । कश्चित्तु 'दीधीवेवीटामि'त्यत्र अनया परिभाषया दीधीङ्-वेवीङोरेव ग्रहणं न दोङ्-धीङ्-वेञ्-वीनामिति । तन्न ; तथा सति दीवेधीवीटामित्येव वदेदित्यन्ये ।। १०७ ।। भाष्यकैयटयोरिति । तत्र हि “अन्तरङ्गमुपजीव्यं च प्रयोज्यक्रियानिरूपितं कर्तृत्वं बाधित्वा प्रधानीभूतप्रयोजकक्रियापेक्षं कर्मत्वं प्रवर्तते इति गत्यादिसूत्रं नियामक- मित्युकतं"त्यन्यत्र विस्तरः ॥ १०६ ॥ अवयवप्रसिद्धेरिति । अवयवशक्तिग्रहाधीनतदुपस्थित्यपेक्षया तद्घटितनिष्ठशक्ति- ग्रहाधीनविशिष्टार्थोपस्थितिः प्रबला, अतो वाक्यार्थबोधे सैव प्रयोजिकेति परिभाषार्थः । तदनालिङ्गितशुद्धेति । तेन योगरूढस्थले तदुपस्थितेर्योगार्थविषयकबोधे प्रति- बन्धकत्वं नेति बोध्यम् । रथकारेति । 'वर्षासु रथकारोऽग्नीनादधीते'त्यत्र उक्तयुक्त्या रथकारपदेन समुदायनिष्ठशक्तिग्रहाधीनोपस्थितिविषयरूढ्यर्थजातिविशेषविशिष्टस्य शूद्र- स्यैव ग्रहणम्, न तु रथनिर्मातृस्त्रैवर्णिकस्य अवयवशक्तिग्रहाधीनशक्तिग्रहप्रयोज्योपस्थिति- विषयस्येत्युक्तं तत्रेति भावः । वस्तुतः—इदं व्याख्यानं चिन्त्यम् ; लोके योगजबोधे वक्तुस्तात्पर्येऽपि तदनापत्तेः । परे तु—स्वस्रादिगणे 'अर्थवद्ग्रहण'परिभाषयाऽर्थवन्मातृशब्दस्य ग्रहणात् केनार्थेन अर्थवतो ग्रहणमिति तात्पर्यसन्देहे योगार्थस्यावयवशक्तिग्रहाधीनशक्तिग्रहप्रयोज्यो- पस्थितिविषयत्वेन विलम्बोपस्थितिकतया शीघ्रोपस्थितिकस्य अवयवशक्तिग्रहानधीन- शक्तिग्रहप्रयोज्योपस्थितिविषयस्य जननीरुपार्थस्य तत्र सम्बन्धेन पश्चादुपस्थित- योगार्थस्य निराकाङ्क्षतया तत्र सम्बन्धाभाव इति तर्कमूलेयम् । 'रथकाराधिकरण'- न्यायेनापि रूढ्यर्थे तात्पर्यमेव बोध्यते, न तु रूढिजोपस्थितेर्योगार्थबोधे प्रतिबन्धकत्वम्, मानाभावादुक्तदूषणग्रासाच्चेति दिक् ॥ १०७ ॥