परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 344, कुल 373 में से
संदर्भ में पढ़ें३१४ परिभाषेन्दुशेखरः [ ३ प्रकरणे- ननु 'अव्यक्तानुकरणस्यात' इति पररूपं 'पटत्' इति 'पटीती'त्यादौ 'अलोऽन्त्यस्ये'त्यन्त्यस्य प्राप्नोतीत्यत आह— नानर्थकेऽलोऽन्त्यविधिरनभ्यासविकारे ॥ १०५ ॥ —: ✤ :— अनभ्यासेत्युक्ते 'बिभर्ती'त्यादौ 'भृञामिदि'त्याद्यन्त्यस्यैवाभ्यासोऽन- र्थकोऽर्थावृत्त्यभावात्, किन्तु उत्तरखण्ड एवार्थवानित्यन्यत्र निरूपितम् । एषा 'अलोऽन्त्यात्' सूत्रे भाष्ये स्पष्टा । फलानामन्यथासिद्धिकरणेन प्रत्याख्याता चेति तत एवावधार्यताम् ॥ १०५ ॥ ननु 'ब्राह्मणवत्सा च ब्राह्मणीवत्सश्चे'त्यादौ 'पुमान् स्त्रिया' इत्येक- शेषापत्तिः, स्त्रोत्वपुंस्त्वव्यतिरिक्तकृतविशेषाभावादत आह— प्रधानाप्रधानयोः प्रधाने कार्यसम्प्रत्ययः ॥ १०६ ॥ —: ✤ :— तेन प्रधानस्त्रीत्वपुंस्त्वव्यतिरिक्ताऽप्रधानस्त्रीत्वपुंस्त्वकृतविशेषस्यापि सत्त्वेन न दोषः । प्राप्नोतीति । तथा च 'नाम्रेडितस्ये'ति सूत्रेऽन्त्यग्रहणं व्यर्थं स्यादिति भावः । अनभ्यासविकार इति । अत्र ज्ञापकसाजात्याद् विकारपदेन भावादेश एव गृह्यते, तेनात्र 'लोपोऽभ्यासस्य', 'ध्वसोरेद्धावभ्यासलोपश्चे'ति सर्वस्यैवाभ्यासस्य भवतीति— केचित् । अत्र ज्ञापकं च पूर्वोक्तमन्त्यग्रहणम्, अनभ्यासेत्यंशे च 'अतिपिपर्योरि'ति निर्देशो ज्ञापक इति बोध्यम् । भाष्ये स्पष्टेति । तत्र वचनरूपेणोक्तेत्यर्थः । प्रत्याख्याता चेति । 'हलि लोप' इत्य- नेनान् एव लोपः । वाम्रेडितस्येत्येव सिद्धे नाम्रेडितस्यान्त्यस्य तु वेति सूत्रकरणेनात्र 'अलोऽन्त्य'परिभाषा न प्रवर्तते इति स्वीकारान्न दोषः । मीनादीनामनुवृत्त्यैव सिद्धेरत्र- ग्रहणादत्र लोपोऽभ्यासेति सर्वादेशः । 'ध्वसोरि'ति सूत्रे पुनर्लोपग्रहणाद् 'लोपशिति शिक्करणाद्वा सर्वादेशः । श्वेतादीनां लोप इत्येव सिद्धे 'श्वेताश्वाश्वतरे'त्यत्र पुनरश्व- तरादीनां ग्रहणेन 'चतुरश्छयतावि'त्यत्र आदेरित्येव सिद्धेरक्षरग्रहणेन 'विभाषाभवदि'ति वार्तिके वस्येत्येव सिद्धेर्वग्रहणेन तत्सामर्थ्यात् अलोऽन्त्यपरिभाषाया अप्रवृत्तिरिति भावः ॥ १०५ ॥ अप्रधानेति । अत्राप्राधान्यं च तत्पदप्रयोज्यविशेष्यतानिरूपितप्रकारतावच्छेदकत्व- रूपमिति भावः । एतद्बलादेव 'तस्माच्छसः, अतोऽम्'त्यादौ प्रधानपुन्नपुंसकार्थे वर्त- मानादित्यर्थेन 'राजभार्याः कुलपुत्र' इत्यत्र नत्वामोरभावः सिद्ध्यति । इयं च लोकसिद्धा, प्रधानानुसरणस्यागोपालाङ्गनां प्रसिद्धेरिति बोध्यम् ।