परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 343, कुल 373 में से
संदर्भ में पढ़ें१०४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३१३ वार्तिकोक्तफलानामनेकक्लिष्टकल्पनाभिरन्यथासिद्धिं प्रदर्शापि यान्येतस्याः परिभाषायाः प्रयोजनानि तदर्थमेषा कर्तव्या प्रतिविधेयं दोषेषु, प्रतिविधानं चोदात्तनिर्देशात्सिद्धमित्युपसंहारात् । मिमार्जिषतीत्यर्थं चैषा । तत्र वृद्धेः पूर्वमन्तरङ्गत्वाद् द्वित्वे परत्वादभ्यासकार्ये ततोऽभ्यासेकारस्य वृद्धिवारणाय आवश्यकी । न च वृद्धौ पुनरभ्यासह्रस्वत्वेन सिद्धिः, लक्ष्ये लक्षणस्येति न्यायेन पुनरप्रवृत्तेः । यत्तु 'न सम्प्रसारण' इति सूत्रे भाष्ये नैतस्याः परिभाषायाः प्रयोज- नानीत्युक्तं तस्यायमर्थः—एतत्सूत्रे प्रयोजनान्येतस्याः परिभाषाया न भवन्ति, व्यधादौ अन्त्यसमानदेशयणोऽभावादिति । नैतान्येतस्याः प्रयोजना- नीति पाठोऽपि क्वचिद् दृश्यते । वाचन