भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 342, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 342

३१२ परिभाषेन्दुशेखरः [ ३ प्रकरणे- रितराव्यवधानेन बोध्यम् । अत एव ‘विद्ध’ इत्याद्यर्थं ‘न सम्प्रसारणे’ इति चरितार्थम् । ‘अल्लोपोऽन’ इत्यादेः ‘अनस्तक्षणे’त्यादौ आद्याकारादौ अप्रवृत्ति- रप्यस्याः फलम्, यजादिस्वादिपरानन्ताङ्गस्याकारस्य लोप इत्यर्थस्यैव अङ्गांशे प्रत्ययस्य उत्थिताकाङ्क्षतयौचित्यात् अङ्गावयवयजादि-स्वादि- परस्यान इत्यादिक्रमेण अनेकत्र अनेकक्लिष्टकल्पनापेक्षयाऽस्या उचितत्वात् । न चैषा ‘ष्यङः सम्प्रसारणम्’ति सूत्रे भाष्ये प्रत्याख्यातेति भ्रमितव्यम् ; इतराव्यवधानेनेति । इतरपदेनाज् गृह्यते । तथा च अज्‌व्यवधानशून्यत्वमन्त्य- सदेशत्वम्, तेन ‘अदमुमुङि’त्यत्र रेफव्यवधानेऽपि न क्षतिः । एवं ‘हंसशिरांसी’- त्यत्रापि बोध्यम् । चरितार्थमिति । वस्तुतश्चिन्त्यमिदम्—‘ष्यङः सम्प्रसारणम्’ति सूत्रे भाष्ये एनां परिभाषामुक्त्वा “किमेतस्याः प्रयोजनम्”ति प्रश्ने “न सम्प्र- सारणे’ इति सूत्रं न कर्तव्यं भवती”त्युक्त्या ‘न सम्प्रसारणे’ इति सूत्रसाध्यफलाना- मेतत्परिभाषासिद्धत्वबोधनेन तद्विरोधापत्तेः । वस्तुतस्तु—कार्य्यव्यवधानशून्यत्वम् अन्त्यसदेशत्वम् । व्यधादौ अकारव्यवधाने- ऽपि यकारस्य कार्य्यव्यवधानशून्यत्वादन्त्यसदेशत्वसिद्ध्याऽनया वकारस्य सम्प्र- सारणाप्राप्त्या उक्तभाष्यं सङ्गच्छते । न चैवं ‘यून’ इत्यत्र यकारस्य कार्य्यव्यवधान- शून्यत्वेनान्त्यसदेशतया सम्प्रसारणापत्तिरिति वाच्यम् ; साक्षात् स्थानिद्वारा वा कार्यित्वस्यात्र ग्रहणेन ‘यून’ इत्यत्रोकारे स्थानिद्वारा कार्यित्वस्य सत्त्वेनादोषात् । न चैवमपि ‘अनस + आन्, अनआन’ इत्यत्र तपरकरणेन अल्लोप इत्येतत्कार्यित्वस्या- कारेऽभावेन पूर्वानोऽन्त्यसदेशत्वेन लोपापत्तिरिति वाच्यम् ; निरुक्तकार्यिता- वच्छेदकावच्छिन्नबोधकपदाप्रतिपाद्यतावच्छेदकधर्मावच्छिन्न पूर्वभिन्नत्वरूपतत्त्वस्वीकारेण अत्रानस्तादृशान्त्यरूपधर्मावच्छिन्नत्वेन अदोषात् । भाक्षिप्तप्रत्ययेनानो विशेषणेन ‘निर्दिश्यमान’परिभाषया वा उक्तदोषस्य सुनिवारत्वाच्चेति दिक् । एवं हंसशिरांसीति । अन्यथा रेफोत्तरोकारस्य नुमा व्यवधानेन अन्त्यसदेशत्वं न स्यात् । निरुक्तेति । अन्त्यवृत्तिकार्याप्रयोजकशास्त्रीयेत्यर्थः । अन्त्यरूपधर्मावच्छिन्नो य आन् तत्पूर्वत्वमेव पूर्वस्मिन्नन्-शब्दे इति नान्त्यसदेशत्वमित्यर्थः । भाक्षिप्तप्रत्ययेनेति । यत्तु-प्रत्ययस्यांशे उत्थिताकाङ्क्षतया यजादिस्वादिपरान्नन्ताङ्गस्य अकारस्य लोप इत्यर्थ एवोचित इति । तन्न; स्वस्वप्रकृत्यर्थान्यतरप्रत्ययाकत्वरूपप्रत्ययत्वस्य उत्थि- ताकाङ्क्षत्वाभावात्, स्वाव्यवहितपूर्वत्व-स्वनिष्ठविधेयतानिरूपितोद्देश्यताश्रयाद्यवयवकत्वोभय- सम्बन्धेन प्रत्ययविशिष्टरूपस्याङ्गत्वस्य उत्थिताकाङ्क्षत्वेऽपि आकाङ्क्ष्यमाणप्रत्ययत्वस्य अङ्गशरीरे एव पतितत्वेनाऽऽकाङ्क्षाशान्त्या अङ्गत्वस्य प्रत्ययांशे उत्थिताकाङ्क्षत्वादित्यपि वक्तुमशक्यत्वाच्च ।