परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
३१२ परिभाषेन्दुशेखरः [ ३ प्रकरणे- रितराव्यवधानेन बोध्यम् । अत एव ‘विद्ध’ इत्याद्यर्थं ‘न सम्प्रसारणे’ इति चरितार्थम् । ‘अल्लोपोऽन’ इत्यादेः ‘अनस्तक्षणे’त्यादौ आद्याकारादौ अप्रवृत्ति- रप्यस्याः फलम्, यजादिस्वादिपरानन्ताङ्गस्याकारस्य लोप इत्यर्थस्यैव अङ्गांशे प्रत्ययस्य उत्थिताकाङ्क्षतयौचित्यात् अङ्गावयवयजादि-स्वादि- परस्यान इत्यादिक्रमेण अनेकत्र अनेकक्लिष्टकल्पनापेक्षयाऽस्या उचितत्वात् । न चैषा ‘ष्यङः सम्प्रसारणम्’ति सूत्रे भाष्ये प्रत्याख्यातेति भ्रमितव्यम् ; इतराव्यवधानेनेति । इतरपदेनाज् गृह्यते । तथा च अज्व्यवधानशून्यत्वमन्त्य- सदेशत्वम्, तेन ‘अदमुमुङि’त्यत्र रेफव्यवधानेऽपि न क्षतिः । एवं ‘हंसशिरांसी’- त्यत्रापि बोध्यम् । चरितार्थमिति । वस्तुतश्चिन्त्यमिदम्—‘ष्यङः सम्प्रसारणम्’ति सूत्रे भाष्ये एनां परिभाषामुक्त्वा “किमेतस्याः प्रयोजनम्”ति प्रश्ने “न सम्प्र- सारणे’ इति सूत्रं न कर्तव्यं भवती”त्युक्त्या ‘न सम्प्रसारणे’ इति सूत्रसाध्यफलाना- मेतत्परिभाषासिद्धत्वबोधनेन तद्विरोधापत्तेः । वस्तुतस्तु—कार्य्यव्यवधानशून्यत्वम् अन्त्यसदेशत्वम् । व्यधादौ अकारव्यवधाने- ऽपि यकारस्य कार्य्यव्यवधानशून्यत्वादन्त्यसदेशत्वसिद्ध्याऽनया वकारस्य सम्प्र- सारणाप्राप्त्या उक्तभाष्यं सङ्गच्छते । न चैवं ‘यून’ इत्यत्र यकारस्य कार्य्यव्यवधान- शून्यत्वेनान्त्यसदेशतया सम्प्रसारणापत्तिरिति वाच्यम् ; साक्षात् स्थानिद्वारा वा कार्यित्वस्यात्र ग्रहणेन ‘यून’ इत्यत्रोकारे स्थानिद्वारा कार्यित्वस्य सत्त्वेनादोषात् । न चैवमपि ‘अनस + आन्, अनआन’ इत्यत्र तपरकरणेन अल्लोप इत्येतत्कार्यित्वस्या- कारेऽभावेन पूर्वानोऽन्त्यसदेशत्वेन लोपापत्तिरिति वाच्यम् ; निरुक्तकार्यिता- वच्छेदकावच्छिन्नबोधकपदाप्रतिपाद्यतावच्छेदकधर्मावच्छिन्न पूर्वभिन्नत्वरूपतत्त्वस्वीकारेण अत्रानस्तादृशान्त्यरूपधर्मावच्छिन्नत्वेन अदोषात् । भाक्षिप्तप्रत्ययेनानो विशेषणेन ‘निर्दिश्यमान’परिभाषया वा उक्तदोषस्य सुनिवारत्वाच्चेति दिक् । एवं हंसशिरांसीति । अन्यथा रेफोत्तरोकारस्य नुमा व्यवधानेन अन्त्यसदेशत्वं न स्यात् । निरुक्तेति । अन्त्यवृत्तिकार्याप्रयोजकशास्त्रीयेत्यर्थः । अन्त्यरूपधर्मावच्छिन्नो य आन् तत्पूर्वत्वमेव पूर्वस्मिन्नन्-शब्दे इति नान्त्यसदेशत्वमित्यर्थः । भाक्षिप्तप्रत्ययेनेति । यत्तु-प्रत्ययस्यांशे उत्थिताकाङ्क्षतया यजादिस्वादिपरान्नन्ताङ्गस्य अकारस्य लोप इत्यर्थ एवोचित इति । तन्न; स्वस्वप्रकृत्यर्थान्यतरप्रत्ययाकत्वरूपप्रत्ययत्वस्य उत्थि- ताकाङ्क्षत्वाभावात्, स्वाव्यवहितपूर्वत्व-स्वनिष्ठविधेयतानिरूपितोद्देश्यताश्रयाद्यवयवकत्वोभय- सम्बन्धेन प्रत्ययविशिष्टरूपस्याङ्गत्वस्य उत्थिताकाङ्क्षत्वेऽपि आकाङ्क्ष्यमाणप्रत्ययत्वस्य अङ्गशरीरे एव पतितत्वेनाऽऽकाङ्क्षाशान्त्या अङ्गत्वस्य प्रत्ययांशे उत्थिताकाङ्क्षत्वादित्यपि वक्तुमशक्यत्वाच्च ।
१०४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३१३ वार्तिकोक्तफलानामनेकक्लिष्टकल्पनाभिरन्यथासिद्धिं प्रदर्शापि यान्येतस्याः परिभाषायाः प्रयोजनानि तदर्थमेषा कर्तव्या प्रतिविधेयं दोषेषु, प्रतिविधानं चोदात्तनिर्देशात्सिद्धमित्युपसंहारात् । मिमार्जिषतीत्यर्थं चैषा । तत्र वृद्धेः पूर्वमन्तरङ्गत्वाद् द्वित्वे परत्वादभ्यासकार्ये ततोऽभ्यासेकारस्य वृद्धिवारणाय आवश्यकी । न च वृद्धौ पुनरभ्यासह्रस्वत्वेन सिद्धिः, लक्ष्ये लक्षणस्येति न्यायेन पुनरप्रवृत्तेः । यत्तु 'न सम्प्रसारण' इति सूत्रे भाष्ये नैतस्याः परिभाषायाः प्रयोज- नानीत्युक्तं तस्यायमर्थः—एतत्सूत्रे प्रयोजनान्येतस्याः परिभाषाया न भवन्ति, व्यधादौ अन्त्यसमानदेशयणोऽभावादिति । नैतान्येतस्याः प्रयोजना- नीति पाठोऽपि क्वचिद् दृश्यते । वाचन
३१४ परिभाषेन्दुशेखरः [ ३ प्रकरणे- ननु 'अव्यक्तानुकरणस्यात' इति पररूपं 'पटत्' इति 'पटीती'त्यादौ 'अलोऽन्त्यस्ये'त्यन्त्यस्य प्राप्नोतीत्यत आह— नानर्थकेऽलोऽन्त्यविधिरनभ्यासविकारे ॥ १०५ ॥ —: ✤ :— अनभ्यासेत्युक्ते 'बिभर्ती'त्यादौ 'भृञामिदि'त्याद्यन्त्यस्यैवाभ्यासोऽन- र्थकोऽर्थावृत्त्यभावात्, किन्तु उत्तरखण्ड एवार्थवानित्यन्यत्र निरूपितम् । एषा 'अलोऽन्त्यात्' सूत्रे भाष्ये स्पष्टा । फलानामन्यथासिद्धिकरणेन प्रत्याख्याता चेति तत एवावधार्यताम् ॥ १०५ ॥ ननु 'ब्राह्मणवत्सा च ब्राह्मणीवत्सश्चे'त्यादौ 'पुमान् स्त्रिया' इत्येक- शेषापत्तिः, स्त्रोत्वपुंस्त्वव्यतिरिक्तकृतविशेषाभावादत आह— प्रधानाप्रधानयोः प्रधाने कार्यसम्प्रत्ययः ॥ १०६ ॥ —: ✤ :— तेन प्रधानस्त्रीत्वपुंस्त्वव्यतिरिक्ताऽप्रधानस्त्रीत्वपुंस्त्वकृतविशेषस्यापि सत्त्वेन न दोषः । प्राप्नोतीति । तथा च 'नाम्रेडितस्ये'ति सूत्रेऽन्त्यग्रहणं व्यर्थं स्यादिति भावः । अनभ्यासविकार इति । अत्र ज्ञापकसाजात्याद् विकारपदेन भावादेश एव गृह्यते, तेनात्र 'लोपोऽभ्यासस्य', 'ध्वसोरेद्धावभ्यासलोपश्चे'ति सर्वस्यैवाभ्यासस्य भवतीति— केचित् । अत्र ज्ञापकं च पूर्वोक्तमन्त्यग्रहणम्, अनभ्यासेत्यंशे च 'अतिपिपर्योरि'ति निर्देशो ज्ञापक इति बोध्यम् । भाष्ये स्पष्टेति । तत्र वचनरूपेणोक्तेत्यर्थः । प्रत्याख्याता चेति । 'हलि लोप' इत्य- नेनान् एव लोपः । वाम्रेडितस्येत्येव सिद्धे नाम्रेडितस्यान्त्यस्य तु वेति सूत्रकरणेनात्र 'अलोऽन्त्य'परिभाषा न प्रवर्तते इति स्वीकारान्न दोषः । मीनादीनामनुवृत्त्यैव सिद्धेरत्र- ग्रहणादत्र लोपोऽभ्यासेति सर्वादेशः । 'ध्वसोरि'ति सूत्रे पुनर्लोपग्रहणाद् 'लोपशिति शिक्करणाद्वा सर्वादेशः । श्वेतादीनां लोप इत्येव सिद्धे 'श्वेताश्वाश्वतरे'त्यत्र पुनरश्व- तरादीनां ग्रहणेन 'चतुरश्छयतावि'त्यत्र आदेरित्येव सिद्धेरक्षरग्रहणेन 'विभाषाभवदि'ति वार्तिके वस्येत्येव सिद्धेर्वग्रहणेन तत्सामर्थ्यात् अलोऽन्त्यपरिभाषाया अप्रवृत्तिरिति भावः ॥ १०५ ॥ अप्रधानेति । अत्राप्राधान्यं च तत्पदप्रयोज्यविशेष्यतानिरूपितप्रकारतावच्छेदकत्व- रूपमिति भावः । एतद्बलादेव 'तस्माच्छसः, अतोऽम्'त्यादौ प्रधानपुन्नपुंसकार्थे वर्त- मानादित्यर्थेन 'राजभार्याः कुलपुत्र' इत्यत्र नत्वामोरभावः सिद्ध्यति । इयं च लोकसिद्धा, प्रधानानुसरणस्यागोपालाङ्गनां प्रसिद्धेरिति बोध्यम् ।
१०६-१०७ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३१५ स्पष्टा चेयं ‘पुमान् स्त्रिया, नपुंसकमनपुंसकेने’त्यनयोर्भाष्ये । अन्तरङ्गो- पजीव्यादपि प्रधानं प्रबलमिति 'हेतुमति चे'त्यत्र भाष्यकैयटयोः ।। १०६ ।। ननु स्वस्त्रादित्वप्रयुक्तो मातृशब्दस्य ङीबन्निषेधः परिच्छेत्तृवाचकमातृ- शब्देऽपि स्यादत आह— अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी ॥ १०७ ॥ —: ✤ :— तेन शुद्धरूढस्य जननीवाचकस्यैव ग्रहणं न परिच्छेत्तृवाचकस्य । योगजबोधे तदनालिङ्गितशुद्धरूढिजोपस्थितिः प्रतिबन्धिकेति व्युत्पत्तिरेव तद्बीजम् । रथकाराधिकरणन्यायसिद्धोऽयमर्थः । कश्चित्तु 'दीधीवेवीटामि'त्यत्र अनया परिभाषया दीधीङ्-वेवीङोरेव ग्रहणं न दोङ्-धीङ्-वेञ्-वीनामिति । तन्न ; तथा सति दीवेधीवीटामित्येव वदेदित्यन्ये ।। १०७ ।। भाष्यकैयटयोरिति । तत्र हि “अन्तरङ्गमुपजीव्यं च प्रयोज्यक्रियानिरूपितं कर्तृत्वं बाधित्वा प्रधानीभूतप्रयोजकक्रियापेक्षं कर्मत्वं प्रवर्तते इति गत्यादिसूत्रं नियामक- मित्युकतं"त्यन्यत्र विस्तरः ॥ १०६ ॥ अवयवप्रसिद्धेरिति । अवयवशक्तिग्रहाधीनतदुपस्थित्यपेक्षया तद्घटितनिष्ठशक्ति- ग्रहाधीनविशिष्टार्थोपस्थितिः प्रबला, अतो वाक्यार्थबोधे सैव प्रयोजिकेति परिभाषार्थः । तदनालिङ्गितशुद्धेति । तेन योगरूढस्थले तदुपस्थितेर्योगार्थविषयकबोधे प्रति- बन्धकत्वं नेति बोध्यम् । रथकारेति । 'वर्षासु रथकारोऽग्नीनादधीते'त्यत्र उक्तयुक्त्या रथकारपदेन समुदायनिष्ठशक्तिग्रहाधीनोपस्थितिविषयरूढ्यर्थजातिविशेषविशिष्टस्य शूद्र- स्यैव ग्रहणम्, न तु रथनिर्मातृस्त्रैवर्णिकस्य अवयवशक्तिग्रहाधीनशक्तिग्रहप्रयोज्योपस्थिति- विषयस्येत्युक्तं तत्रेति भावः । वस्तुतः—इदं व्याख्यानं चिन्त्यम् ; लोके योगजबोधे वक्तुस्तात्पर्येऽपि तदनापत्तेः । परे तु—स्वस्रादिगणे 'अर्थवद्ग्रहण'परिभाषयाऽर्थवन्मातृशब्दस्य ग्रहणात् केनार्थेन अर्थवतो ग्रहणमिति तात्पर्यसन्देहे योगार्थस्यावयवशक्तिग्रहाधीनशक्तिग्रहप्रयोज्यो- पस्थितिविषयत्वेन विलम्बोपस्थितिकतया शीघ्रोपस्थितिकस्य अवयवशक्तिग्रहानधीन- शक्तिग्रहप्रयोज्योपस्थितिविषयस्य जननीरुपार्थस्य तत्र सम्बन्धेन पश्चादुपस्थित- योगार्थस्य निराकाङ्क्षतया तत्र सम्बन्धाभाव इति तर्कमूलेयम् । 'रथकाराधिकरण'- न्यायेनापि रूढ्यर्थे तात्पर्यमेव बोध्यते, न तु रूढिजोपस्थितेर्योगार्थबोधे प्रतिबन्धकत्वम्, मानाभावादुक्तदूषणग्रासाच्चेति दिक् ॥ १०७ ॥
३१६ परिभाषेन्दुशेखरः [ १ प्रकरणे- ननु वातायनार्थे गवाक्षेऽवडो वैकल्पिकत्वाद् 'गोक्ष' इत्याद्यपि स्यादत आह— व्यवस्थितविभाषयाऽपि कार्याणि क्रियन्ते ॥ १०८ ॥ —: ꕤ :— लक्ष्यानुरोधाद्व्यवस्था बोध्या । 'शाच्छोरि'ति सूत्रे 'लटः शत्रि'- त्यादिसूत्रेषु च भाष्ये स्पष्टा ॥ १०८ ॥ विधिनियमसम्भवे विधिरेव ज्यायान् ॥ १०९ ॥ — ꕤ — नियमे ह्यश्रुताया अन्यनिवृत्तेः सामर्थ्यात् परिकल्पनमुक्तानुवाददोष- श्चेति लाघवाद्विधिरेवेति बोध्यम् । 'यस्य हल' इत्यत्र 'इजादेः सनुम' इत्यादौ च भाष्ये स्पष्टेयम् ॥ १०९ ॥ ननु 'आशंसायां भूतवच्चे'त्यनेन लुङ् इव लङ्लिटोरप्यतिदेशः स्यादत आह— सामान्यातिदेशे विशेषानतिदेशः ॥ ११० ॥ —: ꕤ :— व्यवस्थितविभाषाऽपीति । क्वचिदिति शेषः । विकल्पविषये सर्वत्र भावाभावयोः पर्यायेण प्रवृत्तिर्युक्ता, द्वयोरप्युद्देश्यतावच्छेदकावच्छेदेन विधानात् । क्वचित्तु तयोरन्यतरस्य लक्ष्यानुरोधात् सङ्कोचः क्रियते इति परिभाषार्थः ; तदाह—लक्ष्यानुरोधादिति । तानि च भाष्याभिमतानि लक्ष्याणि ‘देवत्रातो गलो ग्राह’ इत्यादिना 'अवङ्'सूत्रे शब्देन्दुशेखरे स्पष्टानीत्यन्यत्र विस्तरः ॥ १०८ ॥ विधिनियमसम्भव इति । अपूर्वविधि-नियमविधित्वयोः सम्भवेऽपूर्वविधित्वकल्पन- मेव युक्तमिति परिभाषार्थः । अत्र शास्त्रे नियमविधिपदेन “तत्र चान्यत्र च प्राप्तौ परि- सङ्ख्येति गीयते” इति जैमिनीयपरिभाषितपरिसङ्ख्याविधिर्गृह्यते । अश्रुताया अन्यनिवृत्तेरिति । इदं च विधिमुखेन प्रवृत्तौ बोध्यम् । निषेधमुखेन प्रवृत्तौ तु 'भवती'त्यस्य न भवतीत्यर्थकल्पनेन इतोऽपि गौरवमिति भावः । यस्य हल इत्यत्र ⋯ भाष्य इति । तत्र हि 'अत इत्यस्य सम्बन्धान्नियामकत्वमुत तदसम्बन्धात् सर्वस्य लोपविधायकत्वम्'ति सन्दिह्य ‘अपूर्वे विधिर्भविष्यति न नियम’ इत्युक्तम् । एवं 'हेतावि'ति सूत्रस्य लौकिकहेतुग्रहणेन विध्यर्थत्वमेव, न तु तत्प्रयोजको हेतुश्चेति कर्तृसंज्ञकहेतोर्ग्रहणेन हेतोश्चेत्तृतीया तर्हि कर्तृसंज्ञकादेवेति नियमार्थत्वमिति दिक् ॥ १०९ ॥ सामान्यातिदेश इति । सर्वातिदेशविषय इदम् । तथा च सादृश्यप्रतियोगिता- वच्छेदकधर्म-तद्व्यापकधर्म-तद्धर्मप्रयुक्तकार्याणामतिदेशे सम्भवति न तद्व्याप्य-
११० ॥ - matches)
Line 6: ननु ‘तित्स्वरितम्’ति स्वरितत्वं ‘चिकीर्षती’त्यादौ स्यादत आह— (Check: ननु 'तित्स्वरितम्'ति स्वरितत्वं 'चिकीर्षती'त्यादौ स्यादत आह— with single quotes and em-dash - matches)
Line 7: प्रत्ययाप्रत्यययोः प्रत्ययस्य ग्रहणम् ॥ १११ ॥ (Check: प्रत्ययाप्रत्यययोः प्रत्ययस्य ग्रहणम् ॥ १११ ॥ - matches)
Line 8: —: ❃ :— (A floral symbol flanked by dashes/colons: —: ❃ :— or —: ✤ :—)
Line 9: इयं च ‘अङ्गस्ये’ति सूत्रे भाष्ये पठिता । वर्णग्रहणे च न प्रवर्तते (Check: इयं च 'अङ्गस्ये'ति सूत्रे भाष्ये पठिता । वर्णग्रहणे च न प्रवर्तते - matches)
Line 10: इति तत्रैव कैयटे स्पष्टम् । अत एव ‘सनाशंसभिक्ष उः, वले’ इत्यत्र सन्- (Check: इति तत्रैव कैयटे स्पष्टम् । अत एव 'सनाशंसभिक्ष उः, वले' इत्यत्र सन्- - matches)
Line 11: वलयोः प्रत्यययोर्ग्रहणम् । (Check: वलय
३१८ परिभाषेन्दुशेखरः [ ३ प्रकरणे— कृतोक्तम् । उक्तसूत्रयोर्व्याख्यानात्प्रत्यययोरेव ग्रहणमित्याहुः ॥ १११ ॥ ननु 'विपराभ्यां जेरि'त्यात्मनेपदं परा सेना जयतीत्यर्थके 'परा- जयति सेने'त्यत्र प्राप्नोतीत्यत आह— सहचरितासहचरितयोः सहचरितस्यैव ग्रहणम् ॥ ११२ ॥ —: ❖ :— तेन विशब्दसाहचर्यात् उपसर्गस्यैव पराशब्दस्य ग्रहणमिति तत्रैव भाष्ये स्पष्टम् । सहचरणं सदृशयोरेवेति सहचरितशब्देन सादृश्यवानुच्यते । 'राम- लक्ष्मणावि'त्यादावपि सादृश्यमेव नियामकम्; सदृशयोरेव सहविवक्षा, तयोरेव सहप्रयोग इत्युत्सर्गाच्च । आहुरिति । केचित्तु—'वसुस्रंसिवि'त्यत्र परसाहचर्याद् वसुधातोर्ग्रहणवारणायैषा अवश्यमाश्रयणीया । अत एव 'वनो र च, वसोः सम्प्रसारणमि'त्यादि-वनुवसोः प्रत्ययस्यैव ग्रहणम् । दिव उदि'त्यादौ तकारविशिष्टस्य उशब्दस्य तत्काले शक्ति- रित्यभिप्रायेण तकारस्येत्संज्ञायां तित्स्वरप्राप्तौ "तितिप्रत्यये"ति वार्तिकोपन्यसनम् । सिद्धान्ते तपरसूत्रेण तकाररहिते एव शक्तिबोधने तु तस्यानवयवत्वात् 'तित्स्वर- रितमि'त्यस्याप्राप्तिरिति न तद्विरोधः । किञ्च "तिती"ति वार्तिकं "लुग्विकरण- परिभाषया पिबतेर्ग्रहणं कर्तव्यम्"ति वार्तिकमिव प्रकृतपरिभाषाया अव्युत्पा- नुवादः । तत्प्रत्याख्यानपरं भाष्यं च तत्सूत्रेऽस्याः प्रयोजनं नास्तीत्यभिप्रायकमिति न कश्चिद्दोष इत्याहुः ॥ १११ ॥ विशब्दसाहचर्यादिति । ननु विशब्दस्य पक्षिवाचकस्यापि सत्त्वेन कथमुपसर्ग- ग्रहणमिति चेन्न । पराशब्दसाहचर्याद्विशब्दोऽपक्षिवाचि गृह्यते, स चोपसर्ग एव, तथाभूतविशब्दसाहचर्याच्च पराशब्द उपसर्गो गृह्यते इति परस्परसाहचर्याश्रयणेन अदोषात् । एवं 'रामलक्ष्मणावि'त्यत्रापि रामसाहचर्याद् दुर्योधनापत्यभिन्नो लक्ष्मणो गृह्यते, स च दशरथापत्य एव प्रसिद्धः, तत्साहचर्याच्च जामदग्न्य-बलरामभिन्नो रामो गृह्यते इति बोध्यम् । साहचर्यस्य लोकेऽभिधानियामकत्वमित्येतन्मूलकेयम् । तदुक्तमभियुक्तैः— “संयोगो विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥” —इति । अत्रापि साहचर्यं सादृश्यमेवेत्याह—सादृश्यमेव नियामकमिति ।
११२-११३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३१९ ध्वनितं चेदं ‘कर्मप्रवचनीययुक्ते द्वितीये’ति सूत्रे भाष्ये । तत्र हि ‘पञ्चम्यपाङ्परिभिरि’ति सूत्रेण लक्षणाद्योतकपरियोगे पञ्चमी- माशङ्क्य, ‘यद्यप्ययं परिर्दृष्टापचारो वर्जने चावर्जने च, अयं खल्वपशब्दो- ऽदृष्टापचारो वर्जनार्थ एव कर्मप्रवचनीयस्तस्य कोऽन्यः सहायो भवितुमर्ह- त्यन्यो वर्जनार्थात्, यथाऽस्य गोः सहायेनार्थ इति गौरेवाऽऽनीयते नाश्वो न गर्दभ’ इत्युक्तम् । तेन हि सदृशानामेव प्रयोगे सहायभावो बोधितः । ‘द्विस्त्रिश्चतुरि’ति सूत्रे साहचर्येणैव कृत्वोऽर्थस्य ग्रहणे सिद्धे कृत्वो- ऽर्थग्रहणादेषाऽनित्या, तेन ‘दीधीवेवीटामि’त्यत्र धातुसाहचर्येऽपि आगम- स्येटो ग्रहणमित्यन्यत्र विस्तरः ॥ ११२ ॥ ननु ‘अस्थि’त्यनङ् ‘प्रियसक्थ्ना ब्राह्मणेने’त्यत्र न स्यात्, अङ्गस्य नपुंसकत्वाभावादत आह-- श्रुतानुमितयोः श्रुतसम्बन्धो बलवान् ॥ ११३ ॥ -: ❀ :- श्रुतेनैव सम्बन्धो नानुमितेन प्रकरणादिप्राप्तेनेत्यर्थः, प्रकरणादितः श्रुतेर्बलवत्त्वादिति भावः । एवञ्च तत्र लिङ्गमस्थ्यादीनामेव विशेषणं नाङ्गस्य । शिशोलुङ्नुम्विधिषु तु गृह्यमाणस्याभावात् प्रकरणप्राप्ताङ्गस्यैव विशेषणम् । एतदर्थकरणे प्रमाणमाह—ध्वनितमिति । दृष्टापचार इति । परिशब्दो वर्जनतद- भावयोर्लोके दृष्टव्यवहारः, अपशब्दः पुनर्लोके वर्जन एव दृष्टव्यवहार इत्यर्थः । अनित्येति । वस्तुतस्तु—अनित्यत्वकल्पनापेक्षया यत्राप्रवृत्तिरिष्टा तत्रान्यधर्मेण सादृश्यं ग्राह्यम् , ‘द्विस्त्रिरि’त्यत्र सुजन्तत्वेन साहचर्यग्रहणापत्त्या चतुष्पञ्चाशदित्यादि- सुजर्थबहुव्रीहौ षत्वानापत्तिरतः कृत्वोऽर्थग्रहणमिति भावः । ‘दीधीवेवीटामि’त्यत्र हलनुबन्धकसाहचर्यादागमस्यैवेटो ग्रहणम्, न तु धातोरिति बोध्यम् ॥ ११२ ॥ बलवानिति । “श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां पारदौर्बल्यमर्थविप्रकर्षात्” इत्यनेन श्रुत्यपेक्षया लिङ्गस्य दुर्बलत्वबोधनात् अस्थ्यादीनां श्रुतत्वेन प्रथममुपस्थित्या नपुंसकपदार्थस्य तेन सहान्वये स्वरितत्वादिना लिङ्गेन पश्चादुपस्थितस्याङ्गस्य तदन्तस्य च निराकाङ्क्षत्वान्नन्वय इति न्यायमूलेयम् । अनुमितेनेति । लैङ्गिकेनेत्यर्थः । प्रकरणादिप्राप्तेनेत्यर्थस्तु न युक्तः, प्रयाजादा- विव उभयाकाङ्क्षारूपपारिभाषिकप्रकरणस्यात्र असम्भवात् । गृह्यमाणस्याभावादिति । श्रुतानुमितयोः सम्बन्धप्राप्तौ श्रुतसम्बन्धस्य बलवत्त्वमिति परिभाषायाश्च श्रुतसम्बन्धा- सम्भवादेव अश्रुतेन अङ्गेन तदन्तेन सह तत्सम्बन्ध इति भावः ।
अत एव ‘वा नपुंसकस्ये’ति सूत्रे वा शाविति न कृतम् । तत्र नपुंसक- ग्रहणं हि गृह्यमाणस्य शत्रन्तस्यैव नपुंसकत्वे यथा स्याद् ‘बहवो ददतो येषु तानि कुलानि, बहुददती’त्यत्र मा भूत्, ‘बहूनि ददन्ति येषु ते बहु- ददन्त’ इत्यत्र यथा स्यादित्येवमर्थम् । स्पष्टं चेदं ‘स्वमोर्नपुंसकादि’त्यत्र भाष्ये । केचित्तु ‘अचो रहाभ्यां द्वे’ इत्यत्र श्रुतेन रेफस्य निमित्तत्वेन यरन्त- र्भावादनुमितेन कार्यित्वं बाध्यत इत्येतदुदाहरणमाहुः । तन्न ; तक्रकौण्डिन्य- न्यायेन सिद्धेरित्यन्यत्र विस्तरः ॥ ११३ ॥ ननु ‘तत्पुरुषे तुल्यार्थ’ इति स्वरः ‘परमेण कारकेण, परमकारकेणे’- त्यादौ स्यात्, तथा ‘गातिस्थाघुपाभूभ्य’ इति लुक् ‘वै ओवै शोषण’ इत्यतः कृतात्त्वात् परस्यापि स्यादत आह-- लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् ॥ ११४ ॥ -: ❀ :- लक्षणं लाक्षणिकमुपचारात् । न्यायसिद्धेऽर्थे ज्ञापकमप्याह—अत एवेति । शत्रन्तस्येति । शतृरूपस्याङ्गा- न्त्यस्येत्यर्थः । तथा च अनुवर्तमानेन शतृपदेन श्रुतत्वात् पूर्वं नपुंसकस्य सम्बन्धः, पश्चादश्रुतेनानुवर्तमानेन अङ्गेन सह शत्रभिन्ननपुंसकस्य सम्बन्धः । एतेन शत्रङ्गयो- रुभयोरपि प्रकरणप्राप्तत्वाविशेषान्न प्रकृतपरिभाषाविषयः, शत्रन्तान्तोपस्थित्यपेक्षया शत्रन्तस्य पूर्वमुपस्थितिरिति त्वन्यदित्यपास्तम् । तक्रकौण्डिन्यन्यायेनेति । वस्तुतस्तु—अत्र न तक्रन्यायस्य विषयः, किन्तु ‘माठरपरिवेषण’न्यायस्येति तत्रैव विस्तरेण निरूपितम् ॥ ११३ ॥ उपचारादिति । लक्षणया अर्शआद्यजन्तत्वकल्पनया वा लक्षणपदं लाक्षणिके- त्यर्थबोधकमित्यर्थः । प्रतिपदोक्तत्वं च स्वीयोद्देश्यतावच्छेदकज्ञानाय उपयुज्य- मानानुपूर्वीमत्पदघटितशास्त्रविधेयत्वम् (‘तत्पुरुषे तुल्यार्थे’ति शास्त्रीयोद्देश्यता- वच्छेदक-तृतीयान्तत्वज्ञानाय उपयुज्यमाना आनुपूर्वी तृतीयात्वरूपा, तद्वत् तृतीया- पदघटित-‘तृतीया तत्कृतार्थे’ति-शास्त्रविधेयत्वं तृतीयातत्पुरुषस्यैव, न तु ‘विशेषणं विशेष्ये’ति कर्मधारयादेरिति समन्वयः । एवं ‘गातिस्थे’ति शास्त्रीयोद्देश्यतावच्छेदक- ज्ञानाय उपयुज्यमानानुपूर्वी पात्वरूपा, तद्वत्पापदघटितशास्त्रं ‘पा पाने’ इति, तद्विधेयस्य मूले—परमेण कारकेणेति । अत्र परिनिष्ठितविभक्त्या कर्मधारयसमासो बोध्यः ।
Here is the complete and accurate transcription of the provided image line by line in Devanagari script:
११४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३२१ तत्तद्विभक्तिविशेषाद्यनुवादेन विहितो हि समासादिः प्रतिपदोक्तस्तस्यैव ग्रहणम्, शीघ्रोपस्थितिकत्वात् । द्वितीयो हि विलम्बोपस्थितिकः । 'पै' इत्यस्य यस्य पाशब्दस्यैव ग्रहणम्, न तु 'आदेच' इति शास्त्रविहितस्य पेधातुनिष्पन्नपाशब्द- स्येति बोध्यम् । नन्वेवं प्रतिपदोक्तत्वस्वीकारे 'त्यदादीनाम' इत्यादौ इक्पदानुपस्थितये 'इको गुणे'ति सूत्रे पूर्वसूत्रतो गुणादिपदानुवृत्तिकरणं भाष्योक्तमसङ्गतं स्यात् ; 'लक्षणप्रति- पदोक्त'परिभाषया तु नात्र निर्वाह' इति शेखरग्रन्थविरोधश्च ( 'इको गुणे'ति शास्त्रीयो- द्देश्यतावच्छेदकज्ञानाय उपयुज्यमाना आनुपूर्वी गुणादिशब्दत्वरूपा, तद्बद्गुणादिपदघटितं सार्वैत्यादिशास्त्रम्, तद्विधेयगुणादेरेव प्रतिपदोक्तत्वात् ग्रहणेन त्यदादीत्यादिविहित- गुणादेरग्रहणादेव तत्र वारणसम्भवात् ) इति चेन्न । स्वीयोद्देश्यतावच्छेदकं रूपं यत्र साक्षादन्यशास्त्रविधेयवृत्ति तत्रैतत्परिभाषाप्रवृत्तिस्वीकारेण 'इको गुणे'ति शास्त्रीयो- द्देश्यतावच्छेदकगुणशब्दत्वादेः सार्वैत्याद्यन्यशास्त्रीयविधेये साक्षादवृत्तित्वेन तत्रैतत्परि- भाषाप्रवृत्तेरभावेनादोषात् । अत एव च 'गतिकारकपूर्वपदस्ये'त्यत्र प्रतिपदोक्तपरि- भाषाया अप्रवृत्त्या बहुव्रीहेरपि ग्रहणेन 'आध्यै, प्रध्यै' इति भाष्योक्तबहुव्रीहौ यण्सिद्धि- रिति—केचित् । परे तु—स्वविशिष्टं स्वघटकपदेन प्रतिपदोक्ततया गृह्यते ; वैशिष्ट्यं च स्वीयो- द्देश्यतावच्छेदकरूपावच्छिन्नविधेयताश्रयत्व-स्वीयोद्देश्यतावच्छेदकसमर्पकज्ञानविषयी - भूतानुपूर्वीविशिष्टविधेयताश्रयत्वैतदुभयसम्बन्धेन ! अत्र वैशिष्ट्यं च—स्वावच्छिन्नत्व- स्वावच्छिन्नपदप्रयोज्योद्देश्यता निरूपितत्वैतदन्यतरसम्बन्धेन । आद्यसम्बन्धदानेन 'गति- कारके'त्यत्र प्रतिपदोक्तग्रहणासम्भवेन अविशेषाद् द्वयोर्ग्रहणम् । द्वितीयसम्बन्धदानेन स्वीयोद्देश्येति । यत्र शास्त्रे परिभाषा सञ्चारणीया, तत् स्वपदेन ग्राह्यम् । स्वीयोद्देश्यतावच्छेदकं रूपमिति । अत्रावच्छेदकता साक्षात्परम्परासाधारणी ग्राह्या । साक्षादन्यशास्त्रविधेयवृत्तीति । अत्र लाक्षणिकत्वेन प्रतिपदोक्तत्वेन वा अभिमतविधायकमेव अन्यशास्त्रेण ग्राह्यम्, न तु उदासीनशास्त्रम् ; अन्यथा 'अदेङ् गुणः' इति शास्त्रीयविधेये गुणपदे गुणपदत्वस्य साक्षाद्वृत्तितया दोष एव स्यात् । प्रतिपदोक्तत्वेन अभिमतवृत्तिविधेयतावच्छेदक- रूपावच्छिन्नोद्देश्यताकशास्त्रत्वं परिभाषालिङ्गमिति यावत् । परिभाषाप्रवृत्तिप्रयोजकप्रागुक्तलिङ्गकल्पनायां गौरवात्, मानाभावात् , गुणपदत्वरूपोद्दे- श्यतावच्छेदकस्य साक्षाद्विधेयवृत्तितया दोषतादवस्थ्याच्च । गुणवृद्धिपदानुवृत्त्यभावे 'इको गुणवृद्धी' इत्यस्य 'सङ्केतेन गुणवृद्धिपदवन्निष्ठविधेयताप्रयोजकपदघटितशास्त्रे इक् इति पदमुपतिष्ठते' इति तदर्थात् परम्परया गुणपदवत्त्वस्य तदीयोद्देश्यतावच्छेदकत्वादतः प्रकारान्तरेणाऽऽह— परे त्विति । स्वावच्छिन्नत्वेति । अवच्छिन्नत्वं साक्षाद् ग्राह्यम् । गतिकारकेत्यत्रेति । अत्र समासपदाभावेन समासत्वावच्छिन्नोद्देश्यताकत्वस्य अप्रसिद्धेरिति भावः । पूर्वपदेन समासा- क्षेपस्तु न, 'गतिकारकपूर्वे'त्येव पाठादित्यादि शेखरे स्पष्टम् । ४१
३२२ परिभाषेन्दुशेखरः [ ३ प्रकरणे- 'पा' इति रूपं लक्षणानुसन्धानपूर्वकं विलम्बोपस्थितिकम् ; पिबतेस्तु तच्छीघ्रोपस्थितिकम् । इदमेव ह्येतत्परिभाषाबीजम् । इयं च वर्णग्रहणेऽपि, 'ओत्' सूत्रे भाष्ये सञ्चारितत्वात् । यत्तु वर्णग्रहणे नैषा, 'आदेच' इत्यत्र उपदेशग्रहणादिति; तत्तु तस्मि- न्नेव सूत्रे शब्देन्दुशेखरे दूषितमिति तत एव द्रष्टव्यम् । अनित्या चेयम्, 'भुवञ्च महाव्याहृतेरि'ति महाव्याहृतिग्रहणादित्य- न्यत्र विस्तरः ॥ ११४ ॥ स्वघटकपदवृत्त्यानुपूर्वीमत्पदघटितशास्त्रविधेयस्य ग्रहणात् 'विभाषा दिक्समास' इत्यत्र दिङ्नामानीति बहुव्रीहेरेव ग्रहणम् । अत्र उद्देश्यतावच्छेदकसम्पर्कज्ञानविषयीभूतेति विशेषणदानेन 'तृतीया समासे' इति शास्त्रीयोद्देश्यतावच्छेदकसर्वादित्वज्ञानाय उपयुज्य- मानाऽऽनुपूर्वी पूर्वत्वादिरूपा, तदवच्छिन्नोद्देश्यता 'पूर्वसदृशे'ति शास्त्रीया, तन्निरूपित- विधेयताश्रयसमासस्यैव प्रतिपदोक्तत्वात्तत्र ग्रहणम् । स्वावच्छिन्नत्वनिवेशाद् 'गातिस्थे'- त्यादौ पिबतेर्ग्रहणम् । सञ्चारितत्वादिति । अदोभवदि'त्यत्र प्रगृह्यत्वमाशङ्क्य 'ओतश्चिश्चप्रतिषेध' इति वार्तिकप्रत्याख्यानाय एषा तत्रोपन्यस्तेति बोध्यम् । दूषितमिति । केचित्तु-फलाभावाद्द्वर्णग्रहणे एतदप्रवृत्तिः । 'अदोभवदि'त्यादौ गौणमुख्यन्यायेन तद्वारणपरभाष्येण पूर्वभाष्यस्यैकदेशित्वबोधनादिति प्राहुः । अनित्येति । तेन 'भोभगो' इति सूत्रे लाक्षणिकानामपि वार्तिकनिष्पन्नानां ग्रहणं सिद्धम् । केचित्तु-धाग्रहणेन धेटो ग्रहणमिति प्राहुः ॥ ११४ ॥ पिबतेर्ग्रहणमिति । एवम् 'इको गुणवृद्धी' इत्यत्र आद्यसम्बन्धसत्त्वेऽपि द्वितीय- सम्बन्धाभावान्न दोषः, सार्वधातुकेत्यादिशास्त्रीयविधेयतायाः साक्षाद् गुणपदत्वेन अवच्छिन्नत्वा- भावात् गुणपदप्रयोज्योद्देश्यतानिरूपितत्वाभावाच्च । दूषितमितीति । प्राचीनाः खलु : 'आदेच' इति सूत्रे धातुग्रहणमनुवर्त्य एजन्तस्य धातोरित्यर्थेन 'गोभ्याम्, नौभ्याम्' इत्यत्र आत्त्ववारणात् उपदेशग्रहणं 'चेता, स्तोता' इत्यत्र आत्त्व- वारणाय । लाक्षणिकत्वेन तत्रापि वारणे उपदेशग्रहणं व्यर्थं सत् वर्णग्रहणे लक्षणप्रतिपदोक्तपरि- भाषानित्यत्वबोधनाय, अनित्यत्वफलञ्च 'क्रापयति' इत्यादौ पुक्सिद्धिरित्युपवर्णयन्ति स्म । तत्र धातुग्रहणानुवृत्तौ अनुबन्धविनिर्मुक्तस्य धातुसंज्ञा माङो व्यतिहारे इति निर्देशानुपपत्त्या तत्र तदनुवृत्तेरेकदेश्युक्तित्वं परिकल्प्य उपदेशग्रहणस्य 'गोभ्याम्, नौभ्याम्' इत्यत्र आत्त्ववारणाय आवश्यकत्वात् तदनित्यत्वज्ञापकत्वस्य अनुपपत्तेस्तन्मतं नव्यैर्दूषितमिति भावः । 'क्रापयति' इत्यादौ पुग्विधिस्तु महाव्याहृतिग्रहणेन परिभाषाऽनित्यत्वेन साधनीयः । एवञ्च वर्णग्रहणे न प्रवर्तत इत्यनुगतानित्यत्वं तु कल्पनीयमिति तत्त्वम् ॥ ११४ ॥
११५-११६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३२३ नन्वेवं देङो दोधातोश्च कृतात्त्वस्य घुसंज्ञा न स्यात्, तथा मेङ आत्त्वे ‘प्रणिमाते’त्यादौ ‘नेर्गदनदे’ति णत्वं न स्यात्, तथा ‘गै’ इत्यस्यात्त्वे ‘घुमास्थे’तीत्वं न स्यादत आह— गामादाग्रहणेष्वविशेषः ॥ ११५ ॥ —: ✤ :— अत्र च ज्ञापकं दैपः पित्वम् । तद्धि ‘अदाबि’ति सामान्यग्रहणार्थम् ; अन्यथा लाक्षणिकत्वादेव विधौ तद्ग्रहणे सिद्धे किं निषेधे सामान्यग्रहणा- र्थेन पित्वेन, तेन चैकदेशानुमतिद्वारा सम्पूर्णा परिभाषा ज्ञाप्यते । इयं च ‘लक्षणप्रतिपदोक्त’परिभाषा-‘निरनुबन्धक’परिभाषा-‘लुग्विक- रण’-परिभाषाणां बाधिका । ‘दा धा घ्वि’ति सूत्रे भाष्ये स्पष्टा । ‘गातिस्थे’ति सूत्रे इणादेशगाग्रहणमेवेष्यत इति
३२४ परिभाषेन्दुशेखरः [ ३ प्रकरणे- नन्वेवं संयोगसंज्ञासमाससंज्ञाऽभ्यस्तसंज्ञा अपि प्रत्येकं स्युरत आह— क्वचित्समुदायेऽपि ॥ ११७ ॥ —: ॐ :— ‘गर्गाः शतं दण्ड्यन्ताम्, अर्थिनश्च राजानो हिरण्येन भवन्ती’त्यादौ दण्डनवत् । लक्ष्यानुरोधेन च व्यवस्था ॥ ११७ ॥ ननु ‘यू स्त्र्याख्यावावि’त्यत्र व्यक्तिपक्षे दीर्घनिर्देशादनण्त्वेन ग्राहकसूत्रा- प्राप्त्या उदात्ताद्यन्यतमोच्चारणेऽन्यस्वरकस्य संज्ञा न स्यादत आह— अभेदका गुणाः ॥ ११८ ॥ —: ॐ :— असति यत्ने स्वरूपेणोच्चारितो गुणो न भेदको न विवक्षित इत्यर्थः । अत्र च ‘अस्थिदधी’त्यादौ अनङादेरुदात्तस्यैव उच्चारणेन सिद्धे उदात्तग्रहणं ज्ञापकम् । ‘स्वरूपेणोच्चारित’ इत्युक्तेरनुदात्तादेरन्तोदात्तादिति उदात्तादिशब्दो- च्चारणे विवक्षैव । ‘उञ्, ॐ’ इत्यत्राननुनासिके एवोच्चारणीये यत्नाधिक्येन समुदायेऽपीति । अभ्यस्तसंज्ञायामुभेग्रहणात् द्वित्वम्, समाससंज्ञायां सहग्रहणात् संयोगसंज्ञायामनन्तरेति पर्युदासाच्चानयोः साहित्यमुद्देश्यतावच्छेदकतया विवक्षित- मिति न प्रत्येकं ताः संज्ञा इति भावः । अर्थिन इति । वाक्यशेषबोधितप्राधान्यवतः शतस्याप्रधानगर्गानुरोधेन न आवृत्ति- रिति भावः । व्यवस्थेति । साहित्यस्य उपलक्षणत्वविशेषणत्वाभ्यामेतन्न्याययोर्व्यवस्थे- त्यर्थः ॥ ११७ ॥ अन्यस्वरकस्येति । अनुनासिकादेरुपलक्षणमिदम् । संज्ञा न स्यादिति । विरूपत्वेन ‘स्वं रूपमि’त्यनेन ग्रहणासम्भवादिति भावः । परिभाषासत्त्वे तु गुणातिरिक्तवैरूप्यप्रयो- जकधर्माभाववत एव ‘स्वं रूपमि’त्यनेन ग्रहणमिति बोध्यम् । स्वरूपेणेति । ‘असति यत्न’ इत्यस्यैवाव्युत्त्या अनुवादोऽयम् । ‘अनुदात्तादेरि’त्यत्र अजादेरित्येवानुदात्तादेः सिद्ध्या तत्रानुदात्तादिपदस्यैव यत्नरूपत्वात् । ज्ञापकमिति । न च ज्ञापितेति तद्ध्यर्थम्, भाव्यमानत्वेनान्यगुणकस्य अप्राप्तेरिति वाच्यम् ; भाव्यमान’परिभाषायाः स्वरत्वव्याप्यधर्मविषयेऽप्रवृत्तेः पूर्वमुपपादितत्वात् । अत एव ‘बहुवचने झल्येदि’त्यनेन उदात्तादिगुणकेकारविधानसिद्धिरित्यन्यत्र विस्तरः । अनुनासिके एवोच्चारणीय इति । न च पथीयेतेः क्विपि ‘पन्था’ इत्यादौ स्थानिनो निरनुनासिकस्यापि सम्भवादिदमसङ्गतमिति वाच्यम् ; तस्यानभिधानेन
An exact line-by-line transcription of the text from the image:
११८ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३२५ अनुनासिकोच्चारणाद्विवक्षा बोध्या । ‘पथिमथ्यृभुक्षामि’त्यादौ स्थान्यनु- रूपतया अनुनासिक एवोच्चारणीये निरनुनासिकोच्चारणात्तद्विवक्षा । एतदर्थमेव ‘असति यत्न’ इत्युक्तम् । न चैवमस्थ्यादीनां ‘नब्विषयस्ये’त्याद्युदात्ततया अन्त्यादेशस्यानङः स्थान्यनुरूपेऽनुदात्त एवोच्चारणीये उदात्तोच्चारणं विवक्षार्थं भविष्यतीति कथमस्य ज्ञापकत्वमिति वाच्यम्; परमास्थिशब्दादाम्वन्तोदात्त उदात्तगुण- कस्यापि स्थानित्वेन विवक्षायां मानाभावात् । "चतस्रर्याद्युदात्तनिपातनं करिष्यते, वधादेशे आद्युदात्तनिपातनं करिष्यते, पदादयोऽन्तोदात्ता निपात्यन्ते, सहस्य स उदात्तो निपात्यत" इत्यादिभाष्यं तु एकश्रुत्याऽष्टाध्यायीपाठे क्वचिदुदात्ताद्युच्चारणं विवक्षार्थ- मित्याशयेन । 'त्रैस्वर्येण पाठ इति पक्षे तु ज्ञापकपरं भाष्यमिति कैयटादयः । परे तु निपातनं नाम अन्यादृशे प्रयोगे प्राप्तेऽन्यादृशप्रयोगकरणम्, तत्तद्रूपाद्यत्नात्तत्र तत्रोदात्तादिविवक्षा । ‘तिसृचतस्रि’त्यत्र द्वन्द्वप्रयुक्तेऽन्तो- दात्ते उच्चारणीये आद्युदात्तोच्चारणमन्यत्र स्थान्यनुरूपे स्वर उच्चारणीये तत्तदुच्चारणं विवक्षार्थम् । सम्पूर्णष्टाध्यायी आचार्येणैकश्रुत्या पठितेत्यत्र न मानम् । क्वचित्पद- स्यैकश्रुत्याऽपि पाठः, यथा ‘दाण्डिनायनादि’सूत्रे ‘ऐक्ष्वाके’ति । यद्यप्य- ध्येतार एकश्रुत्यैव अङ्गानि पठन्ति ब्राह्मणवत् ; तथापि व्याख्यानतोऽनु- नासिकत्वादिवत् उदात्तनिपातनादिज्ञानमित्याहुः । विधेयाण्विषये त्वप्रत्यय इति निषेधान्न गुणाभेदकत्वेन सवर्णग्रहणम् । अत एव ‘घटवदि’त्यादौ मतोर्मस्य नानुनासिको वकारः । अत एव तद्भानासा- अदोषात् । स्पष्टं चैतत्तत्रैव सूत्रे शेखरशब्दरत्नयोरिति बोध्यम् । स्थान्यनुरूप इति । यथा वधादौ हन्त्यनुरूपेऽन्तोदात्ते उच्चारणीये आद्युदात्तोच्चारणं विवक्षार्थमिति भावः । न च हन्धातुरेकाच्त्वाद्दन्तोदात्त आयुदात्तश्चेति आद्युदात्तवधादेशोच्चारणमपि तदनुरूपमेवेत्येतदसङ्गतमिति वाच्यम् ; वधादेशस्य स्थानिवत्त्वेन धातुत्वात् ‘धातोरि’- त्यन्तोदात्तस्योचिततया आद्युदात्तोच्चारणस्य तदनुरूपत्वाभावात् । हन्धातोर्वस्तुत आदेरुदात्तत्वेऽपि ‘धातोरि’त्यनेन अन्तोदात्तत्वेनैव साधुत्वविधानात् तेन रूपेणैव तस्या- भिव्यक्तेस्तादृशे वधादेशे कर्तव्ये आद्युदात्तोच्चारणं विवक्षार्थमित्याशयादिति दिक् । तद्भानासामिति । नन्वत्र तसौ मत्वर्थ इत्यत्र दकारप्रश्लेषेण भत्वान्न दोष
मिति सूत्रनिर्देशः ; अन्यथा “प्रत्यये भाषायामि”ति नित्यमनुनासिकः स्यात् । जातिपक्षे तु नास्योपयोग इति बोध्यम् । 'यू' इत्यादौ दीर्घमात्र- वृत्तिजातिनिर्देशान्न क्षतिरित्यन्यत्र विस्तरः ॥ ११८ ॥ ननु 'सर्वनामानी'त्यत्र णत्वाभावनिपातनेऽपि लोके सणत्वप्रयोगस्य साधुत्वं स्यादत आह— बाधकान्येव निपातनानि ॥ ११९ ॥ —: ❖ :— तत्तत्कार्ये नाप्राप्ते निपातनारम्भात् । 'पुराणप्रोक्तेष्वि'ति निपातित- पुराणशब्देन पुरातनशब्दस्य बाधः प्राप्तोऽपि पृषोदरादित्वान्नेति बोध्यम् । पुराणेति पृषोदरादिः पुरातनेति चेत्यन्ये । इयं सर्वादिसूत्रे भाष्ये स्पष्टा । अबाधकान्यपि निपातनानीति तु भाष्यविरुद्धम् ॥ ११९ ॥ इति चेन्न । 'असुब्बत' इति भाष्योदाहृतस्य उपलक्षणत्वेनादोषात् । ननु जातिपक्षे 'यू स्त्र्याख्यावि'त्यत्र ह्रस्वस्यापि ग्रहणं स्यात्, इत्त्वादिजातेस्तत्र सत्त्वादित्यत आह— दीर्घमात्रवृत्तीति । दीर्घनिर्देशसामर्थ्याद्दीर्घमात्रवृत्तिजातिरेव विवक्षितेति भावः ॥ ११८ ॥ णत्वाभावनिपातनेऽपीति । न च णकारघटिता यत्र संज्ञा लोके प्रसिद्धा, तत्रैव णत्वस्य साधुत्वम्, अत एव रघुनाथादिशब्दे णत्वं न, तथा च प्रकृतेऽपि णत्व- घटितस्य तस्य लोकेऽभावान्न णकारघटितस्य साधुत्वमिति वाच्यम् ; सर्वनामसंज्ञायाः पाणिनिकल्पितत्वेन शास्त्रानुसारिसंज्ञाकरणस्यौचित्यात्, णत्वघटितसंज्ञाकरणे तु तेनैव लोकेऽपि संज्ञिबोधसम्भवात् णघटितस्य साधुतापत्तेरित्याशयात् । पृषोदरादित्वादिति । पुरातनशब्देन निपातनात् प्राप्तस्तकारलोपः पृषोदरादिषु पाठसामर्थ्यात् पक्षे न भवतीत्यर्थः । अन्य इति । पृषोदरादिषु पुराणपुरातनयोर्द्वयोरपि पाठेन उभयसिद्ध्या निपादन- क्लेशो नेत्यस्मिन् पक्षे लाघवं बोध्यम् । अबाधकान्यपीति । पुरातनशब्दस्य लोके साधुत्वार्थं वृत्तिकृतैतदुक्तम् । अत एव 'श्रावणी'त्यपि सिद्ध्यति । भाष्यविरुद्धमिति । सर्वादिसूत्रस्थभाष्यविरुद्धमित्यर्थः । तत्र हि बाधकानि निपातनानीति स्वीकारे 'अपरम्पराः क्रियासातत्ये" इति निपात- नात् समो मस्य लोपेन सततशब्दस्य लोके साधुत्वेऽपि सन्ततशब्दस्य असाधुत्वापत्ति- रित्युक्त्वा "समो वा हिततयोरि"ति यत्नान्तरस्वीकाराभिप्रायेण समाहितम् । 'अबाधकानी'त्यस्य सत्त्वे तु तेनैव सन्ततशब्दस्यापि साधुत्वसिद्धौ समो वेति वचनारम्भेण समाधानासङ्गत्यापत्त्या तद्विरोधः स्पष्ट एव । 'श्रावणी'ति तु पृषोदरा- दित्वात् साध्विति तदाशयः ।
११९-१२० प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३२७ ननु ‘ऊख’धातोर्द्वित्वे स्वत एव ह्रस्वत्वात् पूर्वमभ्यासह्रस्वाप्रवृत्तौ हलादिःशेषे सवर्णदीर्घे ह्रस्वांपत्तिरत आह— पर्जन्यवल्लक्षणप्रवृत्तिः ॥ १२० ॥ —: ✤ :— एवञ्च ह्रस्वस्यापि ह्रस्वे कृते ‘लक्ष्ये लक्षणस्ये’ति न्यायेन न पुन- र्ह्रस्वः । तदुक्तम् ‘इको झलि’ति सूत्रे भाष्ये—‘‘कृतकारि खल्वपि शास्त्रं पर्जन्यवद्दि’’ति । सिद्धेऽपि ह्रस्वाधिकारीत्यर्थः । न च लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरित्यत्र न मानमिति वाच्यम् ; ‘‘समो वा लोपमेक’’ इति लोपेनैकसकारस्य द्वित्वेन द्विसकारस्य पुन- र्द्वित्वेन च त्रिसकारस्य सिद्धौ ‘समः सुटी’ति सूत्रस्यैव मानत्वात्, ‘सम्प- सारणाच्च, वृद्धिरे’त्यादौ भाष्ये स्पष्टमुक्तत्वाच्च । अत्र विकारकृतो लक्ष्यभेदो नेति ‘सिचि वृद्धिर्’ति भाष्यत् प्रतीयत इत्यन्यत्र विस्तरः ॥ १२० ॥ केचित्तु—‘‘विभाषा फाल्गुनी’ति निर्देशज्ञापितस्य ‘पौर्णमास्यामयं लुब् ने’ति निषेधस्य तत्रैव सूत्रे श्रवणेति निर्देशनानित्यत्वज्ञापनात् ‘श्रावणी’ति सिद्धयतीति वदन्ति । ‘अतिशयने’ इति दीर्घनिपातनाल्लोके अतिशयनशब्दोऽसाधुरेवेति दिक् ॥ ११९ ॥ ह्रस्वे कृत इति । दीर्घात् पूर्वमाङ्गतत्वादिति भावः । कृतकारीति । उद्देश्यतावच्छेद- कावच्छेदेन विधेयान्वयस्य वाक्यमर्यादासिद्धत्वेन तन्मूलषेति भावः । ननु पर्जन्यदृष्टान्ते तस्य तात्कालिकफलाजनकत्वेऽपि पूर्णजलाशयस्य परिरक्षणादिरूपभाविफलजनकत्वस्य सत्त्वेनात्र तत्प्रवृत्तिरनुचिता । अत एव भाष्ये ‘अकृतकारि खल्वपि शास्त्रमग्निवत्, यथाऽग्निर्दग्धं न दहति तथा शास्त्रमपि कृतं न करोती’’त्युक्तमिति चेन्न । ‘ऊख- तुरि’त्यत्रापि ह्रस्वस्य ह्रस्वविधाने ‘लक्ष्ये लक्षण’न्यायेन दीर्घोत्तरं पुनर्ह्रस्वाप्रवृत्ति- रूपफलस्य सत्त्वेन पर्जन्यदृष्टान्तस्य सूपपादत्वात् । अत एव ‘मो राजौ’त्यनेन अनु- स्वारनिवृत्तिरूपफलसत्त्वात् सिद्धस्यापि मकारस्य पुनर्मकारविधानमुपपद्यते । यत्र तु सर्वथा फलाभावो यथा ‘रमाणामि’त्यत्र ‘नामी’ति दीर्घप्रवृत्तेः, तत्राग्निदृष्टान्ते- नास्तु तदप्रवृत्तिः । प्रकृते तु उद्देश्यतावच्छेदकावच्छेदेन अन्वयस्य क्लृप्तस्य त्यागे मानाभाव इति दिक् । विकारकृत इति । तेन ‘उदवोढा’मित्यत्र वृद्धौ कृतायां तल्लक्ष्यत्वेन पुनः सा नेति भावः । इदमागमकृतस्याप्युपलक्षणम् । अत एव ‘सर्वेषामि’त्यत्र पुनः सुडा- गमो नेति बोध्यम् ।
ननु 'स्यन्दू'धातोः 'स्यन्त्स्यती'त्यादौ आत्मनेपदनिमित्तत्वाभाव- तल्लक्ष्यत्वं च स्वीयप्राथमिकप्रवृत्तौ उद्देश्यतावच्छेदकावच्छेदेन आश्रीयमाणो यावान् शब्दसमुदायस्तद्विशिष्टाघटितत्वे सति स्वीयप्राथमिकप्रवृत्तिपूर्वकालिकप्राप्ति- विषयाघटितत्वम्। वैशिष्ट्यञ्च—स्वाघटकत्व-स्वघटकमात्रोद्देश्यकविकारागमाति- रिक्तत्वैतदुभयसम्बन्धेन। ( 'सुध्युपास्ये'त्यत्र 'अनचि चे'ति शास्त्रप्रवृत्तौ पदत्वरूप- स्वीयोद्देश्यतावच्छेदकरूपेण आश्रीयमानसमुदायः 'सुध् य्' इति, तद्घटकत्वं यद्यपि द्वित्वनिष्पन्ने द्वितीयधकारेऽस्ति; तथापि द्वितीयसम्बन्धाभावात् तदुभयसम्बन्धेन तादृशसमुदायविशिष्टः उदासीनः, तद्घटितत्वं 'सुध्य्' इत्यस्येति तल्लक्ष्यत्वान्न पुनर्द्वित्वं धस्येति समन्वयः।) 'यून' इत्यत्र 'श्वयुवे'ति शास्त्रीयवकारनिष्ठप्राथमिक- प्रवृत्तिपूर्वकालिकप्राप्तिर्यकारनिष्ठा, तद्विषयाघटितत्वाभावेन तल्लक्ष्यत्वाभावात् पुनः सम्प्रसारणप्राप्तौ 'न सम्प्रसारणे सम्प्रसारणमि'ति निषेधश्चरितार्थः। एतत्सूत्रमेवात्र लक्षणे तन्निवेशे मानम्। अत एव 'भूयादि'त्यत्र सकारद्वयस्य लोपः सिद्धयति। मात्रपदन्निवेशात् 'काण्डे' इत्यादौ तल्लक्ष्यत्वाभावेन पुनः प्राप्तस्य ह्रस्वस्य प्रकारान्तरेण वारणपरं भाष्यं सङ्गच्छते। 'षड्धु+सन्त' इत्यत्र 'खरि चे'त्यस्य प्राथमिकी धकारनिष्ठा प्रवृत्तिः, तत्पूर्वकालिकप्राप्तिर्डकारनिष्ठा, धुट्प्रवृत्तेः पूर्वं डकारे 'खरि चे'त्यस्य प्राप्तिसत्त्वात्, तादृशप्राप्तिविषयडकारघटितत्वेन तल्लक्ष्यत्वाभावात् डकारे चर्त्वं सिद्ध्यति। न चैवमपि 'या से'त्यादौ टापा सह एकादेशोत्तरं पुनस्त्यदायत्वा- पत्तिः, 'काण्डे' इत्यनेन तुल्यत्वादिति वाच्यम्; 'न यासयोरि'ति निर्देशेन टापा सह एकादेशस्थले तल्लक्ष्यत्वज्ञापनेनादोषात्। मात्रपदघटितनिवेशेन स्वोद्देश्यकविभक्त्य- नुद्देश्यकत्वस्य ग्रहणेन टाबैकादेशस्य स्वघटकमात्रोद्देश्यकविकारत्वेन तदितराघटितत्व- रूपतल्लक्ष्यत्वसत्त्वेन अदोषाच्च। न च 'दीव्यती'त्यत्र श्यन्प्रवृत्त्युत्तरं दीव्येति समुदायस्य तल्लक्ष्यत्वाभावेन पुनः श्यनापत्तिः, श्यनः स्वीयप्राथमिकप्रवृत्तौ आश्रीयमाण'दिव्ती'ति समुदायाघटकत्वेन तत्समुदायघटकमात्रोद्देश्यकविकारेतरत्वेन च स्वविशिष्टत्वात्। न च विकारपदेन प्रत्ययस्यापि ग्रहणेनादोष इति वाच्यम्, हेतुमण्ण्यन्तस्य तल्लक्ष्यत्वापत्त्या पुनस्तत्तो हेतुमण्णिचोऽनुत्पत्तिप्रसङ्गादिति वाच्यम्; विशिष्टपदेनैतल्लक्षणे विकरणेतरस्य ग्रहणेना- दोषात्। श्यनादीनां प्रत्ययत्वेन स्वप्रकृतिभूतधात्वर्थप्रत्यायकतया कर्त्रर्थत्वाभावेन पुनस्तत्प्राप्तेर्दुर्वचत्वाच्च। भाष्यगूढार्थविदस्तु-तच्छास्त्रस्य प्रथमप्रवृत्तौ यद्घटकस्य स्वघटकेन येन पदेन ग्रहणम्, पुनः प्रवृत्तौ तेन पदेन तद्घटकस्य तदर्थकविकारस्य त
१२०-१२१ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३२९ निमित्तत्वाच्च ‘न वृद्भूद्भ्यश्चतुर्भ्य’ इति निषेधस्य बहिरङ्गत्वेन अन्तरङ्ग- त्वाद् उदित्त्वलक्षणस्येड्विकल्पस्याऽऽपत्तिरत आह— निषेधाश्च बलीयांसः ॥ १२१ ॥ —: ✤ :— अन्तरङ्गादुपजीव्यादपि बलीयांस इत्यर्थः । चतुर्भ्य इति तु स्पष्टार्थमेव । अत एव तत्प्रत्याख्यानं भाष्योक्तं सङ्गच्छते । अत एव सवर्णसंज्ञादेर्निषेधविषये न विकल्पः ; अन्यथा मीमांसक- रीत्या विधेरुपजीव्यत्वेन प्राबल्यात् तस्य सर्वथा बाधानुपपत्त्या दुर्वारः स इति मञ्जूषायां विस्तरः । अत एव ‘द्वन्द्वे च, विभाषा जसी’ति चरितार्थम् । न न्यायविषयः । नन्वेवं ‘भूयादि’त्यत्र ‘स्कोरि’ति ‘भवेदि’त्यत्र ‘लिङः सलोपे’ति च सकारद्वयलोपानापत्तिः। आद्ये प्रथमप्रवृत्तौ पदपदेन यस्य समुदायस्य ग्रहणं द्वितीयप्रवृत्ता- वपि तेनैव पदपदेन तस्य ग्रहणात् । द्वितीयेऽपि लिङ्पदेनैव तस्य समुदायस्य प्रवृत्ति- द्वयेऽपि ग्रहणादिति चेन्न । अत्र प्रथमप्रवृत्तौ यद्घटकेत्यत्र यत्पदेन तच्छास्त्रीयैककालिक- प्राप्तिविषयानेकार्थघटितस्य ग्रहणेन आद्ये ‘भूयास्स्त्’ इति समुदायस्य पदपदेन गृहीतस्य ‘स्कोरि’ति शास्त्री
३३० परिभाषेन्दुशेखरः [ ३ प्रकरणे-
विध्युन्मूलनाय प्रवृत्तिरस्या बीजम् । 'न लुमता, कमेर्णिङ्'त्यनयो- र्भाष्ये स्पष्टैषा ॥ १२१ ॥ ननु अत्यन्तस्वार्थिकानामर्थप्रत्यायकत्वरूपप्रत्ययत्वानुपपत्तिरत आह- अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे ॥ १२२ ॥ —: ֍ :— यस्यार्थः प्रकृत्या प्रत्याय्यते, सोऽपि प्रत्यय इत्यस्याप्यङ्गीकारात्तस्य प्रत्ययत्वमिति न दोषः । स्वार्थ इत्यस्य स्वीयप्रकृत्यर्थ इत्यर्थः । महासंज्ञाबलादर्थकाङ्क्षायामन्यानुपस्थितिरस्या बीजम् । 'सुपि स्थ' इत्यादिसूत्रेषु भाष्ये स्पष्टैषा ॥ १२२ ॥ योगविभागादिष्टसिद्धिः ॥ १२३ ॥ —: ֍ :— इष्टसिद्धिरेव, न त्वनिष्टापादनं कार्यमित्यर्थः । तत्तत्समानविधिक- द्वितीययोगेन विभक्तस्यानित्यत्वज्ञापनमेतद्बीजम् ॥ १२३ ॥
न लुमतेति । तत्र हि 'उत्तरपदत्वे चापदादिविधावि'ति वार्तिकस्य प्रत्याख्यानप्रस्तावे 'निषेधाश्च बलीयांस' इत्यनेन 'असर्वनामस्थान' इति प्रतिषेधः प्राप्नोती'त्युक्तम् । कमेर्णिङिति । तत्र हि 'विङति चे'त्यत्र इग्ग्रहणाननुवृत्तिमते णिङा ण्कारस्य 'णेरनिटि'- त्यत्र सामान्यग्रहणार्थत्वेन ङकारस्य आत्मनेपदार्थत्वेन च सावकाशत्वात् 'कामयते' इत्यत्र अनया वृद्धिनिषेधः प्राप्नोती'त्युक्तम् । यद्यपीदमेकदेशिभाष्यम् ; तथापि भाष्या- नुक्तत्वेन अप्रामाण्यशङ्कानिरासार्थतया एतदुपन्यसनं सार्थकमिति बोध्यम् ॥ १२१ ॥ सोऽपीति । अपिना स्वार्थपरिग्रहः । तथा च स्वस्वप्रकृत्यन्यतरार्थप्रत्यायकत्वं प्रत्ययत्वमित्यर्थः । अन्यानुपस्थितिरिति । 'उपस्थितं परित्यज्ये'ति न्यायादिति भावः । सुपिस्थ इति । तत्र हि 'स्थ' इति योगविभागेन 'आखूत्थ' इत्यस्य साधनावसरे 'भावार्थकत्वमेव कप्रत्ययस्य न त्वन्यार्थकत्वमि'त्युक्तम् ॥ १२२ ॥ इष्टसिद्धिरिति । विश्वतोमुखत्वात् सूत्राणां योगविभागेऽप्याचार्यतातपर्यात् तेनेष्ट- सिद्धिरेव नानिष्टापादनमित्यर्थः । अत एव 'आत्' इति योगविभागेन 'ख्व' इत्यादावेव लोपः, न तु हाहाशब्दादाविति भावः । तदुक्तमभियुक्तैः- "अल्पाक्षरमसन्दिग्धं सारवद्विश्वतो मुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥" इति । विश्वतोमुखत्वं योगविभागादिभिरनेकार्थबोधकत्वमिति तद्व्याख्यातारः ॥१२३॥
१२४-१२६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३३१ पर्यायशब्दानां लाघवगौरवचर्चा नाऽऽद्रियते ॥ १२४ ॥ -: ❖ :- तत्र तत्रान्यतरस्यां विभाषा वेति सूत्रनिर्देशज्ञापितमिदम् ॥ १२४ ॥ ज्ञापकसिद्धं न सर्वत्र ॥ १२५ ॥ -: ❖ :- स्पष्टमेव पठितव्येऽनुमानाद् बोधनमसार्वत्रिकत्वार्थमित्यर्थः, तेन ज्ञापकसिद्धपरिभाषयाऽनिष्टं नाऽऽपादनीयमिति तात्पर्यम् । भाष्येऽपि ध्वनितमेतत् ‘ङ्याप्’सूत्रादौ । ज्ञापकेति न्यायस्याप्युपलक्षणम् । न्याय-ज्ञापकसिद्धानामपि केषा- ञ्चित् कथनमन्येषामनित्यत्वबोधनायेति भावः । यथा ‘तत्स्थानापन्ने तद्धर्मलाभ’ इति न्यायसिद्धं स्थानिवत्सूत्रम्, ज्ञापकसिद्धं च तत्र ‘अनल्- विधावि’ति ॥ १२५ ॥ ननु ‘द्रोग्धा द्रोग्धा, द्रोढा द्रोढे’त्यादौ घत्वादीनामसिद्धत्वात् पूर्वं द्वित्वे एकत्र घत्वमपरत्र ढत्वमित्यस्याप्यापत्तिरत आह— पूर्वत्रासिद्धीयमद्वित्वे ॥ १२६ ॥ -: ❖ :- द्वित्वभिन्ने पूर्वत्र कर्तव्ये परमसिद्धमित्यर्थः । ‘पूर्वत्रासिद्धमि’त्यधि- कारभवं शास्त्रमस्या लिङ्गम् । लाघवगौरवचर्चेति । लाघवगौरवविचार इत्यर्थः । तथा च पर्यायशब्देषु उच्चारणगौरवेणार्थान्तरकल्पनाभिनिवेशो न कार्य इति भावः । बहुलशब्दस्य विकल्पार्थ- कत्वेऽपि वाशब्दपर्यायत्वाभावेन ‘मघवा बहुलमि’त्यत्र बहुलग्रहणसामर्थ्यादर्थान्तर- कल्पनं नैतद्विरुद्धमिति ध्येयम् ॥ १२४ ॥ असार्वत्रिकत्वार्थमिति । तेन ‘अपपरी’त्यनेन बहिरङ्गे ज्ञापिता पञ्चमी ‘करस्य बहिरि’त्यत्र नेति बोध्यम् । ध्वनितमिति । तत्र ज्ञापकेन ‘लिङ्गविशिष्ट’परिभाषामुक्त्वा अनया ‘द्विषतीताप’ इत्यत्र ‘द्विषत्परयोरि’ति नेति सूचितम् । ज्ञापकसिद्धं च तत्रेति । ल्यपि क्त्वावृत्तित्तादित्वस्य स्थानिवत्त्वादेव लाभे ‘अदो जग्धिरि’ति ल्यब्ग्रहणमुक्तपरिभाषायां ज्ञापकम्, तेनाल्विधौ स्थानिवद्भावनिषेध- ज्ञापने तु ल्यपि तादित्वाभावेन ‘अदो जग्धिरि’त्यस्याप्राप्त्या, ‘प्रजग्ध्ये’त्यत्र जग्ध्या- देशार्थं ल्यब्ग्रहणमावश्यकमिति भावः ॥ १२५ ॥ द्वित्वभिन्न इति । द्वित्वे कर्तव्ये त्रैपादिकासिद्धत्वं नेति तु नार्थः, तथा सति